षट्षष्टितमोऽध्यायः॥६६॥
अर्जुन उवाच
दक्षिणामेव तु दिशं हयानुत्तर वाहय।
पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम्॥१॥
अश्वत्थाम्नः प्रति रथं प्राचीमुद्याहि सारथे।
अचिराद् द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम्॥२॥
वैशम्पायन उवाच
मोहयित्वा तु तान् सर्वान् धनुर्घोषेण पाण्डवः।
प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत् तदा॥३॥
यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः।
तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत॥४॥
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये।
हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः॥५॥
द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः।
यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः॥६॥
सैनिका ऊचुः
दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम्।
क्रोशमात्रमतिक्रम्य बलमन्वानयामहे।
यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति॥७॥
वैशम्पायन उवाच
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे।
अमृष्यमाणः क्रोधेन प्रतिमार्गन् धनञ्जयम्॥८॥
न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः।
वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम्॥९॥
ततोऽर्जुनश्चित्रमुदारवेगं
समीक्ष्य गाण्डीवमुवाच वाक्यम्।
भोगीन्द्रकल्पं भुवनेषु रूढम्
अभेद्यमच्छेद्यमदाह्यमाजौ॥१०॥
इदं त्विदानीमनयं कुरूणां
शिवं धनुः शत्रुनिबर्हणं च।
अत्याशुगं वेगवदाशुकर्तृ
अवारणीयं महते रणाय॥११॥
प्रदारणं शत्रुवरूथिनीनाम्
अनीकजित्संयति वज्रकल्पम्।
वैधव्यदं शत्रुनितम्बिनीनां
मुखप्रदं कौरववंशजानाम्॥१२॥
प्रयाहि यत्रैष सुयोधनो हि
तं पातयिष्यामि शरैः सुतीक्ष्णैः।
आचार्यपुत्रं च सुयोधनं च
पितामहं सूतसुतं च सङ्ख्ये।
द्रोणं कृपं चैव निवार्य सर्वाञ्-
छिरो हरिष्यामि सुयोधनस्य॥१३॥
वैशम्पायन उवाच
तदुत्तरश्चित्रमुदारवेगं
धनुश्च दृष्ट्वा निशिताञ्छरांश्च।
भीतोऽब्रवीदर्जुनमाजिमध्ये
नाहं तवाश्वान् विषहे नियन्तुम्॥१४॥
तमब्रवीन्मात्स्यसुतं प्रहस्य
गाण्डीवधन्वा द्विषतां निहन्ता।
मया सहायेन कुतो भयं ते
प्रेह्युत्तराश्वानुपमन्त्रयस्व॥१५॥
आश्वासितस्तेन धनञ्जयेन
वैराटिरश्वानतुदज्जवेन।
विष्फारयंस्तद् धनुरुग्रवेगं
युयुत्समानः पुनरेव जिष्णुः॥१६॥
गाण्डीवशब्देन तु तत्र तत्र
भूमौ निषेदुर्बहवोऽतिवेलम्।
शङ्खस्य शब्देन तु वानरस्य
शब्देन ते योधवराः समन्तात्॥१७॥
अर्जुन उवाच
एषोऽतिमानी धृतराष्ट्रपुत्रः
सेनामुखे सर्वसमृद्धतेजाः।
पराजयं नित्यममृष्यमाणो
निवर्तते युद्धमनाः पुरस्तात्॥१८॥
तमेव याहि प्रसमीक्ष्य युक्तः
सुयोधनं तत्र सहानुजं च॥१९॥
वैशम्पायन उवाच
तमापतन्तं प्रसमीक्ष्य सर्वे
कुरुप्रवीराः सहसाऽभ्यगच्छन्।
प्रहस्य वीरः स तु तानतीत्य
दुर्योधने द्वौ निचखान बाणौ॥२०॥
तेनार्दितो नाग इव प्रभिन्नः
पार्थेन विद्धो धृतराष्ट्रपुत्रः।
युयुत्समानोऽतिरथेन सङ्ख्ये
स्वयं विगृह्यार्जुनमाससाद॥२१॥
स भीमधन्वानमुदग्रवेगो
धनञ्जयं शत्रुशतैरजेयम्।
आकर्णपूर्णायतचोदितेन
भल्लेन विव्याध ललाटमध्ये॥२२॥
स तेन बाणेन समर्पितेन
जाम्बूनदाभेन सुसंहितेन।
रराज पार्थो रुधिरं क्षरन् वै
यथैकरश्मिर्भगवान् दिवार्कः॥२३॥
अथास्य बाणेन विदारितस्य
प्रादुर्बभूवास्रमजस्रमुष्णम्।
सा तस्य जाम्बूनदपुष्पचित्रा
मालेव धाराऽभिविराजते स्म॥२४॥
स तेन बाणाभिहतस्तरस्वी
दुर्योधनेनोद्धतमन्युवेगः।
शरानुपादाय विषाग्निकल्पान्
विव्याध राजानमदीनसत्त्वः॥२५॥
दुर्योधनश्चापि तमुग्रतेजाः
पार्थश्च दुर्योधनमेकवीरः।
अन्योन्यमाजौ पुरुषप्रवीरौ
समं समाजघ्नतुराजमीढौ॥२६॥
ततः प्रभिन्नेन महागजेन
महीधराभेन पुनर्विकर्णः।
रथैश्चतुर्भिर्गजपादरक्षैः
कुन्तीसुतं पाण्डवमभ्यधावत्॥२७॥
तमापतन्तं त्वरितं गजेन्द्रं
धनञ्जयः कुम्भललाटमध्ये।
आकर्णपूर्णेन दृढायसेन
बाणेन विव्याध भृशं तु वीरः॥२८॥
पार्थेन सृष्टः स तु गृध्रपत्रो
ह्यापुङ्खदेशं प्रविवेश नागम्।
विदार्य शैलप्रवरप्रकाशं
यथाऽशनिः पर्वतमिन्द्रसृष्टः॥२९॥
शरप्रतप्तः स तु नागराजः
प्रवेपिताङ्गो व्यथितान्तरात्मा।
संसीदमानो निपपात भूमौ
वज्राहतं शृङ्गमिवाचलस्य॥३०॥
निपातिते दन्तिवरे पृथिव्यां
त्रासाद्विकर्णः सहसाऽवतीर्य।
तूर्णं पदान्यष्टशतानि गत्वा
विविंशतेः स्यन्दनमारुरोह॥३१॥
निहत्य नागं तु शरेण तेन
वज्रोपमेनाद्रिवरप्रकाशम्।
तथाविधेनैव शरेण पार्थो
दुर्योधनं वक्षसि निर्बिभेद॥३२॥
हते गजे राजनि चैव भिन्ने
भग्ने विकर्णे च सपादरक्षे।
गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्-
ते योधमुख्याः सहसा प्रजग्मुः॥३३॥
दृष्ट्वैव बाणेन हतं च नागं
योधांश्च सर्वान् नृपतिर्निरीक्ष्य।
रथं समावृत्य कुरुप्रवीरो
रणात् प्रदुद्राव यतो न पार्थः॥३४॥
तं भीतरूपं त्वरितं व्रजन्तं
दुर्योधनं शत्रुगणावमर्दी।
अन्वाह्वयद् योद्धुमनाः किरीटी
बाणाभिविद्धं रुधिरं वमन्तम्॥३५॥
तस्मिन् महेष्वासवरेऽतिविद्धे
धनञ्जयेनाप्रतिमेन युद्धे।
सर्वाणि सैन्यानि भयार्दितानि
त्रासं ययुः पार्थमुदीक्ष्य तानि॥३६॥
ततस्तु ते शान्तिपराश्च सर्वे
दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम्।
उच्चैर्नदन्तं बलमत्तमाजौ
मध्ये स्थितं सिंहमिवर्षभाणाम्॥३७॥
गाण्डीवशब्देन तु पाण्डवस्य
योधा निपेतुः सहसा रथेभ्यः।
भयार्दिताः पार्थशराभितप्ताः
सिंहाभिपन्ना इव वारणेन्द्राः॥३८॥
संरक्तनेत्रः पुनरिन्द्रकर्मा
वैकर्तनं द्वादशभिः पृषत्कैः।
वित्रास्य तेषां द्रवतां समैक्षद्
दुःशासनं चैकरथेन पार्थः॥३९॥
कर्णोऽब्रवीत् पार्थशराभितप्तो
दुर्योधनं दुष्प्रसहं च दृष्ट्वा।
दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं
श्रेयो विधास्याम इतो गतेन॥४०॥
मन्ये त्वया तात कृतं च कार्यं
यदर्जुनोऽस्माभिरिहाद्य दृष्टः।
भूयो वनं गच्छतु सव्यसाची
पश्यामि पूर्णं समयं न तेषाम्॥४१॥
वैशम्पायन उवाच
शरार्दितास्ते युधि पाण्डवेन
प्रसस्रुरन्योन्यमथाऽऽह्वयन्तः।
कर्णोऽब्रवीदापतत्येष जिष्णुर्-
दुर्योधनं सम्परिवार्य यामः॥४२॥
सर्वास्त्रविद् वारणयूथपाभः
काले प्रहर्ता युधि शात्रवाणाम्।
अयं च पार्थः पुनरागतो नो
मूलं च रक्ष्यं भरतर्षभाणाम्॥४३॥
समीक्ष्य पार्थं तरसाऽऽपतन्तं
दुर्योधनः कालमिवात्तशस्त्रम्।
भयार्तरूपः शरणं प्रपेदे
द्रोणं च कर्णं च कृपं च भीष्मम्॥४४॥
तं भीतरूपं शरणं व्रजन्तं
दुर्योधनं शत्रुसहो निषङ्गी।
इत्यब्रवीत् प्रीतमनाः किरीटी
बाणाभितप्तं रुधिरं वमन्तम्॥४५॥
विहाय कीर्तिं च यशश्च लोके
युद्धात् परावृत्य पलायसे किम्।
न नन्दयिष्यन्ति तवाऽऽहतानि
तूर्याणि युद्धादवरोपितस्य॥४६॥
न भोक्ष्यसे सोऽद्य महीं समग्रां
यानानि वस्त्राण्यथ भोजनानि।
कल्याणगन्धीनि च चन्दनानि
युद्धात् परावृत्य तु भोक्ष्यसे किम्।
सुवर्णमाल्यानि च कुण्डलानि
हारांश्च वैडूर्यकृतोपधानान्॥४७॥
च्युतस्य युद्धान्न तु शङ्खशब्दास्-
तथा भविष्यन्ति तवाद्य पाप।
न भोगहेतोर्वरचन्दनं च
स्त्रियश्च मुख्या मधुरप्रलापाः।
युद्धात् प्रयातस्य नरेन्द्रसूनो
परे च लोके फलिता न चेह॥४८॥
युधिष्ठिरस्यास्मि निदेशकारी
पार्थस्तृतीयो युधि च स्थिरोऽस्मि।
तदर्थमावृत्य मुखं प्रयच्छ
नरेन्द्रवृत्तं स्मर धार्तराष्ट्रः॥४९॥
मोघं तवैतद् भुवि नामधेयं
दुर्योधनेतीह कृतं पुरस्तात्।
दुर्योधनस्त्वं प्रथितोऽसि नाम्ना
सुयोधनः सन्निकृतिप्रधानः॥५०॥
न ते पुरस्तादथ पृष्ठतो वा
पश्यामि दुर्योधन रक्षितारम्।
परीप्स युद्धेन कुरुप्रवीर
प्राणान् मया बाणबलाभितप्तान्॥५१॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्षष्टितमोऽध्यायः॥६६॥