चतुःषष्टितमोऽध्यायः॥६४॥
वैशम्पायन उवाच
भीष्मं विजित्य सङ्ग्रामे कुरूणां मिषतां रणे।
ततो युद्धमनाः प्रायात् पार्थः पञ्च महारथान्॥१॥
आददानश्च नाराचान् विमृशन्निषुधी अपि।
संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम्॥२॥
द्रौणिरुवाच
कर्ण यत् तत् सभामध्ये बह्वबद्धं प्रभाषसे।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्॥३॥
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः।
अदूरात् प्रत्युपस्थाय जृम्भते केसरी यथा।
न पलायस्व शूरश्चेत् स्थित्वा युध्यस्व फल्गुनम्॥४॥
कर्ण उवाच
नाहं बिभेमि बीभत्सोः कृष्णाद् वा देवकीसुतात्।
पाण्डवेभ्योऽपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः॥५॥
सत्त्वाधिकानां शूराणां धनुर्वेदोपजीविनाम्।
दर्शनाज्जायते दर्पः स्वरश्च न विषीदति॥६॥
पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि।
युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम्॥७॥
अश्वत्थामोवाच
को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम्।
विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते॥८॥
युध्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात्।
उक्तं वचः स्मरन् कर्ण नाहमित्यादि संयुगे॥९॥
वैशम्पायन उवाच
तं समन्ताद् रथाः पञ्च परिवार्य धनञ्जयम्।
त इषून् सम्यगस्यन्तो मुमुक्षन्तोऽपि जीवितात्॥१०॥
ते लाभमिव मन्वानाः क्षिप्रमार्च्छन् धनञ्जयम्।
शरौघान् सम्यगस्यन्तो जीमूता इव वार्षिकाः॥११॥
बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः।
आद्रवन् प्रत्यवस्थाय प्रत्यविध्यन् धनञ्जयम्॥१२॥
ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतां वरः।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद् रथसत्तमान्॥१३॥
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्।
एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद् दिशः॥१४॥
न रथानां न नागानां न ध्वजानां न वाजिनाम्।
अविद्धं निशितैर्बाणैरासीद् द्व्यङ्गुलमन्तरम्॥१५॥
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजज्ञिरे।
हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत॥१६॥
यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः।
एवं सर्वानपामृद्गादर्जुनः शस्त्रतेजसा॥१७॥
गाण्डीवस्य तु घोषेण पृथिवी समकम्पत।
मनांसि धार्तराष्ट्राणामप्यकृन्तद् धनञ्जयः॥१८॥
ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतां वरः।
सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान्॥१९॥
सन्नियम्य हयानेतान् मन्दं वाहय सारथे।
आचार्यपुत्रं समरे योधयिष्येऽपराजितम्॥२०॥
पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः।
एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति॥२१॥
विराटपुत्रो जवनान् भृशमश्वानचोदयत्॥२२॥
कर्ण उवाच
एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः।
तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात्॥२३॥
द्रोण उवाच
नासौ भयेन निर्यातो महात्मा पाकशासनिः।
नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः॥२४॥
यद्येनमभिसंरब्धं पुनरेवाभियास्यसि।
बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान्॥२५॥
दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः।
मुक्तो दिष्ट्या च सङ्ग्रामे किं रणेन करिष्यसि॥२६॥
क्रोशमात्रमपाक्रम्य बलमन्वानयामहे।
अन्वागतबलाः पार्थं पुनरेवाभियास्यथ॥२७॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःषष्टितमोऽध्यायः॥६४॥