द्विषष्टितमोऽध्यायः॥६२॥

वैशम्पायन उवाच

एवं विद्राव्य तत् सैन्यं पार्थो भीष्ममुपाद्रवत्।
त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः॥१॥
बाणान् धनुषि सन्धाय चतुरः पाकशासनिः।
भीष्मं च प्राहिणोद् भीतस्तं द्वाभ्यामभ्यवादयत्॥२॥
तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम्।
सोऽप्याशीरवदद् भीष्मः कौन्तेयो जयतामिति॥३॥
नरसिंहमुपायान्तं जिगीषन्तं परान् रणे।
वृषसेनोऽभ्ययात् तूर्णं योद्धुकामो धनञ्जयम्॥४॥
वैकर्तनात्मजो वीरः सङ्ग्रामे लोकविश्रुतः।
शौर्यवीर्यादिभिः कर्णाद् बिम्बाद् विम्ब इवोद्धृतः॥५॥
आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः।
मुहूर्तं तस्य तद् दृष्ट्वा हस्तलाघवपौरुषे।
तुतोष च ततः पार्थो वृषसेनपराक्रमम्॥६॥
तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम्।
न्यकृन्यद् गृध्रपत्रेण जाम्बूनदपरिष्कृतम्॥७॥
अथैनं पञ्चभिर्भूयः प्रत्यविध्यत् स्तनान्तरे।
स पार्थबाणाभिहतो रथात् प्रस्कन्द्य दुद्रुवे॥८॥
दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः।
आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम्॥९॥
तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः।
युगं ध्वजं शरासं च चिच्छेद तरसा रणे॥१०॥
ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः।
रणमध्यादपययुः पार्थबाणाभिपीडिताः॥११॥
ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत्।
एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम्॥१२॥
मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः।
असौ शान्तनवो भीष्मस्तत्र याहि परन्तप॥१३॥
अस्त्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे।
घोररूपाणि चित्राणि लघूनि च गुरूणि च॥१४॥
अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप।
श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा॥१५॥
तस्याङ्के वर्धितो बाल्ये तद् योत्स्येऽनेन साम्प्रतम्।
अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम्॥१६॥

वैशम्पायन उवाच

तस्य तद् वचनं श्रुत्वा वैराटिः पार्थसारथिः।
वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति॥१७॥
तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम्।
वायुनेव महामेघं सहसाऽभिसमीरितम्।
तं प्रत्ययाच्च गाङ्गेयो रथेनाऽऽदित्यवर्चसा॥१८॥
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुरञ्जयः।
प्रत्युज्जगाम युद्धार्थी महर्षभमिवर्षभः॥१९॥
तथा हि गुप्त एतेषां दुराधर्षः पितामहः।
हन्यमानेषु योधेषु धनञ्जयमुपाद्रवत्॥२०॥
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम्।
शरानादाय तीक्ष्णाग्रान् मर्मदेहप्रमाथिनः॥२१॥
पाण्डुरेणाऽऽतपत्रेण ध्रियमाणेन मूर्धनि।
शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरो यथा॥२२॥
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान् प्रहर्षयन्।
प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत्॥२३॥
तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा।
प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम्।
देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान्॥२४॥
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा।
नादयामासतुर्द्यां च खं च भूमिं च सर्वशः॥२५॥
अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः।
यदर्जुनः कुरून् सर्वान् प्राकृन्तच्छस्रतेजसा॥२६॥
कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनञ्जयौ।
सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा॥२७॥
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः।
उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ॥२८॥
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ।
उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत॥२९॥
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ।
उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ।
सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ॥३०॥
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च।
अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च॥३१॥
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति।
ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते॥३२॥
इति सम्पूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम्।
तं रणे सम्प्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः॥३३॥
अथ बहुविधतूर्यशङ्खयोषैर्-
विविधरवैः सह सिंहनादमिश्रैः।
कुरुवृषभमपूजयत् कुरूणां
बलममराधिपसैन्यसप्रभं तत्॥३४॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विषष्टितमोऽध्यायः॥६२॥