षष्टितमोऽध्यायः॥६०॥

वैशम्पायन उवाच

तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः।
शरजालेन महता वर्षमाण इवाम्बुदः॥१॥
तयोर्देवासुरसमः सन्निपातो महानभूत्।
किरतोः शरजालानि वृत्रवासवयोरिव॥२॥
न स्म सूर्यस्तदा भाति न च वाति समीरणः।
शरगाढे कृते व्योम्नि च्छायाभूतमिवाभवत्॥३॥
महांश्चटचटाशब्दो योधयोर्युध्यमानयोः।
दह्यतामिव वेणूनामासीत् परमदारुणः॥४॥
हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः।
ते राजन् न प्रजानन्ति दिशं काञ्चन मोहिताः॥५॥
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः।
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः॥६॥
तदस्यापूजयन् देवाः कर्म दृष्ट्वाऽतिमानुषम्।
न शक्तोऽन्यः पुमान् स्थातुमृते द्रौणेर्धनञ्जयम्॥७॥
ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः।
पुनरप्यभ्यहन् पार्थं हृदये कङ्कपत्रिभिः॥८॥
ततः पार्थो महाबाहुः प्रहसन् स्वनवत् तदा।
योजयामास च तदा मौर्व्या गाण्डीवमोजसा॥९॥
तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम्।
ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत॥१०॥
ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः।
चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा।
विव्याध निशितैश्चापि शरैराशीविषोपमैः॥११॥
सोऽन्यं रथं समास्थाय प्रत्यायाद् रथिपुङ्गवः।
वारणेनेव मत्तेन मत्तो वारणयूथपः॥१२॥
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः।
रणमध्ये द्वयोरेव सुमहद् रोमहर्षणम्॥१३॥
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः।
युध्यमानौ महात्मानौ द्विरदाविव सङ्गतौ॥१४॥
तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ।
शरैराशीविषाकारैर्ज्वलद्भिरिव पावकैः॥१५॥
अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः।
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः॥१६॥
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे।
जग्मुः परिक्षयं शीघ्रमभूत् तेनाधिकोऽर्जुनः॥१७॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षष्टितमोऽध्यायः॥६०॥