चतुःपञ्चाशोऽध्यायः॥५४॥

वैशम्पायन उवाच

तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः।
उपायादर्जुनस्तूर्णं रथघोषेण नादयन्॥१॥
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम्।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम्॥२॥
त्रिक्रोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः।
सन्नामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत्॥३॥
राजानं नात्र पश्यामि रथानीके व्यवस्थितम्।
दक्षिणं पक्षमादाय कुरवो यान्त्युदङ्मुखाः॥४॥
उत्सृज्यैतद् रथानीकं महेष्वासाभिरक्षितम्।
गवाग्रमभितो याहि यावत् पश्यामि मे रिपुम्॥५॥
गवाग्रमभितो गत्वा गाश्चैवाऽऽशु निवर्तय।
यावदेते निवर्तन्ते कुरवो जवमास्थिताः।
तावदेव पशून् सर्वान् निवर्तिष्ये तवाभिभो॥६॥

वैशम्पायन उवाच

इत्युक्त्वा समरे पार्थो वैराटिमपराजितः।
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत्॥७॥
ततोऽभ्यवादयत् पार्थो भीष्मं शान्तनवं कृपम्।
द्वाभ्यां द्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात्॥८॥
द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत्।
ततस्तत् सर्वमालोक्य द्रोणो वचनमब्रवीत्॥९॥
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम्।
न कश्चिद् योद्धुमिच्छेत न च गुप्तं स्वजीवितम्।
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे॥१०॥
एतद् ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते।
मेघः सविद्युत्स्तनितो रोरवीति च वानरः॥११॥
आस्थाय च रथं याति गाण्डीवं विक्षिपन् धनुः॥१२॥
अश्वानां स्तनतां शब्दो वहतां पाकशासनिम्।
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः॥१३॥
दारयन्निव तेजस्वी वसुधां वासवात्मजः।
एष तिष्ठन् रथिश्रेष्ठो रथे रथिशतप्रणुत्॥१४॥
एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः।
श्रीमान् वदान्यो धृतिमान् तत् करोति च पाण्डवः॥१५॥
इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ।
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ॥१६॥
इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः।
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम्॥१७॥
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः।
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान्॥१८॥
निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम्।
अभिवादयते पार्थः पूजयन् मामरिन्दमः॥१९॥
अमर्षेण हि सम्पूर्णो दुःखेन प्रतिबोधितः।
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम्॥२०॥
द्व्यधिकं दशमुष्य वत्सराणां
स्वजनेनाविदितस्त्रयोदशं च।
ज्वलते रथमास्थितः किरीटी
तम इव रात्रिजमभ्युदस्य सूर्यः॥२१॥
रथी शरी चारुमाली निषङ्गी
शङ्खी पताकी कवची किरीटी।
खड्गी च धन्वी च विराजतेऽयं
शिखीव यज्ञेषु घृतेन सिक्तः॥२२॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः॥५४॥