द्विपञ्चाशोऽध्यायः॥५२॥

भीष्म उवाच

कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च।
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा॥१॥
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि।
एवं कालविभागेन कालचक्रं प्रवर्तते॥२॥
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्।
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ॥३॥
एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः।
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः॥४॥
पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः॥५॥
सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम्।
एवमेतद् ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः॥६॥
सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः।
येषां युधिष्ठिरो राजा कस्माद् धर्मेऽपराध्नुयुः॥७॥
कामात् क्रोधाच्च लोभाच्च कामक्रोधभयादपि।
स्नेहाद् वा यदि वा मोहाद् धर्मं नात्येति धर्मजः॥८॥
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्।
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः॥९॥
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः।
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात्॥१०॥
यश्चानृत इति ख्यातः स च गच्छेत् पराभवम्।
वृणुयुर्मरणं पार्था नानृतत्त्वं कथञ्चन॥११॥
प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः।
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः॥१२॥
प्रतियुद्ध्येम समरे सर्वशस्त्रभृतां वरम्॥१३॥
तस्माद् यदत्र कल्याणं लोके सद्भिरनुष्ठितम्।
तत् संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात् परम्॥१४॥
न हि पश्यामि सङ्ग्रामे कदाचिदपि कौरव।
एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनञ्जयः॥१५॥
सम्प्रवृत्ते तु सङ्ग्रामे भावाभावौ जयाजयौ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम्॥१६॥
तस्माद् युद्धोपचरितं कर्म वा धर्मसंहितम्।
क्रियतामाशु राजेन्द्र सम्प्राप्तश्च धनञ्जयः॥१७॥
एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः।
भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान् रणे।
तस्मात् सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे॥१८॥

दुर्योधन उवाच

नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह।
ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो।
युद्धोपचारिकं यत् तु तत् सर्वं संविधीयताम्॥१९॥

वैशम्पायन उवाच

भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च।
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्चाऽऽह द्विजोत्तमः॥२०॥
यत् तु युद्धोपचरितं भवेद् वा धर्मसंहितम्।
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि॥२१॥
अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन॥२२॥
राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु।
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु।
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम्॥२३॥
अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा।
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम्॥२४॥
एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति।
मत्स्यं वा पुनरायातमथवाऽपि शतक्रतुम्।
अहमावारयिष्यामि वेलेव मकरालयम्॥२५॥

वैशम्पायन उवाच

तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना।
तथा हि कृतवान् राजा कौरवाणामनन्तरम्॥२६॥
भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम्।
सेनामुख्यान् व्यवस्थाप्य व्यूहितुं सम्प्रचक्रमे॥२७॥
द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान्।
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः।
कृपः शारद्वतो धीमान् पार्श्वं रक्षतु दक्षिणम्॥२८॥
विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः।
शकुनिः सौबलश्चैव दुःसहश्च महाबलः।
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः॥२९॥
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः।
अहं सर्वस्य सैन्यस्य पश्चात् स्थास्यामि पालयन्॥३०॥
सर्वे महारथाः शूरा महेष्वासा महाबलाः।
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि॥३१॥

वैशम्पायन उवाच

अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः।
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम्॥३२॥
तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः।
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत॥३३॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विपञ्चाशोऽध्यायः॥५२॥