एकपञ्चाशोऽध्यायः॥५१॥
वैशम्पायन उवाच
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम्।
दुर्योधनमिदं वाक्यमब्रवीत् कुरुसंसदि॥१॥
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति।
आचार्यपुत्रः सहजं निश्चितं साधु भाषते॥२॥
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति।
आचार्यो नावमन्तव्यः पुरुषेण विजानता।
देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः॥३॥
यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः।
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः॥४॥
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः।
तस्मात् तत्त्वं न जानाति यत् तु कार्यं नराधिपः॥५॥
धार्तराष्ट्रोऽपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम्।
नैव पश्यति नाऽऽघ्राति मन्दः क्रोधवशं गतः॥६॥
वैशम्पायन उवाच
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह।
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतां वरः॥७॥
कर्णो हि यदवोचत् त्वां तेजस्सञ्जननाय तत्।
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम्॥८॥
नायं कालो विरोधस्य कौन्तेये समुपस्थिते।
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च॥९॥
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा।
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते।
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम्॥१०॥
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते।
नैतत् समस्तमुभयं कस्मिंश्चिदनुशुश्रुम।
अन्यत्र भारताचार्यात् सुपुत्रादिति मे मतिः॥११॥
वेदान्ताश्च पुराणानि इतिहासं पुरातनम्।
जामदग्न्यमृते राजन् को द्रोणादधिको भवेत्॥१२॥
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते॥१३॥
आचार्यपुत्रः क्षमतां नायं कालो विभेदने।
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम्॥१४॥
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः।
मुख्यो भेदो हि तेषां तु पापिष्ठो विदुषां मतः॥१५॥
अश्वत्थामोवाच
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ।
किन्तु रोषपरीतेन गुरुणा भाषिता गुणाः॥१६॥
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत्॥१७॥
आचार्य एष क्षमतां शान्तिरत्र विधीयताम्।
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम्॥१८॥
वैशम्पायन उवाच
ततो दुर्योधनो द्रोणं क्षमयामास भारत।
सह कर्णेन भीष्मेण कृपं चैव महाबलम्॥१९॥
द्रोण उवाच
यदेतत् प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्।
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम्॥२०॥
यथा दुर्योधनं पार्थो नोपसर्पति सङ्गरे।
साहसाद् यदि वा मोहात् तथा नीतिर्विधीयताम्॥२१॥
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः।
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति॥२२॥
यथा नायं समायुञ्ज्याद् धार्तराष्ट्रं कथञ्चन।
न च सेनां पराजय्यात् तथा नीतिर्विधीयताम्॥२३॥
उक्तं दुर्योधनेनापि पुरस्ताद् वाक्यमीदृशम्।
तदनुस्मृत्य गाङ्गेय यथावद् वक्तुमर्हसि॥२४॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकपञ्चाशोऽध्यायः॥५१॥