पञ्चाशोऽध्यायः॥५०॥
वैशम्पायन उवाच
कृपस्य वचनं श्रुत्वा कर्णो राजन् युधाम्पतिः।
पुनः प्रोवाच संरब्धो गर्हयन् ब्राह्मणं कृपम्॥१॥
कर्ण उवाच
लक्षयाम्यहमाचार्यं भयाद् भक्तिं गतं रिपौ।
भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम्॥२॥
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च।
अस्त्रं ब्रह्मशिरश्चैव सत्त्वहीनस्य ते वृथा॥३॥
मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः।
भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ॥४॥
भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च।
आमन्त्रणानि भुङ्क्ष्वाऽद्य माऽस्मान् युद्धेन भीषय॥५॥
भार्गवास्त्रं मया मुक्तं निर्दहेत् पृथिवीमिमाम्।
किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे॥६॥
आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः।
कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम्॥७॥
तानहं निहनिष्यामि भवता गम्यतां गृहम्।
किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम्॥८॥
तस्य तद् वचनं श्रुत्वा अश्वत्थामा प्रतापवान्।
उवाच वदतां श्रेष्ठो दुर्योधनमवेक्ष्य च॥९॥
न च तावज्जिता गावो न च सीमान्तरं गताः।
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे॥१०॥
बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः।
तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः॥११॥
सङ्ग्रामान् विपुलाञ्जित्वा लब्धा च विपुलं धनम्।
विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः॥१२॥
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः।
तूष्णीं धारयते लोकान् वसुधा सचराचरान्॥१३॥
चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः।
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति॥१४॥
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा।
क्षत्रियो धनमाहृत्य यजेतैव न याजयेत्॥१५॥
वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत्॥१६॥
शूद्रः शुश्रूषणं कुर्यात्त्रिषु वर्णेषु नित्यशः।
वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः॥१७॥
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम्।
प्रकुर्वन्ति महाभागा यज्ञान् सुविपुलानपि॥१८॥
का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः।
केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु॥१९॥
वैशम्पायन उवाच
दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसदि।
अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत्॥२०॥
प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुर्महति।
तथा नृशंसरूपोऽयं धार्तराष्ट्रश्च निर्घृणः॥२१॥
तथाऽधिगम्य वित्तानि को विकत्थेद् विचक्षणः।
निकृत्या वञ्चनायोगैश्चरन् वैतंसिको यथा॥२२॥
कतमद् द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम्।
नकुलं सहदेवं वा धनं येषां त्वया हृतम्॥२३॥
युधिष्ठिरो जितः कस्मिन् भीमश्च बलिनां वरः।
इन्द्रप्रस्थं त्वया कस्मिन् सङ्ग्रामे निर्जितं पुरा॥२४॥
तथैव कतमद् युद्धं यस्मिन् कृष्णा जिता त्वया।
एकवस्त्रा सभां नीता क्षुद्रकर्मन् रजस्वला॥२५॥
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा।
क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत्॥२६॥
यथाशक्ति मनुष्याणाममर्षं लक्षयामहे।
अन्येषामपि सत्त्वानामपि कीटपिपीलिकैः॥२७॥
द्रौपद्याः सम्परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति।
क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः॥२८॥
त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि।
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति॥२९॥
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः।
भयादिह न युद्ध्येरन् पाण्डुपुत्रेण धीमता॥३०॥
यं यमेकोऽपि सङ्क्रुद्धः सङ्ग्रामे निपतिष्यति।
वृक्षं गरुडवद्वेगाद् विनिहत्यान्तमेष्यति॥३१॥
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम्।
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत्॥३२॥
देवं दैवेन युद्ध्येत मानुषेण च मानुषम्।
अस्त्रं ह्यस्त्रेण यो हन्यात् कोऽर्जुनेन समः पुमान्॥३३॥
पुत्रादनवमः शिष्य इति धर्मविदो विदुः।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः॥३४॥
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः।
यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम्॥३५॥
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः।
दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह॥३६॥
नाक्षान् क्षिपति गाण्डीवं न कृतं द्वापरं न च।
ज्वलतो निशितान् बाणांस्तांस्तान् क्षिपति गाण्डिवम्॥३७॥
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः।
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः॥३८॥
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः।
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः॥३९॥
यथा सभायां द्यूतं त्वं मातुलेन सहाकरोः।
तथा युद्धस्व सङ्ग्रामे सौबलेन सुरक्षितः॥४०॥
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम्।
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद् गवां पदम्॥४१॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चाशोऽध्यायः॥५०॥