एकोनपञ्चाशोऽध्यायः॥४९॥
वैशम्पायन उवाच
तस्य तद् वचनं श्रुत्वा नीतिशास्त्रविशारदः।
आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत्॥१॥
सदैव तव राधेय युद्धे क्रूरतरा मतिः।
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे॥२॥
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः।
तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः॥३॥
देशकालेन संयुक्तं युद्धं विजयदं भवेत्।
हीनकालं तदेवेह अनर्थायोपकल्पते॥४॥
देशे काले च विक्रान्तं कल्याणाय विधीयते।
आनुकूल्येन कार्याणामुत्तरं तु विधीयते॥५॥
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः।
परिचिन्त्य तु पार्थेन सन्निपातो न नः क्षमः॥६॥
एको हि शत्रून् समरे समर्थः प्रतिबाधितुम्।
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत्॥७॥
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत्।
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम्॥८॥
सैन्धवं वनवासे तु जित्वा कृष्णामथानयत्।
एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत॥९॥
एकः सपत्नाञ्जित्वा तु कुरूणामकरोद् यशः।
एको गन्धर्वराजानं चित्रसेनमरिन्दमः।
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम्॥१०॥
पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे।
आदाय गतवान् पार्थो भवान् क्व नु गतस्तदा॥११॥
तथा निवातकवचाः कालकेयाश्च दानवाः।
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः॥१२॥
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा।
एकैकेन यथा तेषां भूमिपाला वशे कृताः॥१३॥
इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति।
यस्तेनाऽऽशंसते योद्धुं कर्तव्यं तस्य भेषजम्॥१४॥
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्।
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि॥१५॥
अथवा कुञ्जरं मत्तमेकमेकचरं वने।
निरङ्कुशं समारुह्य नगरं यातुमिच्छसि॥१६॥
समिद्धं पावकं चापि घृतमेदोवसाहुतम्।
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि॥१७॥
आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम्।
समुद्रं प्रतरेद् दोर्भ्यां तत्र किं कर्ण पौरुषम्॥१८॥
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः।
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत् स दुर्मतिः॥१९॥
अस्माभिरेव निकृतो वर्षाणीह त्रयोदश।
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति॥२०॥
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम्।
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम्॥२१॥
उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत् कथम्।
सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम्॥२२॥
यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः।
युद्धायावस्थितं पार्थमागतं पाकशासनिम्॥२३॥
यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः।
षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः॥२४॥
द्रोणो दुर्योधनो भीष्मो भवान् द्रौणिस्तथा वयम्।
सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः॥२५॥
न ह्यसङ्गत्य समरे पार्थं जेष्यामहे वयम्।
सङ्गत्य समरे पार्थं सर्वे जेष्यामहे वयम्॥२६॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनपञ्चाशोऽध्यायः॥४९॥