सप्तचत्वारिंशोऽध्यायः॥४७॥
वैशम्पायन उवाच
ततो दुर्योधनो राजा समरे भीष्ममब्रवीत्।
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम्॥१॥
उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत्।
पुनरेव च वक्ष्यामि न हि तृप्यामि तद् ब्रुवन्॥२॥
पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान्।
वने जनपदेऽज्ञातैरेष एव पणो हि नः॥३॥
तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः।
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः॥४॥
अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः।
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः॥५॥
लोभाद् वा ते न जानीयुरस्मान् वा मोह आविशत्।
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति॥६॥
अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा॥७॥
उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम्।
यदि बीभत्सुरायातः किन्तु कृत्यमतः परम्॥८॥
त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम्।
विप्रकारैर्हि मात्स्येन सुशर्मा बाधितः पुरा॥९॥
तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम्।
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम्॥१०॥
प्रथमं तैर्ग्रहीतव्यं मात्स्यानां गोधनं महत्।
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम्॥११॥
नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति।
इमा गावो ग्रहीतव्या याते मत्स्ये गवां पदम्॥१२॥
इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये।
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम्॥१३॥
ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः।
अस्मान् वाऽप्यतिसन्धाय कुर्युर्मात्स्येन सङ्गतिम्॥१४॥
अथवा तानुपादाय मात्स्यो जानपदैः सह।
सर्वथा सेनया सार्धमस्मानेष युयुत्सति॥१५॥
तेषामेको महावीर्यः कश्चिदेव पुनःसरः।
अस्माञ्जेतुमिहाऽऽयातो मात्स्यो वाऽपि स्वयं भवेत्॥१६॥
यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः।
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः॥१७॥
अथ कस्मात् स्थिता ह्येते रथेषु रथिसत्तमाः।
भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च।
सम्भ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन् धनञ्जये॥१८॥
नान्यत्र युद्धाच्छ्रेयोऽस्ति तथाऽऽत्मा प्रणिधीयताम्।
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः॥१९॥
अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा।
यमेन वाऽपि सङ्ग्रामे को हास्तिनपुरं व्रजेत्॥२०॥
शरैरभिप्रणुन्नानां भग्नानां गहने वने।
को हि जीवेत् पदातीनां भवेदश्वेषु संशयः॥२१॥
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम्।
जानामि च मतं तेषामतस्त्रासयतीव नः॥२२॥
अर्जुने चापि सम्प्रीतिमधिकामुपलक्षये।
तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति।
यथा सेना न भज्येत तथा नीतिर्विधीयताम्॥२३॥
अदेशिका ह्यरण्येऽस्मिन् कृच्छ्रे शत्रुवशं गता।
यथा न विभ्रमेत् सेना तथा नीतिर्विधीयताम्॥२४॥
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत् परे।
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः॥२५॥
सदा च वायवो वान्ति नित्यं वर्षति वासवः।
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा॥२६॥
भीषयन् पाण्डवेयेभ्यो भवान् सर्वानिमाञ्जनान्।
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते॥२७॥
यथैवाश्वान् मार्गमाणास्तानेवाभिपरीप्सवः।
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा॥२८॥
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते।
अन्यत्र कामाद् द्वेषाद् वा रोषाद् वाऽस्मासु केवलम्॥२९॥
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः।
नैते महाहवे घोरे सम्प्रष्टव्याः कथञ्चन॥३०॥
प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः॥३१॥
बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि।
इष्वस्त्रे चापसन्धाने पण्डितास्तत्र शोभनाः॥३२॥
परेषां विवरज्ञाने मनुष्याचरितेषु च।
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः॥३३॥
पण्डितान् पृष्ठतः कृत्वा परेषां गुणवादिनः।
विधीयतां तथा नीतिर्यथा वध्येत वै परः॥३४॥
गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्।
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः॥३५॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तचत्वारिंशोऽध्यायः॥४७॥