षट्चत्वारिंशोऽध्यायः॥४६॥

वैशम्पायन उवाच

भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतां वरः।
राजानं चाऽऽह सम्प्रेक्ष्य दुर्योधनमरिन्दमः॥१॥
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते।
कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः॥२॥
औत्पातिकमिदं राजन् निमित्तं भवतीह नः।
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप॥३॥
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः।
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः॥४॥
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च।
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम्॥५॥
गोमायुरेष सैन्यानां रुदन्मध्येन धावति।
चाषा नदन्ति चाऽऽकाशे वेदयन्तो महद्भयम्॥६॥
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये॥७॥
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः।
विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः।
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः॥८॥
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः।
न च सूर्यः प्रतपति महद् वेदयते भयम्॥९॥
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः।
पराभूता च वः सेना न कश्चिद् योद्धुमिच्छति॥१०॥
विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः।
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः॥११॥
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः।
वादित्रोद्‌घुष्टघोषाश्च न च गाढं स्वनन्ति च।
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम्॥१२॥
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः।
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात्॥१३॥
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम्।
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान्॥१४॥
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ।
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात्॥१५॥
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम्।
गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः।
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि॥१६॥
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः।
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति॥१७॥
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि।
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन॥१८॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्चत्वारिंशोऽध्यायः॥४६॥