पञ्चचत्वारिंशोऽध्यायः॥४५॥

वैशम्पायन उवाच

उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्।
आयुधं सर्वमादाय ततः प्रायाद् धनञ्जयः॥१॥
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च।
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे॥२॥
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम्।
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा।
मनसा चिन्तयामास प्रसादं पावकस्य च॥३॥
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत्।
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद् धनुः॥४॥
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम्।
खात् पपात रथे तूर्णं दिव्यरूपं मनोरमम्॥५॥
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः।
बद्धासिः सतलत्राणः प्रगृहीतशरासनः।
ततः प्रायादुदीचीं स कपिप्रवरकेतनः॥६॥
सैन्याभ्याशं स सम्प्राप्य गृहीत्वा शङ्खमुत्तमम्।
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः।
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिन्दमः॥७॥
शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः।
उच्छ्वसद् गण्डयुगलं सिराल्याचितफालकम्॥८॥
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम्।
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम्॥९॥
यावत् स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव।
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिन्दमः॥१०॥
शङ्खशब्दोऽस्य सोऽत्यर्थं श्रूयते कालमेघवत्॥११॥
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
वानरस्य निनादेन रथनेमिस्वनेन च।
जङ्गमस्य भयं घोरमकरोत् पाकशासनिः॥१२॥
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन् क्षितौ।
उत्तरश्चापि सन्त्रस्थो रथोपस्थ उपाविशत्॥१३॥
अथाश्वान् रश्मिभिः पार्थः समुद्यम्य परन्तपः।
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे॥१४॥
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम्।
उत्तरं सम्परिष्वज्य समाश्वासयदर्जुनः॥१५॥
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि॥१६॥
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः।
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः॥१७॥
स त्वं कथमिवानेन शङ्खशब्देन भीषितः।
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा॥१८॥

उत्तर उवाच

श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः।
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः॥१९॥
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः।
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम्।
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित्॥२०॥
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
अमानुषाणां शब्देन भूतानां निस्वसेन च।
रथनेमिप्रणादेन मनो मे मुह्यते भृशम्॥२१॥
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च।
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ॥२२॥

वैशम्पायन उवाच

पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः।
स मूढचेता वैराटिरर्जुनं समुदैक्षत॥२३॥
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत्॥२४॥
स्थिरो भव महाबाहो संज्ञां चाऽऽत्मानमानय।
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च।
दृढं च रश्मीन् संयच्छ शङ्खं ध्मास्याम्यहं पुनः॥२५॥
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः।
ततः शङ्खमुपाध्मासीद् दारयन्निव पर्वतान्।
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च॥२६॥
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत्।
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्।
तं समाश्वासयामास पुनरेव धनञ्जयः॥२७॥
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च।
गाण्डीवस्य च शब्देन पृथिवी समकम्पत॥२८॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चचत्वारिंशोऽध्यायः॥४५॥