चत्वारिंशोऽध्यायः॥४०॥

वैशम्पायन उवाच

तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम्।
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम्॥१॥
द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः।
वित्रस्तमनसश्चाऽऽसन् धनञ्जयकृताद् भयात्॥२॥
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्।
गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत॥३॥
स्वराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः।
भस्मवर्षप्रकाशेन तमसा संवृतं नभः॥४॥
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः।
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च॥५॥
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः।
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः॥६॥
यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च।
यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात् समुपस्थितम्॥७॥
रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि।
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम्॥८॥
एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः।
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः॥९॥
एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत्॥१०॥
नदीज लङ्केशवनारिकेतुर्-
नगाह्वयो नाम नगारिसूनुः।
गत्या सुरेशः क्वचिदङ्गनेव
गुरुर्बभाषे वचनं तदानीम्॥११॥

वैशम्पायन उवाच

इत्युक्त्वा संज्ञया द्रोणस्तूष्णीमासीद् विशाम्पते।
भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाऽब्रवीत्॥१२॥
अतीतं चक्रमस्माकं विषयान्तरमागताः।
अतीतः समयश्चोक्त अस्माभिर्यः सभातले।
न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ॥१३॥
देवव्रतेनैवमुक्ते वचने हितकारिणा।
दुर्योधनमथाऽऽलोक्य संज्ञया द्रोण अब्रवीत्॥१४॥
एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः।
आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः॥१५॥
एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः।
ये जेतारो महीपानाममुना कुरवो हताः॥१६॥
यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत्।
येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा॥१७॥
विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान्।
निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे॥१८॥
खाण्डवे येन सन्तृप्तो वह्निर्जित्वा सुरासुरान्।
परिणीता सुभद्रा च येन निर्जित्य यादवान्॥१९॥
निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः॥२०॥
गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि।
निवातकवचा राजन् दानवानां त्रिकोटयः।
निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः॥२१॥
येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने॥२२॥
येन गत्वोत्तरं मेरोरानिनाय महद्धनम्।
याजितो धर्मसूनुश्च नृपान् सर्वान् विजित्य च॥२३॥
यस्मिञ्छौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः।
औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम्।
एवमादिगुणोपेतः सोऽयं पार्थो न संशयः॥२४॥
नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान्॥२५॥
क्लेशितश्च वने शूरो वासवेन च शिक्षितः।
अमर्षवशमापन्नो योत्स्यते नात्र संशयः।
न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव॥२६॥
महादेवोऽपि पार्थेन श्रूयते युद्धतोषितः।
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः॥२७॥
इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत॥२८॥
सदा भवान् फल्गुनस्य गुणानस्मासु कत्थसे।
न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा॥२९॥

दुर्योधन उवाच

यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम।
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान्॥३०॥
अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट्।
शरैरेनं सुनिशितैः पातयिष्यामि भूतले॥३१॥

वैशम्पायन उवाच

तस्मिन् वदति तां वाचं धार्तराष्ट्रे परन्तपे।
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन्॥३२॥
तां शमीमभिसङ्गम्य पार्थो वैराटिमब्रवीत्।
सुखसंवर्धितं पित्रा समराणामकोविदम्॥३३॥
एहि भूमिञ्जयाऽऽरुह्य वैराटे महतीं शमीम्।
समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय॥३४॥
नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम्।
नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम्॥३५॥
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः।
नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह॥३६॥
अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च।
आयुधानि महाबाहो तवैतानि महाबल॥३७॥
तस्माद् भूमिञ्जयाऽऽरुह्य शमीमेतां पलाशिनीम्।
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत॥३८॥
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा।
ध्वजा शराश्च शूराणां दिव्यानि कवचानि च॥३९॥
अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम्।
एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम्॥४०॥
व्यायामसहमत्यर्थं तृणराजसमं महत्।
सर्वायुधमहामात्रं सर्वारिक्षयकारकम्॥४१॥
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्।
अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम्॥४२॥
तादृशान्येव सर्वाणि बलवन्ति दृढानि च।
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा।
प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत॥४३॥

उत्तर उवाच

शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल।
तदहं राजपुत्रः सन् स्पृशेयं पाणिना कथम्॥४४॥
न मामेवंविधं कर्म कारयस्व बृहन्नले।
कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथम्॥४५॥
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना।
महता राजपुत्रेण मन्त्रयज्ञविदा सता॥४६॥
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्।
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले॥४७॥

वैशम्पायन उवाच

तमुवाच ततः शूरः पार्थं परपुरञ्जयः।
दायादं सर्वमत्स्यानां कुले जातं विशारदम्॥४८॥
जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च।
कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप॥४९॥
व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि।
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते॥५०॥
दायादं मत्स्यराजस्य कुले जातं मनस्विनम्।
कथं वा निन्दितं कर्म कारये त्वां नृपात्मज॥५१॥

वैशम्पायन उवाच

एवमुक्तः स पार्थेन रथात् प्रस्कन्द्य कुण्डली।
आरुरोह शमीवृक्षं वैराटिरवशस्तदा॥५२॥
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन् धनञ्जयः।
अवरोपय वृक्षाग्राद् धनूंष्येतानि माचिरम्॥५३॥
सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम्।
परिवेष्टनपत्राणि विमुच्य समुपानयत्॥५४॥
परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम्।
तेषां सन्नहनीयानि परिमुच्य परन्तपः।
अपश्यत् तत्र गाण्डीवं चतुर्भिरपरैः सह॥५५॥
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्।
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव॥५६॥
स तेषां रूपमालेक्य भोगिनामिव दृम्भताम्।
हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा॥५७॥
अर्जुनेन समाश्वस्तः किञ्चिद् धृष्टो नृपात्मजः।
तेषां सन्दर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः॥५८॥
आमील्य पुनरुन्मील्य स्पृष्ट्वा स्पृष्ट्वा चकार सः।
सम्यग् घुण्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत॥५९॥
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च।
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत्॥६०॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चत्वारिंशोऽध्यायः॥४०॥