सप्तत्रिंशोऽध्यायः॥३७॥
वैशम्पायन उवाच
याते त्रिगर्तान् मात्स्ये तु पशूंस्तान् वै परीप्सति।
दुर्योधनः सहामात्यैर्विराटपुरमभ्यगात्॥१॥
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित्।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः॥२॥
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान्।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः॥३॥
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः।
गोपान् विद्राव्य तरसा गोधनं जह्रुरोजसा॥४॥
गवां शतसहस्राणि कुरवः कालयन्ति च।
महता रथवंशेन परिगृह्य समन्ततः॥५॥
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः।
आरावः सुमहानासीत् सम्प्रहारे भयङ्करे॥६॥
गवाध्यक्षस्तु सन्त्रस्तो रथमास्थाय सत्वरः।
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत्॥७॥
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात् ततः।
अवतीर्य रथात् तूर्णमाख्यातुं प्रविवेश ह॥८॥
दृष्ट्वा भूमिञ्जयं नाम पुत्रं मात्स्यस्य मानिनम्।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम्॥९॥
गवां शतसहस्राणि कुरवः कालयन्ति ते।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन॥१०॥
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम्।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत्॥११॥
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः॥१२॥
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः।
समर्थः समरे योद्धुं कौरवैः सह तादृशैः॥१३॥
तस्य तत् सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम्।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः॥१४॥
आवर्तय कुरूञ्जित्वा पशून् पशुपतिर्यथा।
निर्दहैषामनीकानि भीमेन शरतेजसा॥१५॥
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः सन्नतपर्वभिः।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः॥१६॥
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम्।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय॥१७॥
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते।
श्वेताः काञ्चनसन्नाहा रथे युज्यन्तु ते हयाः।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो॥१८॥
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः॥१९॥
रणे जित्वा कुरून् सर्वान् वज्रपाणिरिवासुरान्।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः॥२०॥
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुत।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः॥२१॥
यथा हि पाण्डुपुत्राणामर्जुनो जयतां वरः।
एवमेव गतिर्नूनं भवान् विषयवासिनाम्॥२२॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः॥३७॥