षट्त्रिंशोऽध्यायः॥३६॥

वैशम्पायन उवाच

ततो विराटः कौन्तेयानतिमानुषविक्रमान्।
अर्चयामास वित्तेन मानेन च महारथान्।
वचसा चैव सान्त्वेन स्नेहेन च मुदान्वितः॥१॥

विराट उवाच

यथैव मम रत्नानि युष्माकं तानि वै तथा।
कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम्॥२॥
ददाम्यलङ्कृताः कन्या वसूनि विविधानि च।
मनसा चाप्यभिप्रेतं यद् वः शत्रुनिबर्हणाः॥३॥
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह।
तस्माद् भवन्तो मत्स्यानामीश्वराः सर्व एव हि॥४॥

वैशम्पायन उवाच

तं तथावादिनं तत्र कौरवेयाः पृथक् पृथक्।
ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः॥५॥
प्रतिनन्दामहे वाचं सर्वथैव विशाम्पते।
एतावताऽद्य प्रीताः स्मो यत् त्वं मुक्तोऽसि शत्रुभिः॥६॥
यत् त्वं मुक्तोऽसि शत्रुभ्यो ह्येतत् कार्यं हितं हि नः।
न किञ्चित् कार्यमस्माकं न धनं मृगयामहे॥७॥
अथाब्रवीत् प्रीतमना मात्स्यराजो युधिष्ठिरम्।
निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा॥८॥
पुनरेव महाबाहुर्विराटो राजसत्तमः।
एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान्॥९॥
मनसा चाप्यभिप्रेतं यत् ते शत्रुनिबर्हण।
तत् तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान्॥१०॥
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा।
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते॥११॥
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च।
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः॥१२॥
ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद् वचः।
प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषिताम्॥१३॥
आनृशंस्यपरो नित्यं सुमुखः सततं भवान्।
पुनरेव विराटश्च राजा कङ्कमभाषत॥१४॥
अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम।
सोऽहं शूद्रेण सङ्ग्रामे वललेनाभिरक्षितः॥१५॥
त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ।
वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते॥१६॥
ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम्।
शयनासनयानानि कन्याश्च समलङ्कुताः॥१७॥
हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च।
एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके॥१८॥

वैशम्पायन उवाच

तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत।
एषैव तु मम प्रीतिर्यत् त्वं मुक्तोऽसि शत्रुभिः॥१९॥
प्रतीतश्चेत् पुरं तुष्टः प्रविशाद्य परन्तप।
दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला॥२०॥
सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम्।
विसर्जय नरश्रेष्ठं वरमेतदहं वृणे॥२१॥

वैशम्पायन उवाच

एवमुक्ते तु कङ्केन विराटो राजसत्तमः।
प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः॥२२॥

कङ्क उवाच

गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव।
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम्॥२३॥
ततस्तद् वचनान्मात्स्यो दूतान् राजा समादिशत्।
आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजयं मम॥२४॥
कुमार्यः समलङ्कृत्य पर्यागच्छन्तु मे पुरात्।
वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः।
प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते॥२५॥
एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम्।
ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः॥२६॥
नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते।
विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन्।
पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा॥२७॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्त्रिंशोऽध्यायः॥३६॥