पञ्चत्रिंशोऽध्यायः॥३५॥

वैशम्पायन उवाच

तमसाऽभिप्लुते लोके रजसा चैव भारत।
व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम्॥१॥
ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः।
कुर्वाणो विमलां रात्रिं दर्शयन् क्षत्रियान् रणे॥२॥
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत।
घोररूपं तदा तेषामवेक्ष्य तु परस्परम्॥३॥
तथैव तेषां तुमुलानि तानि
क्रुद्धानि चान्योन्यमभिद्रवन्ति।
गदासिपट्टैश्च परश्वथैश्च
प्रासैश्च तीक्ष्णाग्रसुधौतधारैः॥४॥
बलं तु मात्स्यस्य बलेन राजा
सर्वं त्रिगर्ताधिपतिः सुशर्मा।
प्रमथ्य जित्वा च निपीड्य मत्स्यान्
विराटमोजस्विनमभ्यधावत्॥५॥
मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ।
सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ॥६॥
उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ।
उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ॥७॥
तौ निहत्य पृथग् धुर्यानुभयोः पार्ष्णिसारथी।
आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ॥८॥
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा।
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः॥९॥
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ।
गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात्॥१०॥
सुशर्मा परवीरघ्नो बलवान् वीर्यवान् गदी।
विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत्॥११॥
तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः।
स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः॥१२॥
तस्मिन् गृहीते विरथे विराटे बलवत्तरे।
बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम्॥१३॥
प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे।
विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च॥१४॥
तेषु विद्राव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः।
अभ्यभाषत धर्मात्मा भीमसेनमरिन्दमम्॥१५॥
मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा।
तं मोक्षय महाबाहो मा गमद् द्विषतां वशम्॥१६॥
भीमसेन महाबाहो गृहीतं तु सुशर्मणा।
त्रायस्व मोचय क्षिप्रमस्मत् प्रीतिकरं नृपम्॥१७॥
उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः।
भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः॥१८॥

वैशम्पायन उवाच

तं तथावादिनं तत्र भीमसेनो महाबलः।
अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम्॥१९॥
अहमेनं परित्रास्ये शासनात् तव पार्थिव।
पश्येदं सुमहत् कर्म युध्यतो मम शत्रुभिः॥२०॥
स्वबाहुबलमाश्रित्य परेषामसमं रणे।
एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह॥२१॥
अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः।
अहमेनं समारुज्य पोथयिष्यामि शात्रवान्॥२२॥

वैशम्पायन उवाच

तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्।
अब्रवीद् भ्रातरं वीरं धर्मराजो युधिष्ठिरः॥२३॥

युधिष्ठिर उवाच

भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः॥२४॥
मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम्।
जनाः समवबुध्येरन् भीमोऽयमिति भारत॥२५॥
मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद।
कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम्॥२६॥
इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव।
वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवम्॥२७॥
अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम्।
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम्॥२८॥
यदेव मानुषं भीम भवेदन्यैरलक्षितम्।
तदेवायुधमादाय मोचयाऽऽशु महीपतिम्॥२९॥
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ।
व्यायच्छतस्ते समरे मत्स्यराजं परीप्सतः॥३०॥

वैशम्पायन उवाच

भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च।
चापमादाय सम्प्राप्तो रथमास्थाय पाण्डवः॥३१॥
व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः।
तं भीमो भीमकर्माणं सुशर्माणमथाऽऽद्रवत्॥३२॥
विराटमभिवीक्ष्यैनं तिष्ठतिष्ठेति चावदत्॥३३॥
सुशर्मा चिन्तयामास कालान्तकयमोपमम्।
तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः॥३४॥
पश्यतां सुमहत् कर्म महद्युद्धमुपस्थितम्।
परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह॥३५॥
निमेषान्तरमात्रेण भीमसेनेन ते रथाः।
रथानां च गजानां च वाजिनां च ससादिनाम्॥३६॥
सहस्रशतसङ्घाताः शूराणामुग्रधन्विनाम्।
पातिता भीमसेनेन विराटस्य समीपतः॥३७॥
पत्तयो निहतास्तेषां गदां गृह्य महात्मना॥३८॥
तद् दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः।
चिन्तयामास मनसा किं शेषं हि बलस्य मे॥३९॥
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले।
आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत॥४०॥
सुशर्मा सायकांस्तीक्ष्णान् क्षिपते च पुनः पुनः॥४१॥
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्।
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान् प्रत्यमर्षणाः॥४२॥
तान् निवृत्तरथान् दृष्ट्वा पाण्डवास्तां महाचमूम्।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम्॥४३॥
त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः।
तान् भीमसेनः सङ्क्रुद्धः सर्वशस्त्रभृतां वरः।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम्॥४४॥
सहस्रं प्राहिणोद् राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः॥४५॥
शतानि त्रीणि शूराणां सहदेवः प्रतापवान्।
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः॥४६॥
प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः।
क्षोभयन् सर्वभूतानि सिंहः क्षुद्रमृगानिव॥४७॥
ततो युधिष्ठिरो राजा त्वरमाणो महाबलः।
अभिद्रुत्य सुशर्माणं शरैरभ्यहनद् भृशम्॥४८॥
सुशर्माऽपि सुसङ्क्रुद्धस्त्वरमाणो युधिष्ठिरम्।
अविध्यद् दशभिर्बाणैश्चतुर्भिश्चतुरो हयान्॥४९॥
ततो राजन् क्षिप्रकारी कुन्तीपुत्रो वृकोदरः।
समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत्॥५०॥
पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः।
अथास्य सारथिं क्रुद्धो रथोपस्थादपातयत्॥५१॥
चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः।
स भयाद् विरथं दृष्ट्वा त्रैगर्तं व्याजहात् तदा॥५२॥
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः।
गदामस्य परामृश्य तमेवाभ्यहनद् बली॥५३॥
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा॥५४॥
भीमस्तु भीमसङ्काशो रथात् प्रस्कन्द्य वीर्यवान्।
उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च।
सुशर्मणः शिरोऽगृह्णात् पुनराश्वास्य युध्यतः॥५५॥
अग्राद् गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा।
ऊर्ध्वमुत्प्लुत्य मार्जार आखोर्यद्वच्छिरो रुषा॥५६॥
समुद्यम्य तु रोषात् तं निष्पिपेष महीतले।
यदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः॥५७॥
तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना।
स मोहमगमद् राजा प्रहारवरपीडितः॥५८॥
तस्मिन् वीरे गृहीते तु त्रिगर्तानां महारथे।
अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम्॥५९॥
निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः।
अवजित्य सुशर्माणं धनं चाऽऽदाय सर्वशः॥६०॥
स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः।
विराटस्य महात्मानः परिक्लेशविनाशनाः।
स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत॥६१॥
नायं पापसमाचारो मत्तो जीवितुमर्हति।
किं नु शक्यं मया कर्तुं यद् राजा सततं घृणी।
गले गृहीत्वा राजानमानीय विवशं वशम्॥६२॥
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः।
रथमारोपयामास विसंज्ञं पांसुगुण्ठितम्॥६३॥
अभ्येत्य रणमध्यस्थमभ्यगच्छद् युधिष्ठिरम्।
दर्शयामास भीमस्तु सुशर्माणं नराधिपम्॥६४॥
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम्।
तं राजा प्राहसद् दृष्ट्वा मुच्यतां वै नराधमः॥६५॥
एवमुक्तोऽब्रवीद् भीमः सुशर्माणं महाबलम्।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु॥६६॥
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च।
एवं ते जीवितं दद्यामेष युद्धजितो विधिः॥६७॥
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः।
मुञ्च मुञ्चाधमाचारं प्रमाणं यदि ते वयम्॥६८॥
दासभावं गतो ह्येष विराटस्य महीपतेः।
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः कदाचन॥६९॥
एवमुक्ते तु सव्रीडः सुशर्माऽऽसीदधोमुखः।
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान्॥७०॥
विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः।
स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः।
सङ्ग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन्॥७१॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चत्रिंशोऽध्यायः॥३५॥