चतुस्त्रिंशोऽध्यायः॥३४॥
वैशम्पायन उवाच
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः।
त्रिगर्तानस्पृशन् मात्स्याः सूर्येऽस्तङ्गमिते सति॥१॥
ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः।
अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः॥२॥
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः।
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः॥३॥
तेषां समागमो घोरस्तुमुलो रोमहर्षणः।
घ्नतां परस्परं राजन् यमराष्ट्रविवर्धनः॥४॥
देवासुरसमो राजन् नाऽऽसीत् सूर्येऽवलम्बति।
पदातिरथनागेन्द्रहयारोहबलौघवान्॥५॥
अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम्।
उदतिष्ठद् रजो भौमं न प्राज्ञायत किञ्चन॥६॥
पक्षिणश्चापतन् भूमौ सैन्येन रजसा वृताः।
इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत॥७॥
खद्योतैरिव संयुक्तमन्तरिक्षमजायत॥८॥
रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा।
नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम्॥९॥
रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः।
सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः॥१०॥
असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि।
संरब्धाः समरे योधा निजघ्नुरितरेतरम्॥११॥
निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः।
न शेकुरतिसङ्क्रुद्धाः शूराः कर्तुं पराङ्भुखम्॥१२॥
रक्ताधरोष्ठं सुनसं कॢप्तश्मश्रु स्वलङ्कृतम्।
अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम्॥१३॥
दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः।
सालस्कन्धनिकाशानि क्षत्रियाणां महामृधे॥१४॥
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः।
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः॥१५॥
यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते।
बिभ्रती युवती श्यामा तद्वद् भाति वसुन्धरा॥१६॥
उपाशाम्यद् रजो भौमं रुधिरेण प्रवर्षता।
कश्मलं प्राविशद् घोरं निर्मर्यादमवर्तत॥१७॥
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा।
व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः॥१८॥
आत्मानं श्येनवत् कृत्वा तुण्डमासीद् युधिष्ठिरः।
पक्षौ यमौ च भवतः पुच्छमासीद् वृकोदरः॥१९॥
सहस्रं न्यहनत् तत्र कुन्तीपुत्रो युधिष्ठिरः।
भीमसेनस्तु सङ्क्रुद्धः सर्वशस्त्रभृतां वरः।
द्विसहस्रं रथान् वीरः परलोकं प्रवेशयत्॥२०॥
नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम्।
शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम्॥२१॥
प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ।
आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि॥२२॥
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम्।
जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः॥२३॥
शङ्खो विराटपुत्रश्च महेष्वासो महाबलः।
विनिघ्नन् समरे शूरान् प्रविवेश महाचमूम्॥२४॥
विराटस्तत्र सङ्ग्रामे हत्वा पञ्चशतं रथान्।
कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा॥२५॥
चरन् स विविधान् मार्गान् रथेन रथिनां वरः।
त्रिगर्तानां सुशर्माणमार्च्छद् रुक्मरथं रणे॥२६॥
तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ।
अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव॥२७॥
राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ।
कृतास्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः॥२८॥
ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः।
शरान् ससृजतुः शीघ्रं तोयधारा घनाविव॥२९॥
अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ।
कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे॥३०॥
मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः।
पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान्॥३१॥
द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः।
तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः।
पञ्चाशद्भिः शितैर्बाणैर्विव्याध परमास्त्रवित्॥३२॥
तयोर्बलानि राजेन्द्र समस्तानि महारणे।
नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते॥३३॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुस्त्रिंशोऽध्यायः॥३४॥