एकत्रिंशोऽध्यायः॥३१॥

वैशम्पायन उवाच

अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान्।
न तादृशा विनश्यन्ति नापि यान्ति पराभवम्॥१॥
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः।
धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः॥२॥
नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम्।
धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम्॥३॥
अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम्।
अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम्॥४॥
तेषां तथाविधेयानां निभृतानां महात्मनाम्।
किमर्थं नीतिमान् प्राज्ञः श्रेयो नैषां करिष्यति॥५॥
तस्माद् यत्नात् परीक्षध्वं न तावत् समयो गतः।
न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः॥६॥
चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम्।
क्रियतां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम्॥७॥
यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम्।
प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम्॥८॥
सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान्।
दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः॥९॥
शुद्धात्मा मानवान् पार्थः सत्यवान्नीतिमाञ्छुचिः।
तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा॥१०॥
तस्माद् यत्नश्च क्रियतां भूयश्च मृगयामहे।
ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि॥११॥
विविधैस्तत्परैः सम्यङ्निर्भीकैस्तज्ज्ञसम्मतैः।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः॥१२॥
ततः शान्तनवो धीमान् भारतानां पितामहः।
श्रुतवान् देशकालज्ञो नीतिमांश्च महामतिः॥१३॥
तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः।
अनन्तरमुवाचेदं वाक्यं हेत्वर्थसम्मितम्॥१४॥
युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम्।
पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे॥१५॥
असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा।
भीष्मस्त्वभ्यवदत् तत्र गिरं साधुभिरर्चिताम्॥१६॥
यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित्।
श्रुतवृत्तोपसम्पन्ना नाशं नाऽऽयान्ति पाण्डवाः॥१७॥
सर्वलक्षणसम्पन्नाः साधुवृत्तसमन्विताः।
वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः॥१८॥
समयं समयज्ञास्ते पालयन्तः शुभव्रताः।
न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम्॥१९॥
तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः।
न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः॥२०॥
क्षत्रधर्मरता नित्यं केशवानुगताः सदा।
प्रवीरपुरुषास्ते वै महात्मानो महाबलाः॥२१॥
तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु।
न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः॥२२॥
यत् तु शक्यमिहास्माभिस्तान् वै सञ्चिन्त्य पाण्डवान्।
बुद्ध्या प्रणेतुं तत् तेऽहं प्रवक्ष्यामि निबोध तत्॥२३॥
न त्वियं साधु वक्तव्या तस्य नीतिः कथञ्चन।
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः॥२४॥
अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः।
निवासं पाण्डुपुत्राणां सञ्चिन्त्य च वदाम्यहम्।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः॥२५॥
अवश्यं तु नियुक्तेन सभामध्ये विवक्षता।
यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया॥२६॥
यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः।
निवासं पाण्डुपुत्राणां शृणुष्वं मनुजाधिप॥२७॥
भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः।
किमर्थं स महाराजो नाऽऽत्मश्रेयो भविष्यति॥२८॥
पाण्डवो निकृतः पूर्वं यथावद् विदितं तव।
क्लेशितश्च पुरे नित्यं राज्यकामैश्च साम्प्रतम्।
छन्नश्चरति तस्मात् स प्रकृत्या नीतिमान् नृपः॥२९॥
वर्षमेकं सुसञ्छन्नमुष्य वासमनुत्तमम्।
आयाति चोदये काले क्षिप्रं द्रक्ष्यसि पाण्डवम्॥३०॥
सोदरैः सहितं वीरं द्रौपद्या च परन्तप।
संविधत्स्व महाबाहो यथा नः स्यात् सुखोदयः॥३१॥
यस्मिन् स राजा वसति च्छन्नः सत्त्वभृतां वरः।
भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः॥३२॥
नाऽऽधयो हि महाराज न व्याधिः क्षत्रियर्षभ।
पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः॥३३॥
दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः।
प्रियवाक् सत्यवाक् शूरो धर्मशीलो जितेन्द्रियः।
हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः॥३४॥
नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी।
भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः॥३५॥
ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च।
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः॥३६॥
सदा च तत्र पर्जन्यः सम्यग् वर्षी न संशयः।
सम्पन्नसस्या च मही भविष्यति निरामया॥३७॥
रसवन्ति च धान्यानि गुणवन्ति फलानि च।
गन्धवन्ति च माल्यानि शुभशब्दा च भारती॥३८॥
वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः।
नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च॥३९॥
न चोरा न च दण्डाश्च न च बाधा भवन्त्युत।
नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः॥४०॥
भयं च नाऽऽविशेत् तत्र निष्प्रतीपं च दर्शनम्।
बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः॥४१॥
पयांसि दधिसर्पीषि रसवन्ति हितानि च।
सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः॥४२॥
गुणवन्ति च पानानि भोज्यानि विविधानि च।
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः॥४३॥
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः।
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः॥४४॥
धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः।
स्वैः स्वैर्गुणैश्च संयुक्ता कस्मिन् वर्षे त्रयोदशे।
देशे तस्मिन् भविष्यन्ति तत पाण्डवसंश्रिते॥४५॥
सम्प्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः।
देवतातिथिभूयांस्तु सर्वभूतानुरागवान्॥४६॥
इष्टदानमहोत्साहा नित्यं धर्मपरायणाः।
व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः॥४७॥
शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियान्विताः।
भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः॥४८॥
नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः।
भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः॥४९॥
धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः।
किं पुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित्॥५०॥
यस्मिन् सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा।
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम्॥५१॥
तस्मान्निवासः पार्थानां चिन्त्यतां यद् ब्रवीमि वः।
गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा॥५२॥
एवमेतत् तु सञ्चिन्त्य यत्कृत्यं साधु मन्यसे।
तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे।
कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते॥५३॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकत्रिंशोऽध्यायः॥३१॥