एकोनत्रिंशोऽध्यायः॥२९॥

वैशम्पायन उवाच

कीचके तु हते राजा विराटः परवीरहा।
शोकमाहारयत् तीव्रं सामात्यः सपुरोहितः॥१॥
कीचकस्य वधं घोरं सानुजस्य विशाम्पते।
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः॥२॥
तस्मिन् पुरे जनपदे जजल्पुश्चापि सर्वशः।
वीर्यवान् दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः॥३॥
साम्पराये परिक्रुष्टो बलवान् दुर्जयो रणे।
आसीत् प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः।
स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि॥४॥
इत्यजल्पन् महाराज कीचकस्य विनाशनम्।
देशे देशे मनुष्याश्च विस्मितः कीचके हते॥५॥
अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः।
मृगयित्वा बहून् देशान् ग्रामांश्च नगराणि च॥६॥
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः।
कृतसङ्केतनाः सर्वे न्यवर्तन्त पुरं ततः॥७॥
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम्।
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम्॥८॥
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना।
सङ्गतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः॥९॥
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा।
आसीनं सूर्यसङ्काशे काञ्चने परमासने॥१०॥
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम्।
विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः॥११॥
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः।
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन्॥१२॥
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा।
पाण्डवानां मनुष्येन्द्र तस्मिन् महति कानने॥१३॥
निर्जने व्यालसङ्कीर्णे नानाभ्रमरसङ्कुले।
लताप्रतानगहने नानागुल्मसमावृते॥१४॥
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः।
मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च॥१५॥
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च।
जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च॥१६॥
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान्।
अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ॥१७॥
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु।
नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च॥१८॥
गह्वरेषु च दुर्गेषु ग्रामेषूपवनेषु च।
दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च।
गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे॥१९॥
वर्त्मन्यन्विच्छमानास्तु रथानां रथिसत्तम।
कञ्चित् कालं मनुष्येन्द्र सूताननुगता वयम्॥२०॥
मृगयित्वा यथान्यायं विदितार्थाश्च तत्त्वतः।
प्राप्ता द्वारवतीं सूता विना पार्थैः परन्तप॥२१॥
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः।
नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान्॥२२॥
निर्वृतो भव नष्टास्ते स्वस्थो भव परन्तप।
सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ॥२३॥
सर्वा च पृथिवी कृत्स्ना सशैलवनकानना।
सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता।
अन्वेषिता च सर्वत्र न च पश्याम पाण्डवान्॥२४॥
पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशाम्पते।
अन्वेषणे पाण्डवानां भूयः किं करवामहे॥२५॥
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु॥२६॥
येन त्रिगर्ता निहता बलेन बहुशो नृप।
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा।
स हतः पतितः शेते गन्धर्वैर्निशि भारत॥२७॥
स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः।
सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः॥२८॥
उत्साहवान् महावीर्यो नीतिमान् बलवानपि।
युद्धज्ञो रिपुवीर्यघ्नः सिंहतुल्यपराक्रमः॥२९॥
प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान्।
विजितारिर्महायुद्धे प्रचण्डो मानतत्परः॥३०॥
नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः।
पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः॥३१॥
स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप।
अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः।
सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः॥३२॥
गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी।
सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद् बली॥३३॥
इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि॥३४॥
बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः।
अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति।
चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः॥३५॥
निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह।
एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप॥३६॥
प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम्।
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम्॥३७॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनत्रिंशोऽध्यायः॥२९॥