अष्टाविंशोऽध्यायः॥२८॥

वैशम्पायन उवाच

ते दृष्ट्वा निहतान् सूतान् भीमसेनेन भारत।
पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन्।
गन्धर्वेण हता राजन् सूतपुत्राः परश्शतम्॥१॥
यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः।
विनिकीर्णाः प्रदृश्यन्ते तथा सूता महीतले॥२॥
सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम्।
सर्वं संशयितं राजन् नगरं ते भविष्यति॥३॥
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः।
पुंसामिष्टश्च विषयो मैथुनाय न संशयः॥४॥
यथा सैरन्ध्रिदोषेण नेदं राजन् पुरं तव।
विनाशमेति वै क्षिप्रं तथा साधु विधीयताम्॥५॥
सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम्।
पश्यतामनिमेषेण चक्षुषा वनितां शुभाम्।
मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते॥६॥
तस्मात् तां यः पुमान् दृष्ट्वा रूपेणाप्रतिमां भुवि।
गच्छेत् कामवशं मूढो गन्धर्वैः स निहन्यते॥७॥
निष्कासयैनां भवनात् पुराच्चैव विशेषतः।
कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम्॥८॥

वैशम्पायन उवाच

तेषां तद् वचनं श्रुत्वा विराटो वाहिनीपतिः।
अब्रवीत् क्रियतामेषां सूतानामपरक्रिया॥९॥
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने।
दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः॥१०॥
इत्युक्त्वा परमोद्विग्नः प्रविश्यान्तःपुरं शुभम्।
सुदेष्णां चाब्रवीद् राजा महिषीं जातसाध्वसः॥११॥
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह।
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना।
बिभेति राजा सैरन्ध्रि गन्धर्वेभ्यः पराभवात्॥१२॥
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम्।
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम्॥१३॥

वैशम्पायन उवाच

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने।
अदहन् कीचकान् सर्वान् संस्कारैश्चैव सर्वशः॥१४॥
अथ मुक्ता भयात् कृष्णा सूतपुत्रान्निरस्य च।
मोक्षिता भीमसेनेन जगाम नगरं प्रति॥१५॥
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी।
सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह॥१६॥
तां दृष्ट्वा पुरुषा राजन् प्राद्रवन्त दिशो दश।
गन्धर्वाणां भयत्रस्ताः केचिद् दृष्टिं न्यमीलयन्॥१७॥
प्रदुद्रुवुश्चाप्यपरे तथा जना
हस्तैश्च चक्षूंषि पिधाय मोहिताः।
मा पश्यत स्मेति च तां ब्रुवन्तस्-
तथा जनाश्चुक्रुशुरार्तरूपाः॥१८॥
तामद्य यः पश्यति रूपशालिनीं
शयीत भग्नोऽत्र यथैव कीचकाः।
इति ब्रुवन्तो भयविग्नचेतसो
भयेन गन्धर्वगतेन मोहिताः॥१९॥
ततो महानसद्वारे भीमसेनमवस्थितम्।
ददर्श राजन् पाञ्चाली यथा मत्तं महाद्विपम्॥२०॥
सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत्।
नमो गन्धर्वराजाय येनास्मि परिमोक्षिता॥२१॥
कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे।
यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोऽस्तु ते॥२२॥

भीम उवाच

ये यस्या विचरन्तीह पुरुषा वशवर्तिनः।
तेषां च वशगा नित्यं विचर त्वं यथेष्टतः॥२३॥
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः।
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः॥२४॥

वैशम्पायन उवाच

तयोस्तद् वचनं श्रुत्वा जज्ञिरे नेतरे जनाः।
ततः पाञ्चालराजस्य सुता चापि जगाम ह॥२५॥
ततः सा नर्तनागारे धनञ्जयमपश्यत।
राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम्॥२६॥
ततस्ता नर्तनागाराद् विनिष्क्रम्य सहार्जुनाः।
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम्॥२७॥

कन्या ऊचुः

दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता।
दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम्॥२८॥

बृहन्नलोवाच

कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः।
इच्छामि ते कथां श्रोतुं कथयस्व यथातथम्॥२९॥

सैरन्ध्युवाच

बृहन्नले किं नु तव सैरन्ध्र्या कार्यमद्य वै।
या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखम्॥३०॥
न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्रुते।
सुखेन वर्तसे येह न तद् दुःखमवाप्यते।
तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि॥३१॥

बृहन्नलोवाच

बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम्।
तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे॥३२॥
त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता।
त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने।
क्लिश्यन्त्यां त्वयि सुश्रोणि को नु दुःखं न चिन्तयेत्॥३३॥
न तु केनचिदत्यन्तं कस्यचिद्धृदयं क्वचित्।
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे॥३४॥

वैशम्पायन उवाच

ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्।
प्रविवेश सुदेष्णायाः समीपमनसूयिनी॥३५॥
तामब्रवीद् राजपत्नी विराटवचनादिदम्।
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम्।
राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात्॥३६॥
त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि।
चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे॥३७॥
तस्मात् त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च।
गच्छाद्यैव यथेष्टं त्वं नगराद् यत्र रंस्यसे॥३८॥
त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः।
नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः॥३९॥
तस्माद् गन्धर्वराजेभ्यो भयमद्य प्रवर्तते।
यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत्॥४०॥

वैशम्पायन उवाच

सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत्।
त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि॥४१॥
कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः।
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम्॥४२॥
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः।
राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे।
साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः॥४३॥
अर्थिनी मा ब्रवीत्येषा यद् वा तद्वेति चिन्तय।
भरस्व तदहर्मात्रं तत् ते श्रेयो भविष्यति॥४४॥

वैशम्पायन उवाच

तस्यास्तद् वचनं श्रुत्वा कैकेयी दुःखमोहिता।
उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता॥४५॥
वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता।
त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः॥४६॥
इत्युक्त्वा राजशार्दूल राज्ञे सर्वं न्यवेदयत्।
त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये॥४७॥

॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टाविंशोऽध्यायः॥२८॥

कीचकवधपर्व समाप्तम्॥३॥