सप्तविंशोऽध्यायः॥२७॥

वैशम्पायन उवाच

तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः।
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे॥१॥
सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम्।
तथा सम्भुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम्॥२॥
पोथितं भीमसेनेन महेन्द्रेणेव दानवम्।
कीचकं बलसम्मत्तं दुर्धर्षं येनकेनचित्॥३॥
गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम्।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः॥४॥
अपश्यन्नथ ते कृष्णां सूतपुत्राः समागताः।
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम्॥५॥
समागतेषु सूतेषु तानुवाचोपकीचकः।
हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा॥६॥
हन्यतां शीघ्रमसती यत्कृते कीचको हतः।
अथवा नैव हन्तव्या दह्यतां कामिना सह॥७॥
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा।
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी॥८॥
यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति।
सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम्।
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत्॥९॥

वैशम्पायन उवाच

ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन्।
कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः॥१०॥
सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया।
मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि॥११॥
पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः॥१२॥
ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः।
रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः॥१३॥
आरोप्य कृष्णां सह कीचकेन
निबध्य केशेषु च पादयोश्च।
ते चापि सूता वचनैरवोचन्-
नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम्॥१४॥
यस्याः कृतेऽयं निहतो महात्मा
तस्माद्धि सा कीचकमार्गमेतु।
अवार्यसत्त्वेन च कीचकेन
गतासुना सुन्दरी स्वर्गलोकम्॥१५॥
सा तेन कृष्णा शयने निबद्धा
यशस्विनी चैव मनस्विनी च।
अनार्यसत्त्वेन महार्यसत्त्वा
गतासुना सा प्ररुरोद कृष्णा।
विलम्बमाना विवशा हि दुष्टैस्-
तत्रैव पर्यङ्कवरे शुभाङ्गी॥१६॥
ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती॥१७॥
मृतेन सह बद्धाङ्गी निराशा जीविते तदा।
श्मशानाभिमुखं नीता करेणुरिव रौति सा॥१८॥

द्रौपद्युवाच

जयो जयेशो विजयो जयत्सेनो जयद्बलः।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्॥१९॥
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान्।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्॥२०॥
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः।
अश्रूयत महान् युद्धे भीमघोषस्तरस्विनाम्॥२१॥
रथघोषश्च बलवान् गन्धर्वाणां तरस्विनाम्।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्॥२२॥
येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः।
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखिताम्॥२३॥
इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः।
श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन्॥२४॥

भीम उवाच

अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः।
तस्मात् ते सूतपुत्रेभ्यो न भयं जातु विद्यते॥२५॥

वैशम्पायन उवाच

इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया॥२६॥
ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा॥२७॥
स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम्।
श्मशानाभिमुखः प्रायाद् यत्र ते कीचका गताः॥२८॥
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात्।
जवेनोत्पतितो भीमः सूतानामग्रतस्तदा॥२९॥
चितासमीपं गत्वा स तत्रापश्यन्महाबलः।
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम्॥३०॥
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च।
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः॥३१॥
ततो वृक्षं दशव्यामं निष्पत्रमकरोत् तदा॥३२॥
तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः।
प्रगृह्याभ्यपतत् सूतान् दण्डपाणिरिवान्तकः॥३३॥
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः।
भूमौ निपतिता वृक्षाः सम्भग्नास्तत्र शेरते॥३४॥
तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम्।
वित्रेसुश्च तदा सूता विषादभयपीडिताः॥३५॥
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः।
दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः।
परस्परमथोचुस्ते विषादभयमोहिताः॥३६॥
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्।
प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः।
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम्॥३७॥

वैशम्पायन उवाच

ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम्।
विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति॥३८॥
द्रवतस्तांश्च सम्प्रेक्ष्य स वज्री दानवानिव।
अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत्॥३९॥
ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः॥४०॥
दृष्ट्वा ताञ्छतसङ्ख्याकान् स वज्री दानवानिव।
एकेनैव प्रहारेण दश सप्त च विंशतिम्।
अष्टादश च पञ्चाशज्जघान स वृकोदरः॥४१॥
शतं पञ्चाधिकं भीमः प्राहिणोद् यमसादनम्।
वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली।
वायुवेगसमः श्रीमान् सर्वान् सूतानशेषतः॥४२॥
तान्निहत्य महाबाहुर्भीमसेनो महाबलः।
आश्वासयत् तदा कृष्णां प्रतिमुच्य च बन्धनात्॥४३॥
उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः।
अश्रुपूर्णमुखीं भीतामुद्धरन् स वृकोदरः॥४४॥
मा खिदस्त्वं याज्ञसेनि पातिव्रत्यव्रते स्थिता।
पातिव्रत्ये स्थिता नारी व्रतं रक्षेत् सदाऽऽत्मनः॥४५॥
पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः।
कदाचिद् भर्तृरूपेण रक्षसाऽपहृता सती॥४६॥
कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः।
तद्भर्तृरूपं सन्त्यज्य रक्षो भूत्वा सुदारुणम्॥४७॥
साम्ना दानेन भेदेन सा यदा नान्वमन्यत।
तदा तां पातयित्वा स मैथुनायोपचक्रमे॥४८॥
ततः सा धैर्यमास्थाय विवरं त ददौ तदा।
ततः स खड्गमुत्कृष्य भीषयामास तां सतीम्॥४९॥
साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता।
प्रतिज्ञामकरोत् कृष्णे पातिव्रत्यपरायणा॥५०॥
आराधितो यदि मया भर्ता मे दैवतं महत्।
कर्मणा मनसा वाचा गुरवस्तोषिता मया।
तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा॥५१॥
एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत्।
अन्तरा नाभिजान्वोर्यत् तत् सर्वं च शिलाऽभवत्॥५२॥
ततः स खड्गमुद्धृत्य वेगेनास्याः शिरोऽहरत्॥५३॥
जया नाम सखी साऽभूत् पार्वत्या नखमांसवत्।
तस्मात् पतिव्रतायाश्च दुःखमल्पं सुखं बहु॥५४॥
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः।
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव॥५५॥
अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम्।
अन्येनाहं गमिष्यामि विराटस्य महानसम्।
यथा नौ नावबुध्येरन् रात्रावेवं व्यवस्थितौ॥५६॥

वैशम्पायन उवाच

साऽगच्छन्नगरं कृष्णा भीमेनाऽऽश्वासिता सती॥५७॥
कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा।
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम्॥५८॥
भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः।
सर्वांस्तान् कीचकांस्तत्र हत्वा धर्मात्मजानुजः॥५९॥
निःशेषं कीचकान् हत्वा रामो रात्रिचरानिव।
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः॥६०॥
पञ्चाधिकं शतं तत्र निहतं तेन भारत।
महावनमिव च्छिन्नं शिश्ये विगलितद्रुमम्॥६१॥
एवं ते निहता राजञ्छतं पञ्चोपकीचकाः।
स च सेनापतिः सूत इत्येतत् सूतषट्शतम्॥६२॥
न गन्धर्वभयात् किञ्चिद् वक्तुं कीचकबान्धवाः।
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम्॥६३॥
विराटनगरे चापि सर्वे मात्स्याः समागताः।
काल्यं पञ्चशतं चैतानपश्यन् सारथीन् हतान्॥६४॥
तद् दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः।
विस्मयं परमं गत्वा नोचुः किञ्चन भारत॥६५॥

॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तविंशोऽध्यायः॥२७॥