षड्विंशोऽध्यायः॥२६॥
भीम उवाच
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम्॥१॥
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः॥२॥
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति।
कोपादृते किमन्यत् तु नानुवर्तेत को नृपम्॥३॥
वैशम्पायन उवाच
एवमुक्त्वा महाबाहुस्तत्र पाण्डवनन्दनः।
अर्धरात्रे तदोत्थाय सत्त्ववान् भीमविक्रमः॥४॥
अवदातेन मृदुना पटेनाच्छादितस्तथा।
द्रौपदीं पृष्ठतः कृत्वा यत्राऽऽसीन्नर्तनालयः॥५॥
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत्।
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत् स कीचकम्॥६॥
कीचकस्तु शिरःस्नातो निशायां समलङ्कृतः।
सङ्केतमगमत् तूर्णं शून्यागारमपावृतम्॥७॥
तदेव नर्तनागारं पाञ्चाली यदभाषत।
तां मन्यमानः सङ्केते सैरन्ध्रीं काममोहितः॥८॥
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम्।
पूर्वागतं भीमसेनं दृप्तमप्रतिमौजसम्॥९॥
शयानं शयने तत्र मृत्युं मूढः परामृशत्।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च॥१०॥
एकान्ते भीममासाद्य कीचकः कालचोदितः।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत॥११॥
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते।
त्वयि तिष्ठतु तत् सर्वं यथाऽसि स्वयमागता॥१२॥
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः।
बलवान् दर्शनीयश्च नान्यस्ते सदृशः पुमान्॥१३॥
अहं रूपेण सम्पन्नः स्नातो गुरुविभूषितः।
नित्यमेव प्रियः स्त्रीणां सौभाग्यात् प्रियदर्शनः।
रूपस्य तन्मया प्राप्तं फलं कमललोचने॥१४॥
भीम उवाच
दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्याऽऽत्मानं प्रशंससि॥१५॥
त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता।
अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज।
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता॥१६॥
उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित्॥१७॥
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः।
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह॥१८॥
वैशम्पायन उवाच
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः।
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह॥१९॥
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि।
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम्॥२०॥
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति।
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा॥२१॥
ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु॥२२॥
गृहीत्वा कीचकं भीमो विरराज महाबलः।
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा॥२३॥
स केशेषु परामृष्टो बलेन बलिनां वरः।
आक्षिप्य केशान् वेगेन बाह्वोर्जग्राह पाण्डवम्॥२४॥
बाहुयुद्धं तयोरासीत् क्रुद्धयोर्नरसिंहयोः।
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव॥२५॥
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः॥२६॥
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ।
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ॥२७॥
गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ।
वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ॥२८॥
ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम्।
कीचको बलवान् भीमं जानुभ्यां पातयद् भुवि॥२९॥
पातितो भीमसेनस्तु कीचकेन बलीयसा।
उत्पपाताथ वेगेन दण्डाहत इवोरगः॥३०॥
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ।
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये॥३१॥
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम्।
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः॥३२॥
तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली।
कीचको रोषरक्ताक्षो न चचाल पदात् पदम्॥३३॥
मुहूर्तमशकत् सोढुं वेगं तस्य महात्मनः।
कीचको भीमसेनेन पश्चात् पश्चादहीयत॥३४॥
तं हीयमानं विज्ञाय भीमसेनो महाबलः।
वक्षस्यानीय वेगेन प्रममाथ विचेतसम्॥३५॥
क्रोधाविष्टो विनिश्वस्य पुनश्चैनं वृकोदरः।
जग्राह जयतां श्रेष्ठः केशेष्वेव भृशं तदा॥३६॥
गृहीत्वा कीचकं भीमो विरराज महाबलः।
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम्॥३७॥
पुनश्चातिबलस्तत्र कीचको बलदर्पितः।
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना॥३८॥
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम्।
कीचको वृत्तरक्ताक्षो गतासुरपतद् भुवि॥३९॥
आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम्।
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः॥४०॥
स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत्॥४१॥
तत्राग्निं स्वयमुज्ज्वाल्य पाणिसङ्घर्षजं बली।
कृष्णायै दर्शयामास भीमसेनो महाबलः॥४२॥
उवाच च महातेजा द्रौपदीं योषितां वराम्।
त्वयि कामुकमत्यन्तं पापिनं पारदारिकम्।
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः॥४३॥
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम्।
एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा।
यस्त्वामभ्यहनद् भद्रे पदा भूमौ निपात्य च॥४४॥
एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा।
विज्ञापनार्थमन्येषां विरराम महाहवम्॥४५॥
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम्।
आमन्त्र्य द्रौपदीं पश्चात् क्षिप्रमायान्महानसम्॥४६॥
स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम्।
सुखोपविष्टः शयने भीमो भीमपराक्रमः॥४७॥
ततः कृष्णा यदा मेने गतं भीमं महानसम्।
कीचकं घातयित्वा च द्रौपदी योषितां वरा।
प्रहृष्टा गतसन्त्रासा सभापालानुवाच ह॥४८॥
कीचको निहतः शेते गन्धर्वैः पतिभिर्मम।
परस्त्रीकामसन्तप्तं समागच्छन्त पश्यत॥४९॥
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः।
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः॥५०॥
तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः।
ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम्।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम्॥५१॥
पार्ष्णिपाणिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन्॥५२॥
क्वास्य ग्रीवा क्व चरमौ क्व पाणी क्व शिरः क्व दृक्।
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा॥५३॥
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम्।
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः॥५४॥
॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षड्विंशोऽध्यायः॥२६॥