चतुर्विंशोऽध्यायः॥२४॥

वैशम्पायन उवाच

आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह।
शृणु भद्रे वरारोहे क्रोधात् तत्र तु चिन्तितम्॥१॥
त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत्।
कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया॥२॥
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्।
तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोऽस्मि महानसम्॥३॥
शृणुष्वान्यत् प्रतिज्ञातं यद्वदामीह भामिनि।
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च।
यत् ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ॥४॥
तदद्य मां तु तपति यत् कृतं न मया पुरा।
सभायां स्म विराटस्य करोमि कदनं महत्॥५॥
तत्र मे कारणं भाति कौन्तेयो यत् प्रतीक्षते।
तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने॥६॥
यच्च राज्यात् प्रच्यवनं कुरूणामवधश्च यः।
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च॥७॥
दुःशासनस्य पापस्य यन्मया न हृतं शिरः।
तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम्॥८॥
अपि चान्यद् वरारोहे स्मरिष्यसि वचो मम।
पुण्ये तीरे सरस्वत्या यत् प्रतिष्ठाम सङ्गताः।
तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन्॥९॥
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम्।
धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ।
कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम्॥१०॥
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा।
हीमान् वाक्यमहीनार्थं ब्रुवन् राजा युधिष्ठिरः।
सर्वानन्वनयद् भ्रातॄन् मुनेर्धौम्यस्य पश्यतः॥११॥
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता।
रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि॥१२॥
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि।
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते॥१३॥
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः।
शृणुयाद् यदि कल्याणि कृत्स्नं जह्यात् स जीवितम्॥१४॥
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे।
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम्॥१५॥
धर्मं शृणुष्व पाञ्चालि यत् ते वक्ष्यामि मानिनि॥१६॥
दुहिता जनकस्यासीद् वैदेही यदि ते श्रुता।
पतिमन्वचरत् सीता महारण्यनिवासिनम्॥१७॥
वसन्ती च महारण्ये रामस्य महिषी प्रिया।
रावणेन हृता सीता राक्षसीभिश्च तर्जिता।
सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत॥१८॥
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम्।
भगवन्तमगस्त्यं सा वनायैवान्वपद्यत॥१९॥
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने।
वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी॥२०॥
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि।
पतिमन्वचरद् वृद्धं पुरा वर्षसहस्रिणम्॥२१॥
नलं राजानमेवाथ दमयन्ती वनान्तरे।
अन्वगच्छत् पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः॥२२॥
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः।
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः॥२३॥
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते।
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि॥२४॥
सत्येन ते शपे चाहं भविता नान्यथेति च॥२५॥
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि।
सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि॥२६॥
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान्।
यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः॥२७॥
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः॥२८॥

द्रौपद्युवाच

आर्तप्रलापा कौन्तेय न राजानमुपालभे।
अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम्॥२९॥
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्॥३०॥
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः।
स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः॥३१॥
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः।
नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने।
अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन्॥३२॥
किमुक्तेन व्यतीतेन भीमसेन महाबल।
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव॥३३॥
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता।
नित्यमुद्विजते राजा कथं नेयादिमामिति॥३४॥
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः।
कीचकोऽपि च दुष्टात्मा पुनः प्रार्थयते च माम्॥३५॥
तमहं कुपिता भीम पुनः कोपं नियम्य च।
अब्रवं कामसम्मूढमात्मानं रक्ष कीचक॥३६॥
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया।
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः॥३७॥
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह।
नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते॥३८॥
शतं सहस्रमपि वा गन्धर्वाणामहं रणे।
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम्॥३९॥
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः।
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम्॥४०॥
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता।
नेच्छामि किञ्चिद् वध्यं त्वां तस्माज्जीवसि कीचक॥४१॥
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत् ततः।
न तिष्ठति स सन्मार्गे न च धर्मं बुभूषति॥४२॥
पापात्मा पापकारी च कामराजवशानुगः।
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः॥४३॥
दर्शने दर्शने हन्याद् यदि जह्यां च जीवितम्।
धर्मे प्रयतमानानां महान् धर्मो नशिष्यति॥४४॥
समयं रक्षमाणानां दारा वो न भवन्ति च।
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः॥४५॥
वन्दतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम्।
क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात्॥४६॥
पश्यतो धर्मराजस्य कीचको माऽन्वधावत।
तवेव च समक्षं वै भीमसेन महाबल॥४७॥
त्वया चाहं परित्राता भीम तस्माञ्जटासुरात्॥४८॥
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह।
जहीममपि पापिष्ठं योऽयं मामवमन्यते।
कीचको राजवाल्लभ्याच्छोककृन्मम भारत॥४९॥
कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि।
यो निमित्तमनर्थानां बहूनां मम भारत॥५०॥
तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति।
विषमालोड्य पास्यामि मा कीचकवशङ्गमम्॥५१॥
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः।
इत्युक्त्वा प्रारुदत् कृष्णा भीमस्योरसि संश्रिता॥५२॥
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च।
कीचकं मनसाऽगच्छत् सृक्किणी परिलेलिहन्॥५३॥
आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम्।
हेतुतत्त्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम्॥५४॥
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम्।
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः॥५५॥

॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि चतुर्विंशोऽध्यायः॥२४॥