त्रयोविंशोऽध्यायः॥२३॥

द्रौपद्युवाच

अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि।
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात्॥१॥
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप।
आसे कालमुपासीना सर्वदुःखसहा पुनः॥२॥
अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च।
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः॥३॥
चक्रवत् परिवर्तन्ते ह्यर्थाश्च व्यसनानि च।
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः॥४॥
य एव हेतुर्भवति पुरुषस्य जयावहः।
पराजये च हेतुः स इति च प्रतिपालये॥५॥
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते।
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम्॥६॥
न दैवस्यातिभारोऽस्ति न चैवास्यातिवर्तनम्।
इति चाप्यागमं भूयो दैवस्य प्रतिपालये॥७॥
स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति।
इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः॥८॥
दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते।
सदा दैवागमे यत्नस्तेन कार्यो विजानता॥९॥
किं नु मे वचनस्याद्य कथितस्य प्रयोजनम्।
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते॥१०॥
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च।
इमामवस्थां सम्प्राप्ता मदन्या का जिजीविषेत्॥११॥
कुरून् परिहरन् सर्वान् पाञ्चालानपि भारत।
पाण्डवेयांश्च सम्प्राप्तो मम शोको ह्यरिन्दम॥१२॥
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता।
एवं समुदिता नारी काऽन्वेयं दुःखभागिनी॥१३॥
नूनं बालतया धातुर्मया वै विप्रियं कृतम्।
तस्य प्रभावाद् दुर्नीतं प्राप्ताऽस्मि भरतर्षभ॥१४॥
वर्णं विकारमपि मे पश्य पाण्डव यादृशम्।
ईदृशो मे न तत्राऽऽसीद् दुःखे परमके पुरा॥१५॥
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा।
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे॥१६॥
तद् दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः।
भीमधन्वा महारङ्गे चाऽऽस्ते शान्त इवानलः॥१७॥
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः।
विनिपातमिमं पश्य युष्माकमविचिन्तितम्॥१८॥
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा।
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती॥१९॥
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा।
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद॥२०॥
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी।
आसीत् साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी॥२१॥
यस्याः पुरश्चरा ह्यासन् पृष्ठतश्चानुगामिनः।
साऽहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी॥२२॥
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्।
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनम्॥२३॥
पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा।
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ॥२४॥
बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन।
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी॥२५॥
किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा।
नान्यपिष्टं विराटस्य चन्दनं किल रोचते॥२६॥

वैशम्पायन उवाच

सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी।
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता॥२७॥
सा बाष्पकलया वाचा निश्वसन्ती पुनः पुनः।
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत्॥२८॥
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा।
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव॥२९॥
कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम्।
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम्।
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा॥३०॥
पापे निपतितायाश्च किं फलं जीवितेन मे।
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ॥३१॥
ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः।
मुखमानीय वेपन्त्या रुरोद परवीरहा॥३२॥
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्।
ततः परमदुःखार्त इदं वचनमब्रवीत्॥३३॥

॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः॥२३॥