एकविंशोऽध्यायः॥२१॥
जनमेजय उवाच
अहो दुःखतरं प्राप्ता कीचकेन पदा हता।
पतिव्रता महाभागा द्रौपदी योषितां वरा॥१॥
दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम्।
नाशपत् सिन्धुराजं सा बलात्कारेण वाहिता॥२॥
किमर्थमिह सम्प्राप्ता कीचकेन दुरात्मना।
नाशपत् तं महाभागा कृष्णा पादेन ताडिता॥३॥
तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी।
केशपाशे परामृष्टा मर्षयन्ती ह्यशक्तवत्॥४॥
नैतत् कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम।
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम्॥५॥
कस्य वंशे समुद्भूतः स च दुर्ललितो मुने।
बलोन्मत्तः कथं चाऽऽसीत् स्यालो मात्स्यस्य कीचकः॥६॥
दृष्ट्वाऽपि तां प्रियां भार्यां सूतपुत्रेण ताडिताम्।
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति॥७॥
वैशम्पायन उवाच
त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः।
एतत् सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव॥८॥
ब्राह्मण्यां क्षत्रियाज्जातः सूतो भवति पार्थिव।
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु॥९॥
रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम्।
क्षत्रियादवरो वैश्याद् विशिष्ट इति चक्षते॥१०॥
सह सूतेन सम्बन्धः कृतः पूर्वं नराधिपैः।
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते॥११॥
तेषां तु सूतविषयः सूतानां नामतः कृतः।
उपजीव्यं च यत्क्षेत्रं राजन् सूतेन वै पुरा॥१२॥
सूतानामधिपो राजा केकयो नाम विश्रुतः।
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत्॥१३॥
पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जज्ञिरे तदा।
कीचका इति विख्याताः शतं षट् चैव भारत॥१४॥
तेषामासीद् बलश्रेष्ठः कीचकः सर्वजित् प्रभो।
अग्रजो बलसम्मत्तस्तेनाऽऽसीत् सूतषट्शतम्॥१५॥
मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत्।
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत्॥१६॥
तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा।
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि॥१७॥
श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि।
सुदेष्णां महिषीं लब्ध्वा राजा दुःखमपानुदत्॥१८॥
उत्तरं चोत्तरां चैव विराटात् पृथिवीपते।
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये॥१९॥
मातृष्वसृसुतां राजन् कीचकस्तामनिन्दिताम्।
सदा परिचरन् प्रीत्या विराटे न्यवसत् सुखी॥२०॥
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः।
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन्॥२१॥
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः।
जज्ञिरे कीचका राजन् बाणो ज्येष्ठस्तथाऽभवत्॥२२॥
स हि सर्वास्त्रसम्पन्नो बलवान् भीमविक्रमः।
कीचको नष्टमर्यादो बभूव भयदो नृणाम्॥२३॥
तं प्राप्य बलसम्मत्तं विराटः पृथिवीपतिः।
जिगाय सर्वांश्च रिपून् यथेन्द्रो दानवान् पुरा॥२४॥
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान्।
मालवांश्चैव यवनान् सिलिन्दान् काशिकोसलान्॥२५॥
करदांश्च निषिद्धांश्च शिवान् मचुलकांस्तथा।
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान् परतङ्कणान्॥२६॥
अन्ये च बहवः शूरा नानाजनपदेश्वराः।
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश॥२७॥
तमेवंवीर्यसम्पन्नं नागायुतसमं बले।
विराटस्तत्र सेनायाश्चकार पतिमात्मनः॥२८॥
विराटभ्रातरश्चैव दश दाशरथेः समाः।
ते चैनानन्ववर्तन्त कीचकान् बलवत्तरान्॥२९॥
एवंविधबलो भीमः कीचकस्ते च तद्विधाः।
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः॥३०॥
एतत् ते कथितं सर्वं कीचकस्य पराक्रमम्।
द्रौपदी न शशापैनं यस्मात् तद्गदतः शृणु॥३१॥
रक्षन्ति हि तपः क्रोधाद् ऋषयो न शपन्ति च।
जानन्ती तद् यथातत्त्वं द्रौपदी न शशाप तम्॥३२॥
क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः।
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः॥३३॥
क्षमावतामयं लोकः परश्चैव क्षमावताम्।
एतत् सर्वं विजानन्ती सा क्षमामन्वपद्यत॥३४॥
भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम्।
नाशपत् तं विशालाक्षी सती शक्ताऽपि भारत॥३५॥
पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम्।
क्रोधाग्निनाऽप्यदह्यन्त तदा लज्जाव्यपेक्षया॥३६॥
अथ भीमो महाबाहुः सूदयिष्यंस्तु कीचकम्।
वारितो धर्मपुत्रेण वेलयेव महोदधिः॥३७॥
सन्धार्य मनसा रोषं दिवारात्रं विनिश्वसन्।
महानसे तदा कृच्छ्रात् सुष्वाप रजनीं च ताम्॥३८॥
॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकविंशोऽध्यायः॥२१॥