एकोनविंशोऽध्यायः॥१९॥

वैशम्पायन उवाच

अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम्।
मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम्॥१॥
रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च।
सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत्॥२॥
इत्येवं मृगशावाक्षी सुश्रोणी धर्मचारिणी।
उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा॥३॥
तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्।
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत्॥४॥
तच्चैनां नाजहात् तत्र सर्वावस्थास्वनिन्दिताम्॥५॥
प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनः पुनः।
विलम्बमाना विवशा कीचकस्य निवेशनम्॥६॥
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम्।
उत्पपाताऽऽसनात् तूर्णं नावं लब्ध्वेव पारगः॥७॥
श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः।
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम॥८॥
स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे।
कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम्॥९॥
प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान्।
सर्वरत्नमयीं मालां कुण्डले च हिरण्मये॥१०॥
वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम्।
प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि।
प्रीत्या मे कुरु पद्माक्षि प्रसादं प्रियदर्शने॥११॥
स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम्।
अत्राऽऽरुह्य मया सार्धं पिबेमां वरवारुणीम्॥१२॥
भजस्व मां विशालाक्षि भर्ता ते सदृशोऽस्म्यहम्।
उपसर्प वरारोहे मेरुमर्कप्रभा यथा॥१३॥

वैशम्पायन उवाच

स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम्।
अब्रवीद् द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसम्मतः॥१४॥
कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी।
अब्रवीत् तमनाचारं नेदृशं वक्तुमर्हसि॥१५॥
नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी।
गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम्॥१६॥
यत्र गच्छन्ति बहवः परदाराभिमर्शकाः।
नराः सम्भिन्नमर्यादाः कीटवच्चाशुभाश्रयाः॥१७॥
अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम्।
तस्यै नयिष्ये मदिरां भगिनी तृषिता तव॥१८॥
पिपासिता च कैकेयी तूर्णं मामादिशत् ततः।
दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम्॥१९॥

कीचक उवाच

अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम्।
किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता॥२०॥

वैशम्पायन उवाच

इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत्।
सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम्।
सभां शरणमाधावद् यत्र राजा युधिष्ठिरः॥२१॥
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत्।
पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत्॥२२॥
सभायां पश्यतो राज्ञो विराटस्य महात्मनः।
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यताम्॥२३॥
तस्याः पादाभितप्ताया मुखाद् रुधिरमास्रवत्॥२४॥
ततो दिवाकरेणाऽऽशु राक्षसः सन्नियोजितः।
स कीचकमपोवाह वातवेगेन भारत॥२५॥
स पपात तदा भूमौ रक्षोबलसमीरितः।
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः॥२६॥
तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः।
न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन्।
किमियं वध्यते बाला कृपणा चाप्यबान्धवा॥२७॥
तस्यामासन् हि ते पार्थाः सभायां भ्रातरस्तथा।
अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधम्॥२८॥
तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत।
धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी।
सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत॥२९॥
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः।
दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः॥३०॥
भूयः सञ्चरितः क्रुद्धः सहसोत्थाय चाऽऽसनात्।
निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत॥३१॥
वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः।
आकारेणैव भीमं स प्रत्यपेधद् युधिष्ठिरः॥३२॥
तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः।
चकार भीमसेनस्य रोषाविष्टस्य धीमतः॥३३॥
प्रत्याख्यानं तदा चाऽऽह कङ्को नाम युधिष्ठिरः॥३४॥
सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः।
नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च॥३५॥
यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद् बहिः।
समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति॥३६॥
यस्य चाऽऽर्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत्।
न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन्॥३७॥
न क्रोधकालसमयः सूद मा चापलं कृथाः।
अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु॥३८॥
अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तत्र धर्मराट्।
प्रबोधनभयाद् राज्ञो भीमं तं प्रत्यषेधयत्॥३९॥
भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः।
सहसोत्पतितं क्रोधं न्ययच्छद् धृतिमान् बलात्।
इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद् वृकोदरः॥४०॥
भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम्।
द्रौपदी चाधिकं क्रोधात् प्रारुदत् सा पुनः पुनः॥४१॥
कीचकेनानुगमनात् कृष्णा ताम्रायतेक्षणा।
सभाद्वारमुपागम्य रुदन्ती वाक्यमब्रवीत्॥४२॥
अवेक्षमाणा सुश्रोणी पतींस्तान् दीनचेतसः।
आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम्।
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा॥४३॥
प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम्।
कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम्॥४४॥
स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम्।
प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः॥४५॥
विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना।
राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि॥४६॥
राजन् धर्मासनस्थो हि रक्ष मां त्वमनागसम्॥४७॥
अहं त्वनपराध्यन्ती कीचकेन दुरात्मना।
पश्यतस्ते महाराज हता पादेन दासिवत्॥४८॥
त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले।
अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय॥४९॥
रक्ष मां कीचकाद् भीतां धर्मं रक्ष नरेश्वर।
मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान्॥५०॥
यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः।
अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः॥५१॥
मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम्।
त्वं किलैवंविधो जातः कुले धर्मपरायणे॥५२॥
अतस्त्वाऽहमभिक्रन्दे शरणार्थं नराधिप।
त्राहि मामद्य राजेन्द्र कीचकात् पापपूरुषात्॥५३॥
अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः।
प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते॥५४॥
अकार्याणामनारम्भात् कार्याणामनुपालनात्।
प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः॥५५॥
कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः।
प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः॥५६॥
नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात्।
प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात्॥५७॥
अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते।
द्वन्द्वं कार्यमकार्यं च लोके चाऽऽसीत् परं यथा॥५८॥
धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा।
क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः॥५९॥
प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम्।
एतद् वो मानुषाः सम्यक् कार्यं द्वन्द्वत्रयं भुवि॥६०॥
अस्मिन् सुनीते दुर्नीते लभते कर्मजं फलम्।
कल्याणकारी कल्याणं पापकारी च पापकम्॥६१॥
तेन गच्छति संसर्गं स्वर्गाय नरकाय वा।
सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः।
पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः॥६२॥
एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम्।
शक्रोऽप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत्॥६३॥
यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना।
तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव॥६४॥

॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकोनविंशोऽध्यायः॥१९॥