अष्टादशोऽध्यायः॥१८॥
वैशम्पायन उवाच
प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः।
प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः॥१॥
सोऽभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम्।
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः॥२॥
स तु मूर्ध्न्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ।
सम्मोहाभिहतस्तूर्णं वातोद्धूत इवार्णवः॥३॥
स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन् मुहुः।
अव्यक्तमृदुना साम्ना शुष्यता च पुनः पुनः॥४॥
यथा सुदेष्णे सैरन्ध्र्या सङ्गच्छेयं सकामया।
तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान् प्रहासिषम्॥५॥
यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते।
चेतसाऽभिप्रसन्नेन गतोऽस्मि यमसादनम्॥६॥
वैशम्पायन उवाच
तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम्।
भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा॥७॥
शरणागतेयं सुश्रोणी मया दत्ताभया च सा।
शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे॥८॥
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा।
गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च॥९॥
एवमेषा ममाऽऽचष्टे तथा प्रथमसङ्गमे।
तथैव गजनासोरूः सत्यमाह ममान्तिके।
ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम्॥१०॥
राजा चैव समीक्ष्यैनां सम्मोहं गतवानिह।
मया च सत्यवचनैरनुनीतो महीपतिः॥११॥
सोऽप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत।
भयाद् गन्धर्वमुख्यानां जीवितस्योपघातिनाम्।
मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः॥१२॥
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः।
दहेयुरपि लोकांस्त्रीन् युगान्तेष्विव भास्करः॥१३॥
सैरन्ध्र्या ह्येतदाख्यातं मम तेषां महद् बलम्।
तव चाहमिदं गुह्यं स्नेहाद् वक्ष्यामि बन्धुवत्॥१४॥
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम्।
बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च॥१५॥
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव।
न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि॥१६॥
वैशम्पायन उवाच
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत्।
गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा।
अहमेको वधिष्यामि गन्धर्वान् पञ्च किं पुनः॥१७॥
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम्।
पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम्॥१८॥
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम्।
योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम्॥१९॥
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम्।
वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता।
सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेज्जीवितं प्रियम्॥२०॥
वैशम्पायन उवाच
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता।
अहो दुःखमहो कृच्छ्रमहो पापमिति स्म ह॥२१॥
प्रारुदद् भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा।
पातालेषु पतत्येष विलपन् बडवामुखे॥२२॥
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे।
किं नु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः॥२३॥
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे।
ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः।
अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम॥२४॥
अपि चैतत् पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः।
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते॥२५॥
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः।
अदूषितमिदं सर्वं स्वजनं घातयिष्यसि॥२६॥
एतत् तु मे दुःखतरं येनाहं भ्रातृसौहृदात्।
विदितार्था करिष्यामि तुष्टो भव कुलक्षये॥२७॥
गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम्।
किञ्चित् कार्यं समुद्दिश्य सुरामन्नं च कारय॥२८॥
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः।
तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम्॥२९॥
ततः सम्प्रेषितामेनां विजने निरवग्रहाम्।
सान्त्वयेथा यथान्यायं यदि साम सहिष्यति॥३०॥
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय॥३१॥
वैशम्पायन उवाच
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः।
त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः॥३२॥
आगम्य च गृहं रम्यं सुरामन्नं चकार ह।
अजैडकं च सुकृतं बहु चोच्चावचान् मृगान्॥३३॥
भक्षांश्च विविधाकारान् बहूंश्चोच्चावचांस्तदा।
कारयामास कुशलैरन्नपानैः सुसंस्कृतम्॥३४॥
त्वरावान् कालपाशेन कण्ठे बद्धः पशुर्यथा।
नावबुध्यत मूढात्मा मरणं समुपस्थितम्॥३५॥
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते।
कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत्॥३६॥
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः।
सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत्॥३७॥
केनचित् त्वद्य कार्येण त्वर शीघ्रं मम प्रियम्।
अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम्।
समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै॥३८॥
वैशम्पायन उवाच
सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम्।
एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे॥३९॥
एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः।
स्वगृहं प्राविशत् तूर्णं सैरन्ध्रीगतमानसः॥४०॥
कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम्।
सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत्॥४१॥
गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम्।
सुरामानय सुश्रोणि तृषिताऽहं विलासिनि॥४२॥
वैशम्पायन उवाच
सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा।
अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वै॥४३॥
सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते।
न गच्छेयमहं तस्य राजपुत्रि निवेशनम्।
त्वमेव भद्रे जानासि यथा स निरपत्रपः॥४४॥
समयश्च कृतो भद्रे यथा प्रथमसङ्गमे।
तथा निवसमानायां यथाऽहं नान्यचारिणी॥४५॥
कीचकश्च सुकेशान्ते मूढो मदनगर्वितः।
स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम्।
कथं नु वै तत्र गतां मर्षयेन् मामबान्धवाम्॥४६॥
बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः।
अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया॥४७॥
कीचकस्याऽऽलयं देवि न यामि भयकम्पिता।
यद् यदन्यच्च मे कर्म करोमि च सुदुष्करम्॥४८॥
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी।
तां विराटस्य महिषी क्रुद्धा भूयोऽन्वशासत॥४९॥
कीचकं चैव गच्छ त्वं बलात्कारेण चोदिता।
नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज॥५०॥
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि।
शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर॥५१॥
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे।
उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः॥५२॥
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम्।
या सुजाता सुगन्धा च तामानय सुरामिति॥५३॥
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा।
दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत्॥५४॥
यथाऽहमन्यं पार्थेभ्यो नाभिजानामि मानवम्।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत्॥५५॥
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत्॥५६॥
॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टादशोऽध्यायः॥१८॥