द्वादशोऽध्यायः॥१२॥

वैशम्पायन उवाच

अथापरोऽदृश्यत पाण्डवः प्रभुर्-
विराटराजे तुरगान् समीक्षति।
तमापतन्तं ददृशुः पृथग् जनाः
प्रमुक्तमभ्रादिव चन्द्रमण्डलम्॥१॥
स वै हयानैक्षत तानितस्ततः
समीक्षमाणं च ददर्श मत्स्यराट्।
दृष्ट्वा तथैनं स कुरूत्तमं तमः
पप्रच्छ तान् सर्वसभासदस्तदा॥२॥
को वा विजानाति पुराऽस्य दर्शनं
योऽयं युवाऽभ्येति हि मामिकां सभाम्।
प्रियो हि मे दर्शनतोऽपि सम्मतो
ब्रवीतु कश्चिद् यदि दृष्टवानिमम्॥३॥
अयं हयान् पश्यति मामकान् मुहुर्-
ध्रुवं हयज्ञो भविता विचक्षणः।
प्रवेश्यतामेष समीपमाशु वै
विभाति वीरो हि यथाऽमरस्तथा॥४॥
वितर्कयत्येव हि मत्स्यराजनि
त्वरन् कुरूणामृषभः सभामगात्।
ततः प्रणम्योपनतः कुरूत्तमो
विराटराजानमुवाच पार्थिवम्॥५॥
तवागतोऽहं पुरमद्य भूपते
जिजीविषुर्वेतनभोजनार्थिकः।
तवाश्वबन्धः सुभृतो भवाम्यहं
कुरुष्व मामश्वपतिं यदीच्छसि॥६॥

विराट उवाच

ददानि यानानि धनानि वेतनं
न चाश्वसूतो भवितुं त्वमर्हसि।
कुतोऽसि कस्यासि कथं त्वमागतो
ब्रवीहि शिल्पं तव विद्यते च यत्॥७॥

नकुल उवाच

पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः।
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन॥८॥
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः।
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम्॥९॥
न कातरं स्यान्मम वाजिवाहनं
न मेऽस्ति दुष्टा बडवा कुतो हयः।
जानंस्तु मामाह स चापि पाण्डवो
युधिष्ठिरो ग्रन्थिकमेव नामतः॥१०॥
मातलिरिव देवपतेर्-
दशरथनृपतेः सुमन्त्र इव यन्ता।
सुमह इव जामदग्नेस्-
तथैव तव शिक्षयाम्यश्वान्॥११॥
युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात्।
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता॥१२॥

विराट उवाच

यदस्ति किञ्चिन्मम वाजिवाहनं
तदस्तु सर्वं त्वदधीनमद्य वै।
ये चापि केचिन्मम वाजियोधास्-
त्वदाश्रयाः सारथयश्च सन्तु मे॥१३॥
इदं तवेष्टं विहितं सुरोपम
प्रब्रूहि यत् ते प्रसमीक्षितं वरम्।
न तेऽनुरूपं हयकर्म दृश्यते
विभाति राजेव न कर्म वाजिनाम्॥१४॥
युधिष्ठिरस्यैव हि दर्शनेन मे
समं तवेदं प्रियदर्श दर्शनम्।
कथं नु भृत्यैः स विनाकृतो वने
चरत्यनिन्द्यो रमते च पाण्डवः॥१५॥

वैशम्पायन उवाच

तथा स गन्धर्ववरोपमो युवा
विराटराज्ञा मुदितेन पूजितः।
न चैवमन्येऽपि विदुः कथञ्चन
प्रियाभिरामं विचरन्तमन्तरा॥१६॥

॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वादशोऽध्यायः॥१२॥