एकादशोऽध्यायः॥११॥

वैशम्पायन उवाच

अथापरोऽदृश्यत वर्णवान् युवा
स्त्रीवेषधारी समलङ्कृतो भृशम्।
प्रवालचित्रे प्रविमुच्य कुण्डले
उभे च कम्बू परिपातुके तथा॥१॥
कृष्णे च रक्ते च निबध्य वाससी
शरीरवाञ्छुक्रबृहस्पतिप्रभः।
बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्
महाभुजो मत्तगजेन्द्रविक्रमः॥२॥
क्लैब्येन वेषेण न भाति भाति च
ग्रहाभिपन्नो नभसीव चन्द्रमाः।
गतेन चोर्वी परिकम्पयंस्तदा
विराटमासाद्य सभासमीपतः॥३॥
तं प्रेक्ष्य राजोपगतं सभातले
व्याजाप्रतिच्छन्नममित्रमर्दनम्।
विराजमानं सुरराजवर्चसं
सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम्॥४॥
सर्वानपृच्छच्च समीपचारिणः
कुतोऽयमायाति न मे पुरा श्रुतः।
न चैनमूचुर्विदितं नरास्तदा
सविस्मयं वाक्यमिदं नृपोऽब्रवीत्॥५॥

विराट उवाच

गजेन्द्रलीलो मृगराजगामी
वृषेक्षणो देवसुतोग्रतेजाः।
पीनांसबाहुः कनकावदातः
कोऽयं नरो मे नगरं प्रविष्टः॥६॥
किमेष देवेन्द्रसुतः किमेष
ब्रह्मात्मजो वा किमयं स्वयम्भूः।
उमासुतो वैश्रवणात्मजो वा
प्रेक्ष्यैनमासीदिति मे वितर्कः॥७॥

वैशम्पायन उवाच

सभामतिक्रम्य स वासवोपमो
निरीक्षमाणो बहुभिः सभागतैः।
स तत्र राजनममित्रहाऽब्रवीद्
बृहन्नलाऽहं नरदेव नर्तकी॥८॥
वेणीं प्रकुर्यां रुचिरे च कुण्डले
ग्रथे स्रजः प्रावरणानिसंहरे।
स्नानं चरेयं विमृजे च दर्पणं
विशेषकेष्वेव च कौशलं मम॥९॥
क्लीबेषु बालेषु जनेषु नर्तने
शिक्षाप्रदानेषु च योग्यता मम।
करोमि वेणीषु च पुष्पपूरकं
न मे स्त्रियः कर्मणि कौशलाधिकाः॥१०॥
इत्यर्जुनस्तं नरदेवमोजसा
विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम्।
तमब्रवीत् प्रांशुमुदीक्ष्य विस्मितो
विराटराजोपसृतं महायशाः॥११॥
नार्हस्तु वेषोऽयमनूर्जितस्ते
नापुंस्त्वमर्हं नरदेवसिंह।
तवैव वेषः शुभवेषभूषणैर्-
विभूषितो भूतपतेरिव प्रभो॥१२॥
विभाति भानोरिव रश्मिमालिनो
घनावरुद्धे गगने घनैरिव।
धनुर्हि मन्ये तव शोभयेद् भुजौ
तथा हि पीनावतिमात्रमायतौ॥१३॥
प्रगृह्य चापं त्वनुरूपमात्मनो
रक्षस्व देशं पुरमद्य सुस्थिरः।
पुत्रेण तुल्यो भव मे बृहन्नले
वृद्धोऽस्मि वित्तं प्रतिपादयामि ते॥१४॥
त्वं रक्ष मे सर्वमिदं पुरं प्रभो
न षण्डतां काञ्चन लक्षयामि ते।
प्रशाधि मत्स्यांस्तरसा विवर्धयन्
ददामि राज्यं तव सत्यवागहम्॥१५॥

वैशम्पायन उवाच

तस्याग्रतः स्वानि धनूंषि पार्थिवो
बहूनि दीर्घाणि च वर्णवन्ति च।
ददौ स सज्यानि बलान्वितानि
जिज्ञासमानः किमयं करिष्यति॥१६॥
ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्-
न मे धनुर्धारितमीदृशं विभो।
न चापि दृष्टं धनुरीदृशं क्वचिन्-
न मादृशाः सन्ति धनुर्धरा भुवि॥१७॥
नृत्याम गायामि च वादयाम्यहं
प्रानर्तने कौशलनैपुणं मम।
तदुत्तरायाः परिधत्स्व नर्तने
भवामि देव्या नरदेव नर्तकी॥१८॥

विराट उवाच

ददामि ते तं हि वरं बृहन्नले
सुतां हि मे नर्तय याश्च तादृशीः।
ततो विराटः स्वयमाह्वयत् सुतां
नराधिपस्तां च सुमध्यसुन्दरीम्॥१९॥
उवाच चैनां मुदितेन चेतसा
बृहन्नला नाम सखी भवत्वियम्।
सुगात्रि सम्प्रीतिसुबद्धसौहृदा
तवाङ्गने प्राणसमा च नित्यदा॥२०॥
प्रकामभक्ष्याभरणाम्बरा शुभा
चरत्वियं सर्वजनेष्ववारिता।
न दुष्कुलानामियमाकृतिर्भवेन्-
न वृत्तभेदी भवतीदृशो जनः॥२१॥

वैशम्पायन उवाच

सम्मन्त्र्य राजा विविधैः स्वमन्त्रिभिः
परीक्ष्य चैनं प्रमदाभिराशु वै।
अपुंस्त्वमप्यस्य निशम्य च स्थिरं
ततः कुमारीपुरमुत्ससर्ज तम्॥२२॥
स शिक्षयामास च गीतवादनं
सुतां विराटस्य धनञ्जयः प्रभुः।
सखीश्च तस्याः परिचारिकास्तथा
प्रियश्च तस्याः स बभूव पाण्डवः॥२३॥
तथा स तत्रैव धनञ्जयोऽवसत्
प्रियाणि कुर्वन्त्सह ताभिरात्मवान्।
तथा गतं तत्र न जज्ञिरे जना
बहिश्चरा वाऽप्यथवेतरे जनाः॥२४॥

॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि एकादशोऽध्यायः॥११॥