नवमोऽध्यायः॥९॥

वैशम्पायन उवाच

ततस्तु ते पुण्यजलां शिवां शुभां
महर्षिगन्धर्वनिषेवितोदकाम्।
त्रिलोककान्तामवतीर्य जाह्नवीम्
ऋषींश्च देवांश्च पितॄनतपर्यन्॥१॥
वरप्रदानं ह्यनुचिन्त्य पार्थिवे
हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः।
दिशं तथैन्द्रीमभितः प्रपेदिवान्
कृताञ्जलिर्धर्ममुपाह्वयच्छनैः॥२॥

युधिष्ठिर उवाच

वरप्रदानं मम दत्तवान् पिता
प्रसन्नचेता वरदः प्रजापतिः।
जलार्थिनो मे तृषितस्य सोदरा
मया प्रयुक्ता विविशुर्जलाशयम्॥३॥
निपातिता यक्षवरेण ते वने
महाहवे वज्रभृतेव दानवाः।
मया च गत्वा वरदो हि तोषितो
विवक्षता प्रश्नसमुच्चयं गुरुः॥४॥
स मे प्रसन्नो भगवान् वरं ददौ
परिष्वजंश्चाऽऽह तथैव सौहृदात्।
वृणीष्व यद्वाञ्छसि पाण्डुनन्दन
स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम्॥५॥
स वै मयोक्तो वरदः पिता प्रभुः
सदैव मे धर्मरता मतिर्भवेत्।
इमे च जीवन्तु ममानुजाः प्रभो
वयं स्वरूपं च जयं तथाऽऽप्नुमः॥६॥
क्षमा च कीर्तिश्च यथेप्सितं भवेद्
व्रतं तु सत्यं च समाप्तिरेव च।
वरो ममैषोऽस्तु यथाऽनुकीर्तितो
न तन्मृषा देववृषो यथाऽब्रवीत्॥७॥

वैशम्पायन उवाच

इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन्।
तदैव तत् प्रसादेन रूपमेवाभवत्स्वयम्॥८॥
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्
कमण्डलूष्णीषधरो व्यजायत।
सुरक्तमाञ्जिष्ठवराम्बरः शिखी
पवित्रपाणिर्ददृशे तदाऽद्भुतम्॥९॥
तथैव तेषामपि धर्मचारिणां
यथोचितार्हाभरणाम्बरस्रजः।
क्षणेन राजन्नभवन् महात्मनां
प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम्॥१०॥
नवेन रूपेण विशाम्पतिर्युतस्-
त्वथर्वरूपेण बभौ प्रतापवान्।
निबद्धवैडूर्यसितान् सकाञ्चनान्
नृपस्तथाऽक्षान् परिवेष्ट्य वाससः॥११॥
ततो विराटं प्रथमं युधिष्ठिरो
ददर्श दूरात् सुसमृद्धतेजसम्।
अनन्ततेजोज्वलितं हुताशनं
दुरासदं तीक्ष्णविषं यथोरगम्॥१२॥
सभासदं प्राञ्जलिभिर्जनैर्वृतं
विचित्रनानाविधशस्त्रपाणिभिः।
उपायनौघैः प्रविशद्भिराचितं
द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः॥१३॥
गजैरुदीर्णं तुरगैश्च सङ्कुलं
मृगद्विपैः कुब्जगणैः समावृतम्।
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं
विचित्रवैडूर्यविकारकुण्डलम्।
विराटमायाच्च युधिष्ठिरस्तदा
बृहस्पतिः शक्रमिव त्रिविष्टपे॥१४॥
तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं
विराटराजो मुदितेन चक्षुषा।
पप्रच्छ चैनं स नराधिपो मुहुर्-
द्विजाश्च ये चास्य सभासदस्तदा॥१५॥

विराट उवाच

को वा विजानाति पुराऽस्य दर्शनं
युवा सभां योऽयमुपैति मामिकाम्।
रूपेण सारेण विराजयन् महीं
श्रिया ह्ययं वैश्रवणो द्विजो यथा॥१६॥
मृगेन्द्रराड् वारणयूथपोपमः
प्रभात्ययं काञ्चनपर्वतो यथा।
विराजते पावकसूर्यसन्निभं
सचन्द्रनक्षत्र इवांशुमान् ग्रहः॥१७॥
न दृश्यतेऽस्यानुचरो न कुञ्जरो
न चोष्णरश्म्यावरणं समुच्छ्रितम्।
न कुण्डलं नाङ्गदमस्य न स्रजो
विचित्रिताङ्गश्च रथश्चतुर्युजः॥१८॥
क्षात्रं च रूपं हि बिभर्त्ययं भृशं
गजेन्द्रशार्दूलमहर्षभोपमः।
अभ्यागतोऽस्माननलङ्कृतोऽपि सन्
विरोचते भानुरिवाचिरोदितः॥१९॥
विभात्ययं क्षत्रिय एव सर्वथा
विराट इत्येवमुवाच तं प्रति।
ससागरान्तामयमद्य मेदिनीं
प्रशासितुं चार्हति वासवोपमः॥२०॥
नाक्षत्रियो नूनमयं भविष्यति
मूर्धाभिषिक्तः प्रतिभाति मां प्रति।
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य
गजस्य सिंहस्य तथर्षभस्य॥२१॥
यमेष कामं परिमार्गते द्विजः
स चास्य सर्वः क्रियतामसंशयम्।
प्रियं च मे दर्शनमीदृशे जने
द्विजेषु मुख्येषु तथाऽतिथिष्वपि॥२२॥

धनेषु रत्नेष्वथ गोषु वेश्मसु

प्रकामतो मे विचरत्ववारितः॥२३॥

वैशम्पायन उवाच

एवं ब्रुवाणस्तमनन्ततेजसं
विराजमानं सहसोत्थितो नृपः।
अन्येन रूपेण समीपमागतं
त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम्॥२४॥
समुत्थिता सा हि सभा सपार्थिवा
सविप्रराजन्यविशा सशूद्रका।
सभागतं प्रेक्ष्य तपन्तमर्चिषां
विनिःसृतं राहुमुखाद् यथा रविम्॥२५॥
स तेन पूर्वं जयतां भवानिह
द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः।
जयं जयार्हेण समेत्य वर्धितो
विराटराजो ह्यभिवादयच्च तम्॥२६॥
तमब्रवीत् प्राञ्जलिरेष पार्थिवो
विराटराजो मधुराक्षरं वचः।
प्राप्तः कुतस्त्वं भगवन् किमिच्छसि
क्व यास्यसे किं करवाणि ते द्विज॥२७॥
श्रुतं च शीलं च कुलं च शंस मे
गोत्रं तथा नाम च देशमेव ते।
सत्यप्रतिज्ञा हि भवन्ति साधवो
विशेषतः प्रव्रजिता द्विजातयः॥२८॥
यथाऽनुरूपं प्रचरामि ते त्वहं
न चावमन्ता न तवाभिभाषितम्।
अपूजिता ह्यग्निसमा द्विजातयः
कुलं दहेयुः सविषा इवोरगाः॥२९॥
सर्वां च भूमिं तव दातुमुत्सहे
सदण्डकोशां विसृजामि ते पुरम्।
कस्यासि राज्ञो विषयादिहागतः
किं कर्म चात्राऽऽचरसि द्विजोत्तम॥३०॥

वैशम्पायन उवाच

एवं ब्रुवाणं तमुवाच पार्थिवं
युधिष्ठिरो धर्ममवेक्ष्य चासकृत्।
सत्यं वचः को न्विह वक्तुमुत्सहेद्
यथाप्रतिज्ञं तु शृणुष्व पार्थिव॥३१॥
श्रुतं च शीलं च कुलं च कर्म च
शृणुष्व मे जन्म च देशमेव च।
गुरूपदेशान्नियमाच्च मे व्रतं
कुलक्रमार्थं पितृभिर्नियोजितम्॥३२॥
द्विजो व्रतेनास्मि न च स्वतः प्रभो
सम्मुण्डितः प्रव्रजितस्त्रिदण्डभृत्।
इदं शरीरं मम पश्य मानुषं
समावृतं पञ्चभिरेव धातुभिः॥३३॥
ममेह पञ्चेन्द्रियगात्रदर्शिनो
वदन्ति पञ्चैव पितॄन् यथा श्रुतिः।
मनुष्यजातित्वमचिन्तयन्नहं
न चास्मि तुल्यः पितृभिः स्वभावतः॥३४॥
कङ्को हि नाम्ना विषयं तवाऽऽगतो
व्रती द्विजातिः स्वकृतेन कर्मणा।
द्यूतप्रसङ्गादधनोऽस्मि राजन्
सत्यप्रतिज्ञा व्रतिनश्चरामः॥३५॥
युधिष्ठिरस्यापि सखाऽभवं पुरा
गृहप्रवेशी च शरीरमेव च।
गृहे च तस्योषितवानहं सुखं
राजाऽस्मि तस्य स्वपुरेऽभवं पुरा॥३६॥
ममाऽऽज्ञया तत्र विचेरुरङ्गना
मम प्रियार्थं दमयन्ति वाजिनः।
मया कृतं तस्य पुरे तु यत् पुरा
न तत् कदाचित् कृतवाञ्जनोऽन्यथा॥३७॥
सोऽहं पुरा तस्य वयस्समः सखा
चरामि सर्वां वसुधां सुदुःखितः।
न तु प्रशान्तिं क्वचिदाप्तवानहं
व्रतोपदेशान्नियमेन भारिकः॥३८॥
वैयाघ्रपद्योऽस्मि नरेन्द्र गोत्रतस्-
तदेव सौख्यं मृगयामहे वयम्।
कृतज्ञभावेन मयाऽनुकीर्तितं
युधिष्ठिरस्याऽऽत्मसमस्य चेष्टितम्॥३९॥
इमं हि मोक्षाश्रममास्थितस्य मे
युधिष्ठिरस्तुल्यगुणो भवानपि।
न मेऽस्ति माता न पिता न बान्धवा
न मेऽस्ति रूपं न रतिर्न सन्ततिः॥४०॥
सुखं च दुःखं च हि तुल्यमद्य मे
प्रियाप्रिये तुल्यगते गतागते।
मुक्तोऽस्मि कामाच्च धनाच्च साम्प्रतं
त्वदाश्रये वस्तुमिहाभ्युपागतः॥४१॥
संवत्सरेणेह समाप्यते त्विदं
मम व्रतं दुष्करकर्मकारिणः।
ततो भवन्तं परितोष्य कर्मभिः
पुनर्व्रजिष्ये च कुतूहलं यतः॥४२॥
अक्षान्निवप्तुं कुशलोऽस्म्यहं सदा
पराजितः शकुनिरुतानि चिन्तयन्।
मृगद्विजानां च रुतानि चिन्तयन्
निराश्रयः प्रव्रजितोऽस्मि भिक्षुकः॥४३॥

वैशम्पायन उवाच

तेनैवमुक्ते वचने नराधिपः
कृताञ्जलिः प्रव्रजितं विलोक्य च।
अथाब्रवीद् धृष्टमनाः शुभाक्षरं
मनोनुगं सर्वसभागतं वचः॥४४॥
ददामि ते हन्त वरं यदीप्सितं
प्रशाधि मत्स्यान्यदि मन्यते भवान्।
प्रिया हि धूर्ता मम चाक्षकोविदास्-
त्वं चापि देवो मम राज्यमर्हसि॥४५॥
समानयानासनवस्त्रभोजनं
प्रभूतमाल्याभरणानुलेपनम्।
स सार्वभौमोपम सर्वदाऽर्हसि
प्रियं हि मन्ये तव नित्यदर्शनम्॥४६॥
ये त्वाऽभिधावेयुरनर्थपीडिता
द्विजातिमुख्या यदि वेतरे जनाः।
सर्वाणि कार्याण्यहमर्थितस्त्वया
तेषां करिष्यामि न मेऽत्र संशयः॥४७॥
ममान्तिके यश्च तवाप्रियं चरेत्
प्रवासये तं परिचिन्त्य मानवम्।
यच्चापि किञ्चिद् वसु विद्यते मम
प्रभुर्भवांस्तस्य वशी वसेह च॥४८॥

युधिष्ठिर उवाच

अतोऽभिलाषः परमो न विद्यते
न मे जितं किञ्चन धारये धनम्।
न भोजनं किञ्चन संस्पृशेयं
हविष्यभोजी निशि च क्षितीशयः॥४९॥
व्रतोपदेशात् समयो हि नैष्ठिको
न क्रोधितव्यं नरदेव कस्यचित्।
एवं प्रतिज्ञस्य ममेह भूपते
निवासबुद्धिर्भविता तु नान्यथा॥५०॥

एवं वरं मात्स्य वृणे प्रदापितं

कृती भविष्यामि वरेण तेऽनघ॥५१॥

वैशम्पायन उवाच

एवं तु राज्ञः प्रथमः समागमो
बभूव मात्स्यस्य युधिष्ठिरस्य च।
विराटराजस्य हि तेन सङ्गमो
बभूव विष्णोरिव वज्रपाणिना॥५२॥
तमासनस्थं प्रियरूपदर्शनं
निरीक्षमाणो न ततर्प भूमिपः।
सभां च तां प्रज्वलयन् युधिष्ठिरः
श्रिया यथा शक्र इव त्रिविष्टपम्॥५३॥
एवं स लब्ध्वा नृपतिः समागमं
विराटराजेन नरर्षभस्तदा।
उवास वीरः परमार्चितः सुखी
न चास्य कश्चिच्चरितं बुबोध तत्॥५४॥

॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि नवमोऽध्यायः॥९॥