षष्ठोऽध्यायः॥६॥

वैशम्पायन उवाच

तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम्।
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः॥१॥

युधिष्ठिर उवाच

अनुशिष्टोऽस्मि भद्रं ते नैतद् वक्ताऽस्ति कश्चन।
कुन्तीमृते मातरं नः पितरं च यशस्विनम्॥२॥
यदेवानन्तरं कार्यं तद् भवान् वक्तुमर्हति।
तारणाय तु दुःखस्य प्रस्थानाय भवाय च॥३॥

वैशम्पायन उवाच

तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत्।
सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा।
ततः पावकमुज्ज्वाल्य मन्त्रहव्यपुरुस्कृतम्॥४॥
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः।
प्राद्रवन् सह धौम्येन बद्धशस्त्रा वनाद् वनम्॥५॥
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः।
अगच्छन् भीमधन्वानः काम्यकाद् यमुनां नदीम्॥६॥
उत्तरेण दशार्णानां पाञ्चालान् दक्षिणेन तु।
अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः॥७॥
ते तस्या दक्षिणं तीरमन्वगच्छन् पदातयः।
ततः प्रत्यक् प्रयातास्ते सङ्क्रामन्तो वनाद् वनम्॥८॥
वसाना वनदुर्गेषु रमणीयेषु धन्विनः।
पल्वलेषु च रम्येषु नदीनां सङ्गमेषु च॥९॥
द्रुमान् नानाविधाकारान् नानाविधलताकुलान्।
कुसुमाढ्यान् मनःकान्ताञ्छुभगन्धान् मनोरमान्॥१०॥
पार्था निरीक्षमाणाश्च तान् द्रुमान् पुष्पशालिनः।
जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान् मनोरमान्॥११॥
विध्यन्तो मृगजातानि महेष्वासा महाबलाः।
उषित्वा द्वादशसमा वने परपुरञ्जयाः।
लुब्धान् ब्रुवाणा मात्स्यस्य विषयं प्राविशंस्तदा॥१२॥
तत्र धौम्यं महेष्वासाः पाण्डवेया व्यसर्जयन्।
अग्निहोत्रं परिचरन् सोऽबुद्धोऽवसदाश्रमे॥१३॥
ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु।
इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः।
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः॥१४॥
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत्॥१५॥
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः।
वृक्षांश्चोपवनोपेतान् ग्रामाणां नगरस्य च॥१६॥
व्यक्तं दूरे विराटस्य राजधानी भविष्यति।
वसामेहापरां रात्रिं बलवान् मे परिश्रमः॥१७॥

युधिष्ठिर उवाच

इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन।
मुहूर्तं परिगृह्यैनां बाहुभ्यां नकुल व्रज॥१८॥
ततोऽदूरे विराटस्य नगरं भरतर्षभ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम्॥१९॥

नकुल उवाच

पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने।
अटवी च मया दूरं धृता मृगवधेप्सुना॥२०॥
विषमा ह्यतिदुर्गा च वेगवत्परिधावता।
सोऽहं धर्माभितप्तो वै नैनामादातुमुत्सहे॥२१॥

युधिष्ठिर उवाच

सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय।
राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम्॥२२॥

सहदेव उवाच

अहमप्यस्मि तृषितः क्षुधया परिपीडितः।
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे॥२३॥

युधिष्ठिर उवाच

एहि वीर विशालाश्च वीरसिंह इवार्जुन।
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम्॥२४॥
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम्॥२५॥

वैशम्पायन उवाच

गुरोर्वचनमाज्ञाय सम्प्रहृष्टो जितेन्द्रियः।
बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम्।
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम्॥२६॥
जटिलो वल्कलधरः शततूणीधनुर्धरः।
स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम्।
आनीय नगराभ्याशमवातारयदर्जुनः॥२७॥

॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि षष्ठोऽध्यायः॥६॥