पञ्चमोऽध्यायः॥५॥

युधिष्ठिर उवाच

कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ।
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात्॥१॥
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु।
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने॥२॥
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान्।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः॥३॥
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका।
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह॥४॥
सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः।
अर्धरात्रे महात्मानो भिक्षादान् ब्राह्मणानपि।
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति॥५॥

वैशम्पायन उवाच

एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक् पृथक्।
धौम्यमामन्त्रयामासुः स च तान् मन्त्रमब्रवीत्॥६॥
तानन्वशात् स धर्मात्मा सर्वधर्मविशेषवित्।
धौम्यः पुरोहितो राजन् पाण्डवान् पुरुषर्षभान्॥७॥

धौम्य उवाच

विदितं वै यथा सर्वं लोके वृत्तमिदं नृप।
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः॥८॥
अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत।
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः।
यथा राजकुलं प्राप्य चरन् प्रोष्य न रिष्यति॥९॥
दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि।
अमानितेन मानार्ह गूढेन परिवत्सरम्॥१०॥
दिष्टद्वारो लभेद् द्रष्टुं राजस्वेषु न विश्वसेत्।
न चानुशिष्याद् राजानमपृच्छन्तं कदाचन॥११॥
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत्॥१२॥
असूयन्ति हि राजानो जनाननृतवादिनः।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा॥१३॥
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित्॥१४॥
पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान्।
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः॥१५॥
सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत्।
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत॥१६॥
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्।
नावमन्येत मेधावी कृशानपि कदाचन॥१७॥
एतत् त्रयं च पुरुषं निर्दहेदवमानितम्।
राजा तस्माद् बुधैर्नित्यं पूजनीयः प्रयत्नतः॥१८॥
नातिवर्तेत मर्यादां पुरुषो राजसम्मतः।
व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः॥१९॥
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम।
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः॥२०॥
गच्छन्नपि परां भूतिं भूमिपालनियोजितः।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन्॥२१॥
धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत्।
तदेवासनमन्विच्छेद् यत्र नाभिलषेत् परः॥२२॥
यत्रोपविष्टः सङ्कल्पं नोपहन्याद् बलीयसः।
तदासनं राजकुले ईप्सेत पुरुषो वसन्॥२३॥
यथैनं यत्र चाऽऽसीनं शङ्कयेद् दुष्टचारिणम्।
न तत्रोपविशेज्जातु यो राजवसतिं वसेत्॥२४॥
स्वभूमौ काममासीत तिष्ठेद् वा राजसन्निधौ।
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन॥२५॥
परासनगतं ह्येनं परस्य परिचारकाः।
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः॥२६॥
नित्यं विप्रतिषिद्धं तत् पुरस्तादासनं मतम्।
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते॥२७॥
दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः।
तिष्ठेद् विनीतवद् राजन् न पुरस्तान्न पृष्ठतः।
राक्षिणामात्तशस्त्राणां पश्चात् स्थानं विधीयते॥२८॥
मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः।
सङ्ग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत्॥२९॥
पूज्यमानोऽपि यो राज्ञा नरो न प्रतिपूजयेत्।
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान्॥३०॥
नास्य युग्यं न पर्यङ्कं नाऽऽसनं न रथं तथा।
आरोहेत् सम्मतोऽस्मीति यो राजवसतिं वसेत्॥३१॥
यो वै गृहेभ्यः प्रवसन् क्रियमाणमनुस्मरन्।
उत्थाने नित्यसङ्कल्पो निस्तन्द्रीः सङ्घतात्मवान्॥३२॥
परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम्।
दुःखेन सुखमन्विच्छेद् यो राजवसतिं वसेत्॥३३॥
अन्येषु प्रेष्यमाणेषु पुरस्ताद् धीर उत्पतेत्।
करिष्याम्यहमित्येव यः स राजसु सिध्यति॥३४॥
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा।
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति॥३५॥
नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः।
मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः।
ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति॥३६॥
नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः।
समः पूर्णतुलेव स्याद् यो राजवसतिं वसेत्॥३७॥
अल्पेच्छो धृतिमान् राजञ्छायेवानुगतः सदा।
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत्॥३८॥
इतिहासपुराणज्ञः कुशलः सत्कथासु च।
वदान्यः सत्यवाक् वाऽपि यो राजवसतिं वसेत्॥३९॥
न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत्।
यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम्॥४०॥
नैषां कर्मसु संयुक्तो धनं किञ्चिदुपस्पृशेत्।
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा॥४१॥
हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः।
अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति॥४२॥
श्रेयांसं हि परित्यज्य वैद्यं कर्मणि कर्मणि।
पापीयांसं प्रकुर्वीरञ्छीलमेषां तथाविधम्॥४३॥
नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथञ्चन।
रक्षणं तु न सेवेत यो राजवसतिं वसेत्॥४४॥
यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम्।
बुद्धिः परिभवेत् तस्य राजा शङ्केत वा पुनः॥४५॥
शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः।
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः॥४६॥
हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषुचित्।
नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत्॥४७॥
हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम्।
तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः॥४८॥
अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः।
वर्तमानं यथावच्च कुत्सयेयुरसंशयम्॥४९॥
तस्माद् गम्भीरमात्मानं कृत्वा हर्षं नियम्य च।
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद् बहिः॥५०॥
यथा हि सुमहामन्त्रो भिद्यमानो हरेत् सुखम्।
एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत्॥५१॥
या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम्।
उभयेषां समस्तानां शृणु राजोपजीविनाम्॥५२॥
न स्त्रियो जातु मन्येत बाह्ये वाऽभ्यन्तरेऽपि वा।
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद् भयम्॥५३॥
मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत्।
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः॥५४॥
अराजानं हि रत्नानि राजकान्तानि राजवत्।
भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम्॥५५॥
तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता।
तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत्॥५६॥
न चापत्येन सम्प्रीतिं राज्ञः कुर्वीत केनचित्।
अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत्॥५७॥
एतां हि सेवमानस्य नरसीमां चतुर्विधाम्।
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः॥५८॥
एतैस्तु विपरीता या नरसीमा नराधमैः।
तथा कुर्वीत संसर्गं न विरोधं कथञ्चन॥५९॥
बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः।
साधु मन्येत संसर्गं न विरोधं कथञ्चन॥६०॥
ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः।
प्रथमं छिद्यते मूलं द्वितीयं जायते भयम्॥६१॥
उद्धतानां च यो वेषः कुहकानां च यो भवेत्।
राजवेषं च विस्पष्टं सेवमानो न वर्धते।
इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः॥६२॥
अपुम्भिश्चैव पुम्भिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः।
शक्ये सति न सम्भाषां जातु कुर्वीत कर्हिचित्॥६३॥
प्रतिसम्भाषमाणो हि त्रिभिरेतैरचेतनः।
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः॥६४॥
ये च राज्ञाऽभिसत्कारं लभेरन् कारणादिव।
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित्॥६५॥
न चान्याचरितां भूमिमसन्दिष्टो महीपतेः।
उपसेवेत मेधावी यो राजवसतिं वसेत्॥६६॥
न च सन्दर्शने राज्ञां प्रबन्धमभिसञ्जपेत्।
अपि चैतद् दरिद्राणां व्यलीकस्थानमुत्तमम्॥६७॥
अर्थकामा च या नारी राजानं स्यादुपस्थिता।
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः॥६८॥
तस्मान्नारीं न निध्यायेत् तथायुक्तां विचक्षणः।
तथा क्षुतं च वातं च निष्ठीवं चाऽऽचरेच्छनैः॥६९॥
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता।
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम्॥७०॥
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत्।
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत्॥७१॥
भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम्।
न च गाढं विजृम्भेत जातु राज्ञः समीपतः॥७२॥
न प्रशंसेन्न चासूयेत् प्रियेषु च हितेषु च।
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः॥७३॥
अथ सन्दृश्यमानेषु प्रियेषु च हितेषु च।
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा॥७४॥
न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत्।
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत्॥७५॥
अप्रमत्तो हि राजानं रञ्जयेच्छीलसम्पदा।
उत्थानेन तु मेधावी शौचेन विविधेन च॥७६॥
स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते।
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते॥७७॥
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः।
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति॥७८॥
तस्माद् भक्त्या च युक्तः सन् सत्यवादी जितेन्द्रियः।
मेधावी धृतिमान् प्राज्ञः संश्रयीत महीपतिम्॥७९॥
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्।
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम्॥८०॥
एष वः समुदाचारः समुद्दिष्टो यथाविधि।
यथार्थान् सम्प्रपत्स्यन्ते पार्थ राजोपजीविनः॥८१॥
संवत्सरमिमं तावदेवंशीला बुभूषथः।
ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ॥८२॥

वैशम्पायन उवाच

तं तथेत्यब्रुवन् पार्थाः पितृकल्पं यशस्विनम्।
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन् परन्तपाः॥८३॥
तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत्।
भवाय राज्यलाभाय वीर्याय विजयाय च॥८४॥
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च।
स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च॥८५॥
स्वस्ति वोऽस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान्।
इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता।
युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः॥८६॥

॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि पञ्चमोऽध्यायः॥५॥