चतुर्थोऽध्यायः॥४॥

वैशम्पायन उवाच

इत्येवमुक्त्वा पुरुषप्रवीरस्-
तथाऽर्जुनो धर्मभृतां वरिष्ठः।
वाक्यं तथाऽसौ विरराम भूयो
नृपोऽपरं भ्रातरमाबभाषे॥१॥
किङ्कर्मा किंसमाचारो नकुलोऽयं भविष्यति।
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः॥२॥
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः।
सोऽयमार्तश्च शान्तश्च किं नु रोचयतात् त्विह॥३॥
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि।
कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः॥४॥

नकुल उवाच

अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः।
दामग्रन्थीति नाम्नाऽहं कर्मैतत् सुप्रियं मम॥५॥
दामग्रन्थी परिज्ञातः कुशलो दामकर्मणि।
न मां परिभविष्यन्ति जना जात्विह कर्हिचित्॥६॥
कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सने।
प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव॥७॥
न मां परिभविष्यन्ति किशोरा वडवास्तथा।
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः॥८॥
द्रक्ष्यन्ति ये च मां केचिद् विराटनगरे जनाः।
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा॥९॥
पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा।
इति तस्य पुरे छन्नश्चरिष्यामि महीपते।
इत्येतद् वः प्रतिज्ञातं विहरिष्याम्यहं यथा॥१०॥

वैशम्पायन उवाच

नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद् वचः।
बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः॥११॥
मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः।
सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः॥१२॥
न चास्य स्खलितं किञ्चिद् ददृशुस्तद्विदो जनाः।
सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः॥१३॥
अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा।
सहदेव कथं कर्म तस्य राज्ञः करिष्यसि।
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि॥१४॥

सहदेव उवाच

गोसङ्ख्याता भविष्यामि विराटस्येति रोचये।
प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम्।
तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति॥१५॥
अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः।
निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्बिषाः॥१६॥
नष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः।
गावः सुसहिता राजन् निरुद्विग्ना निरामयः॥१७॥
भविष्यन्ति मया गुप्ता विराटनगरे तदा।
निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे॥१८॥
अहं हि भवता गोषु प्रहितः सततं पुरा।
तत्र मे कौशलं सर्वमनुबद्धं विशाम्पते॥१९॥
लक्षणं चरितं चैव गवां यच्चापि मङ्गलम्।
सत्सर्वं मे सुविदितमन्यच्चापि विशाम्पते॥२०॥
वृषभानपि जानामि राजन् पूजितलक्षणान्।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते॥२१॥
सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे।
विराटनगरे गूढो रंस्येऽहं तेन कर्मणा॥२२॥
तोषयिष्ये च राजानं मा भूच्चिन्ता तवानघ।
न च मां वेत्स्यति परस्तत् ते रोचतु पार्थिव।
इत्येतद् वः प्रतिज्ञातं विचरिष्याम्यहं यथा॥२३॥

युधिष्ठिर उवाच

केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति।
न हि किञ्चिद् विजानाति कर्म कर्तुं यथा स्त्रियः॥२४॥
माल्यगन्धानलङ्कारान् वस्त्राणि विविधानि च।
एतान्येवाभिजानाति यथाजाता च भामिनी॥२५॥
पतिव्रता महाभागा कथं नु विचरिष्यति।
इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी॥२६॥
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च।
सुकुमारी सुशीला च राजपुत्री यशस्विनी।
कथं वत्स्यति कल्याणी विराटनगरे सती॥२७॥

द्रौपद्युवाच

अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव।
यथा ते मत्कृते शोको न भवेन्नृपते शृणु।
यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो॥२८॥
छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन।
वृत्तं तच्च समाख्यास्ये शर्म तेऽस्तु विशाम्पते॥२९॥
सैरन्ध्रीजातिसम्पन्ना नाम्नाऽहं व्रतचारिणी।
भविष्यामि महाराज विराटस्येति मे मतिः॥३०॥
सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत।
एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः॥३१॥
साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि।
प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम्॥३२॥
युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका।
उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत।
आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि॥३३॥
नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि।
कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप॥३४॥
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम्।
सा रक्षिष्यति मां प्राप्तां मा ते भूद् दुःखमीदृशम्॥३५॥
अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी।
इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा॥३६॥

युधिष्ठिर उवाच

यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः।
कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः॥३७॥
कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा।
न पापमभिजानासि साध्वी साधुव्रते स्थिता॥३८॥

॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि चतुर्थोऽध्यायः॥४॥