गीतार्थसङ्ग्रहः

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम्॥
स्वधर्मज्ञानवैरग्यसाध्यभक्त्येकगोचरः।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः॥१॥
ज्ञानकर्मात्मिके नेष्टे योगलक्ष्ये सुसंस्कृते।
आत्मानुभोतिसिद्‌ध्यर्थे पूर्वषट्केन चोदिते॥२॥
मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः॥३॥
प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम्।
कर्मधीर्भक्तिरित्यादि पूर्वशेषोऽन्तिमोदितः॥४॥
अस्थानस्नेहकार्पण्यधर्माधर्मधियाऽऽकुलम्।
पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम्॥५॥
नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः।
द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये॥६॥
असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम्।
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता॥७॥
प्रसङ्गात् स्वस्वभावोक्तिः कर्मणोऽकर्मताऽस्य च।
भेदा ज्ञानस्य माहत्म्यं चतुर्थाध्याय उच्यते॥८॥
कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः।
ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते॥९॥
योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम्।
योगसिद्धिः स्वयोगस्य पारम्यं षष्ट उच्यते॥१०॥
स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते॥११॥
ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम्।
वेद्योपादेयभावानामष्टमे भेद उच्यते॥१२॥
स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम्।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः॥१३॥
स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः।
भक्त्युत्पत्तिविवृद्‌ध्यर्था विस्तीर्णा दशमोदिता॥१४॥
एकादशे स्वयाथात्म्यसाक्षात्कारावलोकनम्।
दत्तमुक्तं विदिप्राप्त्योर्भक्त्येकोपायता तथा॥१५॥
भक्तेः श्रैष्ठ्यमुपायोक्तिरशक्तस्याऽऽत्मनिष्ठता।
तत्प्रकारस्त्वतिप्रीतिः भक्तेर्द्वादश उच्यते॥१६॥
देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम्।
बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते॥१७॥
गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम्।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते॥१८॥
अचिन्मिश्राद्विशुद्धाच्च चेतनात् पुरुषोत्तमः।
व्यापनाद्भरणात् स्वाम्यादन्यः पञ्चदशोदितः॥१९॥
देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते॥२०॥
अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक्।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम्॥२१॥
ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयताऽन्तिमे।
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते॥२२॥
कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम्।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः॥२३॥
भक्तियोगः परैकान्तप्रीत्या ध्यानादिषु स्थितिः।
त्रयाणामपि योगानां त्रिभिरन्योन्यसङ्गमः॥२४॥
नित्यनैमित्तिकानां च पराराधनरूपिणाम्।
आत्मदृष्टेस्रयोऽप्येते योगद्वारेण साधकाः॥२५॥
निरस्तनिखिलाज्ञानो दृष्ट्वाऽऽत्मानं परानुगम्।
प्रतिलभ्य परां भक्तिं तयैवाऽऽप्नोति तत्पदम्॥२६॥
भक्तियोगस्तदर्थी चेत् समग्रैश्वर्यसाधकः।
आत्मार्थी चेत् त्रयोऽप्येते तत्कैवल्यस्य साधकाः॥२७॥
एकान्त्यं भगवत्येषां समानमधिकारिणाम्।
यावत्प्राप्ति परार्थी चेत् तदेवात्यन्तमश्नुते॥२८॥
ज्ञानी तु परमैकन्ती तदायत्तत्मजीवनः।
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः॥२९॥
भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः॥३०॥
निजकर्मादि भक्त्यन्तं कुर्यात् प्रीत्यैव कारितः।
उपायतां परित्यज्य न्यस्येद् देवे तु तामभीः॥३१॥
एकान्तात्यन्तदास्यैकरतिस्तत्पदमाप्नुयात्।
तत्प्रधानमिदं शास्त्रमिति गीतार्थसङ्ग्रहः॥३२॥

॥इति श्री-यामुनाचार्यविरचितं गीतर्थसङ्ग्रहः सम्पूर्णः॥