षोडशः सर्गः

श्री-महादेव उवाच

रामेऽभिषिक्ते राजेन्द्रे सर्वलोकसुखावहे।
वसुधा सस्यसम्पन्ना फलवन्तो महीरुहाः॥१॥
गन्धहीनानि पुष्पाणि गन्धवन्ति चकाशिरे।
सहस्रशतमश्वानां धेनूनां च गवां तथा॥२॥
ददौ शतवृषान् पूर्वं द्विजेभ्यो रघुनन्दनः।
त्रिंशत्कोटिं सुवर्णस्य ब्राह्मणेभ्यो ददौ पुनः॥३॥
वस्त्राभरणरत्नानि ब्राह्मणेभ्यो मुदा तथा।
सूर्यकान्तिसमप्रख्यां सर्वरत्नमयीं स्रजम्॥४॥
सुग्रीवाय ददौ प्रीत्या राघवो भक्तवत्सलः।
अङ्गदाय ददौ दिव्ये ह्यङ्गदे रघुनन्दनः॥५॥
चन्द्रकोटिप्रतीकाशं मणिरत्नविभूषितम्।
सीतायै प्रददौ हारं प्रीत्या रघुकुलोत्तमः॥६॥
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी।
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः॥७॥
रामस्तामाह वैदेहीमिङ्गितज्ञो विलोकयन्।
वैदेहि यस्य तुष्टाऽसि देहि तस्मै वरानने॥८॥
हनूमते ददौ हारं पश्यतो राघवस्य च।
तेन हारेण शुशुभे मारुतिर्गौरवेण च॥९॥
रामोऽपि मारुतिं दृष्ट्वा कृताञ्जलिमुपस्थितम्।
भक्त्या परमया तुष्ट इदं वचनमब्रवीत्॥१०॥
हनूमंस्ते प्रसन्नोऽस्मि वरं वरय काङ्क्षितम्।
दास्यामि देवैरपि यद्दुर्लभं भुवनत्रये॥११॥
हनूमानपि तं प्राह नत्वा रामं प्रहृष्टधीः।
त्वन्नाम स्मरतो राम न तृप्यति मनो मम॥१२॥
अतस्त्वन्नाम सततं स्मरन् स्थास्यामि भूतले।
यावत्स्थास्यति ते नाम लोके तावत्कलेवरम्॥१३॥
मम तिष्ठतु राजेन्द्र वरोऽयं मेऽभिकाङ्क्षितः।
रामस्तथेति तं प्राह मुक्तस्तिष्ठ यथासुखम्॥१४॥
कल्पान्ते मम सायुज्यं प्राप्स्यसे नात्र संशयः।
तमाह जानकी प्रीता यत्र कुत्रापि मारुते॥१५॥
स्थितं त्वामनुयास्यन्ति भोगाः सर्वे ममाऽऽज्ञया।
इत्युक्तो मारुतिस्ताभ्यामीश्वराभ्यां प्रहृष्टधीः॥१६॥
आनन्दाश्रुपरीताक्षो भूयो भूयः प्रणम्य तौ।
कृच्छ्राद्ययौ तपस्तप्तुं हिमवन्तं महामतिः॥१७॥
ततो गुहं समासाद्य रामः प्राञ्जलिमब्रवीत्।
सखे गच्छ पुरं रम्यं शृङ्गवेरमनुत्तमम्॥१८॥
मामेव चिन्तयन्नित्यं भुङ्क्ष्व भोगान्निजार्जितान्।
अन्ते ममैव सारूप्यं प्राप्स्यसे त्वं न संशयः॥१९॥
इत्युक्त्वा प्रददौ तस्मै दिव्यान्याभरणानि च।
राज्यं च विपुलं दत्त्वा विज्ञानं च ददौ विभुः॥२०॥
रामेणाऽऽलिङ्गितो हृष्टो ययौ स्वभवनं गुहः।
ये चान्ये वानराः श्रेष्ठा अयोध्यां समुपागताः॥२१॥
अमूल्याभरणैर्वस्त्रैः पूजयामास राघवः।
सुग्रीवप्रमुखाः सर्वे वानराः सविभीषणाः॥२२॥
यथार्हं पूजितास्तेन रामेण परमात्मना।
प्रहृष्टमनसः सर्वे जग्मुरेव यथाऽऽगतम्॥२३॥
सुग्रीवप्रमुखाः सर्वे किष्किन्धां प्रययुर्मुदा।
विभीषणस्तु सम्प्राप्य राज्यं निहतकण्टकम्॥२४॥
रामेण पूजितः प्रीत्या ययौ लङ्कामनिन्दितः।
राघवो राज्यमखिलं शशासाखिलवत्सलः॥२५॥
अनिच्छन्नपि रामेण यौवराज्येऽभिषेचितः।
लक्ष्मणः परया भक्त्या रामसेवापरोऽभवत्॥२६॥
रामस्तु परमात्माऽपि कर्माध्यक्षोऽपि निर्मलः।
कर्तृत्वादि विहीनोऽपि निर्विकारोऽपि सर्वदा॥२७॥
स्वानन्देनापि तुष्टः सन् लोकानामुपदेशकृत्।
अश्वमेधादियज्ञैश्च सर्वैर्विपुलदक्षिणैः॥२८॥
अयजत्परमानन्दो मानुषं वपुराश्रितः।
न पर्यदेवन् विधवा न च व्यालकृतं भयम्॥२९॥
न व्याधिजं भयं चासीद्रामे राज्यं प्रशासति।
लोके दस्युभयं नासीदनर्थो नास्ति कश्चन॥३०॥
वृद्धेषु सत्सु बालानां नासीन्मृत्युभयं तथा।
रामपूजापराः सर्वे सर्वे राघवचिन्तकाः॥३१॥
ववर्षुर्जलदास्तोयं यथाकालं यथारुचि।
प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः॥३२॥
औरसानिव रामोऽपि जुगोप पितृवत्प्रजाः।
सर्वलक्षणसंयुक्तः सर्वधर्मपरायणः॥३३॥

दशवर्षसहस्राणि रामो राज्यमुपास्त सः

इदं रहस्यं धनधान्यऋद्धिम-
द्दीर्घायुरारोग्यकरं सुपुण्यदम्।
पवित्रमाध्यात्मिकसंज्ञितं पुरा
रामायणं भाषितमादिशम्भुना॥३४॥
शृणोति भक्त्या मनुजः समाहितो
भक्त्या पठेद् वा परितुष्टमानसः।
सर्वाः समाप्नोति मनोगताशिषो
विमुच्यते पातककोटिभिः क्षणात्॥३५॥
रामाभिषेकं प्रयतः शृणोति यो
धनाभिलाषी लभते महद्धनम्।
पुत्राभिलाषी सुतमार्यसम्मतं
प्राप्नोति रामायणमादितः पठन्॥३६॥
शृणोति योऽध्यात्मिकरामसंहितां
प्राप्नोति राजा भुवमृद्धसम्पदम्।
शत्रून् विजित्यारिभिरप्रधर्षितो
व्यपेतदुःखो विजयी भवेन्नृपः॥३७॥
स्त्रियोऽपि शृण्वन्त्यधिरामसंहितां
भवन्ति ता जीविसुताश्च पूजिताः।
वन्ध्याऽपि पुत्रं लभते सुरूपिणं
कथामिमां भक्तियुता शृणोति या॥३८॥
श्रद्धान्वितो यः शृणुयात्पठेन्नरो
विजित्य कोपं च तथा विमत्सरः।
दुर्गाणि सर्वाणि विजित्य निर्भयो
भवेत् सुखी राघवभक्तिसंयुतः॥३९॥
सुराः समस्ता अपि यान्ति तुष्टतां
विघ्नाः समस्ता अपयान्ति शृण्वताम्।
अध्यात्मरामायणमादितो नृणां
भवन्ति सर्वा अपि सम्पदः पराः॥४०॥
रजस्वला वा यदि रामतत्परा
शृणोति रामायणमेतदादितः।
पुत्रं प्रसूते ऋषभं चिरायुषं
पतिव्रता लोकसुपूजिता भवेत्॥४१॥
पूजयित्वा तु ये भक्त्या नमस्कुर्वन्ति नित्यशः।
सर्वैः पापैर्विनिर्मुक्ता विष्णोर्यान्ति परं पदम्॥४२॥
अध्यात्मरामचरितं कृत्स्नं शृण्वन्ति भक्तितः।
पठन्ति वा स्वयं वक्त्रात्तेषां रामः प्रसीदति॥४३॥
राम एव परं ब्रह्म तस्मिंस्तुष्टेऽखिलात्मनि।
धर्मार्थकाममोक्षाणां यद्यदिच्छति तद् भवेत्॥४४॥
श्रोतव्यं नियमेनैतद्रामायणमखण्डितम्।
आयुष्यमारोग्यकरं कल्पकोट्यघनाशनम्॥४५॥
देवाश्च सर्वे तुष्यन्ति ग्रहाः सर्वे महर्षयः।
रामायणस्य श्रवणे तृप्यन्ति पितरस्तथा॥४६॥
अध्यात्मरामायणमेतदद्भुतं
वैराग्यविज्ञानयुतं पुरातनम्।
पठन्ति शृण्वन्ति लिखन्ति ये नराः
तेषां भवेऽस्मिन्न पुनर्भवो भवेत्॥४७॥
आलोड्याखिलवेदराशिमसकृद्यत्तारकं ब्रह्म तद्-
रामो विष्णुरहस्यमूर्तिरिति यो विज्ञाय भूतेश्वरः।
उद्धृत्याखिलसारसङ्ग्रहमिदं सङ्क्षेपतः प्रस्फुटं
श्रीरामस्य निगूढतत्त्वमखिलं प्राह प्रियायै भवः॥४८॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे षोडशः सर्गः॥

इति श्रीमदध्यात्मरामायणे युद्धकाण्डः समाप्तः॥

❀ ❀ ❀