पञ्चदशः सर्गः

श्री-महादेव उवाच

ततस्तु कैकयीपुत्रो भरतो भक्तिसंयुतः।
शिरस्यञ्जलिमाधाय ज्येष्ठं भ्रातरमब्रवीत्॥१॥
माता मे सत्कृता राम दत्तं राज्यं त्वया मम।
ददामि तत्ते च पुनर्यथा त्वमददा मम॥२॥
इत्युक्त्वा पादयोर्भक्त्या साष्टाङ्गं प्रणिपत्य च।
बहुधा प्रार्थयामास कैकेय्या गुरुणा सह॥३॥
तथेति प्रतिजग्राह भरताद्राज्यमीश्वरः।
मायामाश्रित्य सकलां नरचेष्टामुपागतः॥४॥
स्वाराज्यानुभवो यस्य सुखज्ञानैकरूपिणः।
निरस्तातिशयानन्दरूपिणः परमात्मनः॥५॥
मानुषेण तु राज्येन किं तस्य जगदीशितुः।
यस्य भ्रूभङ्गमात्रेण त्रिलोकी नश्यति क्षणात्॥६॥
यस्यानुग्रहमात्रेण भवन्त्याखण्डलश्रियः।
लीलासृष्टमहासृष्टेः कियदेतद्रमापतेः॥७॥
तथाऽपि भजतां नित्यं कामपूरविधित्सया।
लीलामानुषदेहेन सर्वमप्यनुवर्तते॥८॥
ततः शत्रुघ्नवचनान्निपुणः श्मश्रुकृन्तकः।
सम्भाराश्चाभिषेकार्थमानीता राघवस्य हि॥९॥
पूर्वं तु भरते स्नाते लक्ष्मणे च महात्मनि।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥१०॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः।
महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्॥११॥
प्रतिकर्म च रामस्य लक्ष्मणश्च महामतिः।
कारयामास भरतः सीताया राजयोषितः॥१२॥
महार्हवस्त्राभरणैरलञ्चक्रुः सुमध्यमाम्।
ततो वानरपत्नीनां सर्वासामेव शोभना॥१३॥
अकारयत कौसल्या प्रहृष्टा पुत्रवत्सला।
ततः स्यन्दनमादाय शत्रुघ्नवचनात्सुधीः॥१४॥
सुमन्त्रः सूर्यसङ्काशं योजयित्वाऽग्रतः स्थितः।
आरुरोह रथं रामः सत्यधर्मपरायणः॥१५॥
सुग्रीवो युवराजश्च हनुमांश्च विभीषणः।
स्नात्वा दिव्याम्बरधरा दिव्याभरणभूषिताः॥१६॥
राममन्वीयुरग्रे च रथाश्वगजवाहनाः।
सुग्रीवपत्न्यः सीता च ययुर्यानैः पुरं महत्॥१७॥
वज्रपाणिर्यथा देवैर्हरिताश्वरथे स्थितः।
प्रययौ रथमास्थाय तथा रामो महत्पुरम्॥१८॥
सारथ्यं भरतश्चक्रे रत्नदण्डं महाद्युतिः।
श्वेतातपत्रं शत्रुघ्नो लक्ष्मणो व्यजनं दधे॥१९॥
चामरं च समीपस्थो न्यवीजयदरिन्दमः।
शशिप्रकाशं त्वपरं जग्राहासुरनायकः॥२०॥
दिविजैः सिद्धसङ्घैश्च ऋषिभिर्दिव्यदर्शनैः।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥२१॥
मानुषं रूपमास्थाय वानरा गजवाहनाः।
भेरीशङ्खनिनादैश्च मृदङ्गपणवानकैः॥२२॥
प्रययौ राघवश्रेष्ठस्तां पुरीं समलङ्कृताम्।
ददृशुस्ते समायान्तं राघवं पुरवासिनः॥२३॥
दूर्वादलश्यामतनुं महार्ह-
किरीटरत्नाभरणाञ्चिताङ्गम्।
आरक्तकञ्जायतलोचनान्तं
दृष्ट्वा ययुर्मोदमतीव पुण्याः॥२४॥
विचित्ररत्नाञ्चितसूत्रनद्ध-
पीताम्बरं पीनभुजान्तरालम्।
अनर्घ्यमुक्ताफलदिव्यहारैः
विरोचमानं रघुनन्दनं प्रजाः॥२५॥
सुग्रीवमुख्यैर्हरिभिः प्रशान्तैः
निषेव्यमाणं रवितुल्यभासम्।
कस्तूरिकाचन्दनलिप्तगात्रं
निवीतकल्पद्रुमपुष्पमालम्॥२६॥
श्रुत्वा स्त्रियो राममुपागतं मुदा
प्रहर्षवेगोत्कलिताननश्रियः।
अपास्य सर्वं गृहकार्यमाहितं
हर्म्याणि चैवारुरुहुः स्वलङ्कृताः॥२७॥
दृष्ट्वा हरिं सर्वदृगुत्सवाकृतिं
पुष्पैः किरन्त्यः स्मितशोभिताननाः।
दृग्भिः पुनर्नेत्रमनोरसायनं
स्वानन्दमूर्तिं मनसाभिरेभिरे॥२८॥
रामः स्मितस्निग्धदृशा प्रजास्तथा
पश्यन् प्रजानाथ इवापरः प्रभुः।
शनैर्जगामाथ पितुः स्वलङ्कृतं
गृहं महेन्द्रालयसन्निभं हरिः॥२९॥
प्रविश्य वेश्मान्तरसंस्थितो मुदा
रामो ववन्दे चरणौ स्वमातुः।
क्रमेण सर्वाः पितृयोषितः प्रभुः
ननाम भक्त्या रघुवंशकेतुः॥३०॥
ततो भरतमाहेदं रामः सत्यपराक्रमः।
सर्वसम्पत्समायुक्तं मम मन्दिरमुत्तमम्॥३१॥
मित्राय वानरेन्द्राय सुग्रीवाय प्रदीयताम्।
सर्वेभ्यः सुखवासार्थं मन्दिराणि प्रकल्पय॥३२॥
रामेणैवं समादिष्टो भरतश्च तथाऽकरोत्।
उवाच च महातेजाः सुग्रीवं राघवानुजः॥३३॥
राघवस्याभिषेकार्थं चतुःसिन्धुजलं शुभम्।
आनेतुं प्रेषयस्वाऽऽशु दूतांस्त्वरितविक्रमान्॥३४॥
प्रेषयामास सुग्रीवो जाम्बवन्तं मरुत्सुतम्।
अङ्गदं च सुषेणं च ते गत्वा वायुवेगतः॥३५॥
जलपूर्णान् शातकुम्भकलशांश्च समानयन्।
आनीतं तीर्थसलिलं शत्रुघ्नो मन्त्रिभिः सह॥३६॥
राघवस्याभिषेकार्थं वसिष्ठाय न्यवेदयत्।
ततस्तु प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह॥३७॥
रामं रत्नमये पीठे ससीतं सन्न्यवेशयत्।
वसिष्ठो वामदेवश्च जाबालिर्गौतमस्तथा॥३८॥
वाल्मीकिश्च तथा चक्रुः सर्वे रामाभिषेचनम्।
कुशाग्रतुलसीयुक्तपुण्यगन्धजलैर्मुदा॥३९॥
अभ्यषिञ्चन् रघुश्रेष्ठं वासवं वसवो यथा।
ऋत्विग्भिर्ब्राह्मणैः श्रेष्ठैः कन्याभिः सह मन्त्रिभिः॥४०॥
सर्वौषधिरसैश्चैव दैवतैर्नभसि स्थितैः।
चतुर्भिर्लोकपालैश्च स्तुवद्भिः सगणैस्तथा॥४१॥
छत्रं च तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम्।
सुग्रीवराक्षसेन्द्रौ तौ दधतुः श्वेतचामरे॥४२॥
मालां च काञ्चनीं वायुर्ददौ वासवचोदितः।
सर्वरत्नसमायुक्तं मणिकाञ्चनभूषितम्॥४३॥
ददौ हारं नरेन्द्राय स्वयं शक्रस्तु भक्तितः।
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥४४॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात खात्।
नवदूर्वादलश्यामं पद्मपत्रायतेक्षणम्॥४५॥
रविकोटिप्रभायुक्तकिरीटेन विराजितम्।
कोटिकन्दर्पलावण्यं पीताम्बरसमावृतम्॥४६॥
दिव्याभरणसम्पन्नं दिव्यचन्दनलेपनम्।
अयुतादित्यसङ्काशं द्विभुजं रघुनन्दनम्॥४७॥
वामभागे समासीनां सीतां काञ्चनसन्निभाम्।
सर्वाभरणसम्पन्नां वामाङ्के समुपस्थिताम्॥४८॥
रक्तोत्पलकराम्भोजां वामेनाऽऽलिङ्ग्य संस्थितम्।
सर्वातिशयशोभाढ्यं दृष्ट्वा भक्तिसमन्वितः॥४९॥
उमया सहितो देवः शङ्करो रघुनन्दनम्।
सर्वदेवगणैर्युक्तः स्तोतुं समुपचक्रमे॥५०॥

श्री-महादेव उवाच

नमोऽस्तु रामाय सशक्तिकाय
नीलोत्पलश्यामलकोमलाय।
किरीटहाराङ्गदभूषणाय
सिंहासनस्थाय महाप्रभाय॥५१॥
त्वमादिमध्यान्तविहीन एकः
सृजस्यवस्यत्सि च लोकजातम्।
स्वमायया तेन न लिप्यसे त्वं
यत्स्वे सुखेऽजस्ररतोऽनवद्यः॥५२॥
लीलां विधत्से गुणसंवृतस्त्वं
प्रपन्नभक्तानुविधानहेतोः।
नानावतारैः सुरमानुषाद्यैः
प्रतीयसे ज्ञानिभिरेव नित्यम्॥५३॥
स्वांशेन लोकं सकलं विधाय तं
बिभर्षि च त्वं तदधः फणीश्वरः।
उपर्यधो भान्वनिलोडुपौषधि-
प्रवर्षरूपोऽवसि नैकधा जगत्॥५४॥
त्वमिह देहभृतां शिखिरूपः
पचसि भुक्तमशेषमजस्रम्।
पवनपञ्चकरूपसहायो
जगदखण्डमनेन बिभर्षि॥५५॥
चन्द्रसूर्यशिखिमध्यगतं यत्
तेज ईश चिदशेषतनूनाम्।
प्राभवत्तनुभृतामिव धैर्यं
शौर्यमायुरखिलं तव सत्त्वम्॥५६॥
त्वं विरिञ्चिशिवविष्णुविभेदात्
कालकर्मशशिसूर्यविभागात्।
वादिनां पृथगिवेश विभासि
ब्रह्म निश्चितमनन्यदिहैकम्॥५७॥
मत्स्यादिरूपेण यथा त्वमेकः
श्रुतौ पुराणेषु च लोकसिद्धः।
तथैव सर्वं सदसद्विभाग-
स्त्वमेव नान्यद्भवतो विभाति॥५८॥
यद्यत्समुत्पन्नमनन्तसृष्टा-
वुत्पत्स्यते यच्च भवच्च यच्च।
न दृश्यते स्थावरजङ्गमादौ
त्वया विनातःपरतः परस्त्वम्॥५९॥
तत्त्वं न जानन्ति परात्मनस्ते
जनाः समस्तास्तव माययातः।
त्वद्भक्तसेवाऽमलमानसानां
विभाति तत्त्वं परमेकमैशम्॥६०॥
ब्रह्मादयस्ते न विदुः स्वरूपं
चिदात्मतत्त्वं बहिरर्थभावाः।
ततो बुधस्त्वामिदमेव रूपं
भक्त्या भजन्मुक्तिमुपैत्यदुःखः॥६१॥
अहं भवन्नाम गृणन् कृतार्थो
वसामि काश्यामनिशं भवान्या।
मुमूर्षमाणस्य विमुक्तयेऽहं
दिशामि मन्त्रं तव राम नाम॥६२॥
इमं स्तवं नित्यमनन्यभक्त्या
शृण्वन्ति गायन्ति लिखन्ति ये वै।
ते सर्वसौख्यं परमं च लब्ध्वा
भवत्पदं यान्तु भवत्प्रसादात्॥६३॥

इन्द्र उवाच

रक्षोऽधिपेनाखिलदेव सौख्यं
हृतं च मे ब्रह्मवरेण देव।
पुनश्च सर्वं भवतः प्रसादात्
प्राप्तं हतो राक्षसदुष्टशत्रुः॥६४॥

देवा ऊचुः

हृता यज्ञभागा धरादेवदत्ता
मुरारे खलेनादिदैत्येन विष्णो।
हतोऽद्य त्वया नो वितानेषु भागाः
पुरावद्भविष्यन्ति युष्मत्प्रसादात्॥६५॥

पितर ऊचुः

हतोऽद्य त्वया दुष्टदैत्यो महात्मन्
गयादौ नरैर्दत्तपिण्डादिकान्नः।
बलादत्ति हत्वा गृहीत्वा समस्ता-
निदानीं पुनर्लब्धसत्त्वा भवामः॥६६॥

यक्षा ऊचुः

सदा विष्टिकर्मण्यनेनाभियुक्ता
वहामो दशास्यं बलाद्दुःखयुक्ताः।
दुरात्मा हतो रावणो राघवेश
त्वया ते वयं दुःखजाताद्विमुक्ताः॥६७॥

गन्धर्वा ऊचुः

वयं सङ्गीतनिपुणा गायन्तस्ते कथामृतम्।
आनन्दामृतसन्दोहयुक्ताः पूर्णाः स्थिताः पुरा॥६८॥
पश्चाद्दुरात्मना राम रावणेनाभिविद्रुताः।
तमेव गायमानाश्च तदाराधनतत्पराः॥६९॥
स्थितास्त्वया परित्राता हतोऽयं दुष्टराक्षसः।
एवं महोरगाः सिद्धाः किन्नरा मरुतस्तथा॥७०॥
वसवो मुनयो गावो गुह्यकाश्च पतत्त्रिणः।
सप्रजापतयश्चैते तथा चाप्सरसां गणाः॥७१॥
सर्वे रामं समासाद्य दृष्ट्वा नेत्रमहोत्सवम्।
स्तुत्वा पृथक् पृथक् सर्वे राघवेणाभिवन्दिताः॥७२॥
ययुः स्वं स्वं पदं सर्वे ब्रह्मरुद्रादयस्तथा।
प्रशंसन्तो मुदा रामं गायन्तस्तस्य चेष्टितम्॥७३॥
ध्यायन्तस्त्वभिषेकार्द्रं सीतालक्ष्मणसंयुतम्।
सिंहासनस्थं राजेन्द्रं ययुः सर्वे हृदि स्थितम्॥७४॥
खे वाद्येषु ध्वनत्सु प्रमुदितहृदयैर्देववृन्दैः स्तुवद्भिः
वर्षद्भिःपुष्पवृष्टिं दिवि मुनिनिकरैरीड्यमानः समन्तात्।
रामः श्यामः प्रसन्नस्मितरुचिरमुखः सूर्यकोटिप्रकाशः
सीतासौमित्रिवातात्मजमुनिहरिभिः सेव्यमानो विभाति॥७५॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चदशः सर्गः॥