चतुर्दशः सर्गः
श्री-महादेव उवाच
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्॥१॥
त्रिकूटशिखराग्रस्थां पश्य लङ्कां महाप्रभाम्।
एतां रणभुवं पश्य मांसकर्दमपङ्किलाम्॥२॥
असुराणां प्लवङ्गानामत्र वैशसनं महत्।
अत्र मे निहतः शेते रावणो राक्षसेश्वरः॥३॥
कुम्भकर्णेन्द्रजिन्मुख्याः सर्वे चात्र निपातिताः।
एष सेतुर्मया बद्धः सागरे सलिलाशये॥४॥
एतच्च दृश्यते तीर्थं सागरस्य महात्मनः।
सेतुबन्धमिति ख्यातं त्रैलोक्येन च पूजितम्॥५॥
एतत्पवित्रं परमं दर्शनात्पातकापहम्।
अत्र रामेश्वरो देवो मया शम्भुः प्रतिष्ठितः॥६॥
अत्र मां शरणं प्राप्तो मन्त्रिभिश्च विभीषणः।
एषा सुग्रीवनगरी किष्किन्धा चित्रकानना॥७॥
तत्र रामाज्ञया ताराप्रमुखा हरियोषितः।
आनयामास सुग्रीवः सीतायाः प्रियकाम्यया॥८॥
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः।
प्राह चाद्रिमृष्यमूकं पश्य वाल्यत्र मे हतः॥९॥
एषा पञ्चवटी नाम राक्षसा यत्र मे हताः।
अगस्त्यस्य सुतीक्ष्णस्य पश्याश्रमपदे शुभे॥१०॥
एते ते तापसाः सर्वे दृश्यन्ते वरवर्णिनि।
असौ शैलवरो देवि चित्रकूटः प्रकाशते॥११॥
अत्र मां कैकयीपुत्रः प्रसादयितुमागतः।
भरद्वाजाश्रमं पश्य दृश्यते यमुनातटे॥१२॥
एषा भागीरथी गङ्गा दृश्यते लोकपावनी।
एषा सा दृश्यते सीते सरयूयूपमालिनी॥१३॥
एषा सा दृश्यतेऽयोध्या प्रणामं कुरु भामिनि।
एवं क्रमेण सम्प्राप्तो भरद्वाजाश्रमं हरिः॥१४॥
पूर्णे चतुर्दशे वर्षे पञ्चम्यां रघुनन्दनः।
भरद्वाजं मुनिं दृष्ट्वा ववन्दे सानुजः प्रभुः॥१५॥
पप्रच्छ मुनिमासीनं विनयेन रघूत्तमः।
शृणोषि कच्चिद्भरतः कुशल्यास्ते सहानुजः॥१६॥
सुभिक्षा वर्ततेऽयोध्या जीवन्ति च हि मातरः।
श्रुत्वा रामस्य वचनं भरद्वाजः प्रहृष्टधीः॥१७॥
प्राह सर्वे कुशलिनो भरतस्तु महामनाः।
फलमूलकृताहारो जटावल्कलधारकः॥१८॥
पादुके सकलं न्यस्य राज्यं त्वां सुप्रतीक्षते।
यद्यत्कृतं त्वया कर्म दण्डके रघुनन्दन॥१९॥
राक्षसानां विनाशं च सीताहरणपूर्वकम्।
सर्वं ज्ञातं मया राम तपसा ते प्रसादतः॥२०॥
त्वं ब्रह्म परमं साक्षादादिमध्यान्तवर्जितः।
त्वमग्रे सलिलं सृष्ट्वा तत्र सुप्तोऽसि भूतकृत्॥२१॥
नारायणोऽसि विश्वात्मन्नराणामन्तरात्मकः।
त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः॥२२॥
अतस्त्वं जगतामीशः सर्वलोकनमस्कृतः।
त्वं विष्णुर्जानकी लक्ष्मीः शेषोऽयं लक्ष्मणाभिधः॥२३॥
आत्मना सृजसीदं त्वमात्मन्येवाऽऽत्ममायया।
न सज्जसे नभोवत्त्वं चिच्छक्त्या सर्वसाक्षिकः॥२४॥
बहिरन्तश्च भूतानां त्वमेव रघुनन्दन।
पूर्णोऽपि मूढदृष्टीनां विच्छिन्न इव लक्ष्यसे॥२५॥
जगत्त्वं जगदाधारस्त्वमेव परिपालकः।
त्वमेव सर्वभूतानां भोक्ता भोज्यं जगत्पते॥२६॥
दृश्यते श्रूयते यद्यत्स्मर्यते वा रघूत्तम।
त्वमेव सर्वमखिलं त्वद्विनाऽन्यन्न किञ्चन॥२७॥
माया सृजति लोकांश्च स्वगुणैरहमादिभिः।
त्वच्छक्तिप्रेरिता राम तस्मात्त्वय्युपचर्यते॥२८॥
यथा चुम्बकसान्निध्याच्चलन्त्येवायसादयः।
जडास्तथा त्वया दृष्टा माया सृजति वै जगत्॥२९॥
देहद्वयमदेहस्य तव विश्वं रिरक्षिषोः।
विराट् स्थूलं शरीरं ते सूत्रं सूक्ष्ममुदाहृतम्॥३०॥
विराजः सम्भवन्त्येते अवताराः सहस्रशः।
कार्यान्ते प्रविशन्त्येव विराजं रघुनन्दन॥३१॥
अवतारकथां लोके ये गायन्ति गृणन्ति च।
अनन्यमनसो मुक्तिस्तेषामेव रघूत्तम॥३२॥
त्वं ब्रह्मणा पुरा भूमेर्भारहाराय राघव।
प्रार्थितस्तपसा तुष्टस्त्वं जातोऽसि रघोः कुले॥३३॥
देवकार्यमशेषेण कृतं ते राम दुष्करम्।
बहुवर्षसहस्राणि मानुषं देहमाश्रितः॥३४॥
कुर्वन् दुष्करकर्माणि लोकद्वयहिताय च।
पापहारीणि भुवनं यशसा पूरयिष्यसि॥३५॥
प्रार्थयामि जगन्नाथ पवित्रं कुरु मे गृहम्।
स्थित्वाऽद्य भुक्त्वा सबलः श्वो गमिष्यसि पत्तनम्॥३६॥
तथेति राघवोऽतिष्ठत्तस्मिन्नाश्रम उत्तमे।
ससैन्यः पूजितस्तेन सीतया लक्ष्मणेन च॥३७॥
ततो रामश्चिन्तयित्वा मुहूर्तं प्राह मारुतिम्।
इतो गच्छ हनूमंस्त्वमयोध्यां प्रति सत्वरः॥३८॥
जानीहि कुशली कच्चिज्जनो नृपतिमन्दिरे।
शृङ्गवेरपुरं गत्वा ब्रूहि मित्रं गुहं मम॥३९॥
जानकीलक्ष्मणोपेतमागतं मां निवेदय।
नन्दिग्रामं ततो गत्वा भ्रातरं भरतं मम॥४०॥
दृष्ट्वा ब्रूहि सभार्यस्य सभ्रातुः कुशलं मम।
सीतापहरणादीनि रावणस्य वधादिकम्॥४१॥
ब्रूहि क्रमेण मे भ्रातुः सर्वं तत्र विचेष्टितम्।
हत्वा शत्रुगणान् सर्वान् सभार्यः सहलक्ष्मणः॥४२॥
उपयाति समृद्धार्थः सह ऋक्षहरीश्वरैः।
इत्युक्त्वा तत्र वृत्तान्तं भरतस्य विचेष्टितम्॥४३॥
सर्वं ज्ञात्वा पुनः शीघ्रमागच्छ मम सन्निधिम्।
तथेति हनुमांस्तत्र मानुषं वपुरास्थितः॥४४॥
नन्दिग्रामं ययौ तूर्णं वायुवेगेन मारुतिः।
गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम्॥४५॥
शृङ्गवेरपुरं प्राप्य गुहमासाद्य मारुतिः।
उवाचा मधुरं वाक्यं प्रहृष्टेनान्तरात्मना॥४६॥
रामो दाशरथिः श्रीमान् सखा ते सह सीतया।
सलक्ष्मणस्त्वां धर्मात्मा क्षेमी कुशलमब्रवीत्॥४७॥
अनुज्ञातोऽद्य मुनिना भरद्वाजेन राघवः।
आगमिष्यति तं देवं द्रक्ष्यसि त्वं रघूत्तमम्॥४८॥
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहम्।
उत्पपात महावेगो वायुवेगेन मारुतिः॥४९॥
सोऽपश्यद्रामतीर्थं च सरयूं च महानदीम्।
तामतिक्रम्य हनुमान्नन्दिग्रामं ययौ मुदा॥५०॥
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्।
ददर्श भरतं दीनं कृशमाश्रमवासिनम्॥५१॥
मलपङ्कविदिग्धाङ्गं जटिलं वल्कलाम्बरम्।
फलमूलकृताहारं रामचिन्तापरायणम्॥५२॥
पादुके ते पुरस्कृत्य शासयन्तं वसुन्धराम्।
मन्त्रिभिः पौरमुख्यैश्च काषायाम्बरधारिभिः॥५३॥
वृतदेहं मूर्तिमन्तं साक्षाद्धर्ममिव स्थितम्।
उवाच प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः॥५४॥
यं त्वं चिन्तयसे रामं तापसं दण्डके स्थितम्।
अनुशोचसि काकुत्स्थः स त्वां कुशलमब्रवीत्॥५५॥
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्।
अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः॥५६॥
समरे रावणं हत्वा रामः सीतामवाप्य च।
उपयाति समृद्धार्थः ससीतः सहलक्ष्मणः॥५७॥
एवमुक्तो महातेजा भरतो हर्षमूर्च्छितः।
पपात भुवि चास्वस्थः कैकयीप्रियनन्दनः॥५८॥
आलिङ्ग्य भरतः शीघ्रं मारुतिं प्रियवादिनम्।
आनन्दजैरश्रुजलैः सिषेच भरतः कपिम्॥५९॥
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥६०॥
गवां शतसहस्रं च ग्रामाणां च शतं वरम्।
सर्वाभरणसम्पन्ना मुग्धाः कन्यास्तु षोडश॥६१॥
एवमुक्त्वा पुनः प्राह भरतो मारुतात्मजम्।
बहूनीमानि वर्षाणि गतस्य सुमहद्वनम्॥६२॥
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्।
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे॥६३॥
एति जीवन्तमानन्दो नरं वर्षशतादपि।
राघवस्य हरीणां च कथमासीत्समागमः॥६४॥
तत्त्वमाख्याहि भद्रं ते विश्वसेयं वचस्तव।
एवमुक्तोऽथ हनुमान् भरतेन महात्मना॥६५॥
आचचक्षेऽथ रामस्य चरितं कृत्स्नशः क्रमात्।
श्रुत्वा तु परमानन्दं भरतो मारुतात्मजात्॥६६॥
आज्ञापयच्छत्रुहणं मुदा युक्तं मुदान्वितः।
दैवतानि च यावन्ति नगरे रघुनन्दन॥६७॥
नानोपहारबलिभिः पूजयन्तु महाधियः।
सूता वैतालिकाश्चैव वन्दिनः स्तुतिपाठकाः॥६८॥
वारमुख्याश्च शतशो निर्यान्त्वद्यैव सङ्घशः।
राजदारास्तथाऽमात्याः सेना हस्त्यश्वपत्तयः॥६९॥
ब्राह्मणाश्च तथा पौरा राजानो ये समागताः।
निर्यान्तु राघवस्याद्य द्रष्टुं शशिनिभाननम्॥७०॥
भरतस्य वचः श्रुत्वा शत्रुघ्नपरिचोदिताः।
अलञ्चक्रुश्च नगरीं मुक्तारत्नमयोज्ज्वलैः॥७१॥
तोरणैश्च पताकाभिर्विचित्राभिरनेकधा।
अलङ्कुर्वन्ति वेश्मानि नानाबलिविचक्षणाः॥७२॥
निर्यान्ति वृन्दशः सर्वे रामदर्शनलालसाः।
हयानां शतसाहस्रं गजानामयुतं तथा॥७३॥
रथानां दशसाहस्रं स्वर्णसूत्रविभूषितम्।
पारमेष्ठीन्युपादाय द्रव्याण्युच्चावचानि च॥७४॥
ततस्तु शिबिकारूढा निर्ययू राजयोषितः।
भरतः पादुके न्यस्य शिरस्येव कृताञ्जलिः॥७५॥
शत्रुघ्नसहितो रामं पादचारेण निर्ययौ।
तदैव दृश्यते दूराद्विमानं चन्द्रसन्निभम्॥७६॥
पुष्पकं सूर्यसङ्काशं मनसा ब्रह्मनिर्मितम्।
एतस्मिन् भ्रातरौ वीरौ वैदेह्या रामलक्ष्मणौ॥७७॥
सुग्रीवश्च कपिश्रेष्ठो मन्त्रिभिश्च विभीषणः।
दृश्यते पश्यत जना इत्याह पवनात्मजः॥७८॥
ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्।
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तनात्॥७९॥
रथकुञ्जरवाजिस्था अवतीर्य महीं गताः।
ददृशुस्ते विमानस्थं जनाः सोममिवाम्बरे॥८०॥
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः।
ततो विमानाग्रगतं भरतो राघवं मुदा॥८१॥
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्।
ततो रामाभ्यनुज्ञातं विमानमपतद् भुवि॥८२॥
आरोपितो विमानं तद् भरतः सानुजस्तदा।
राममासाद्य मुदितः पुनरेवाभ्यवादयत्॥८३॥
समुत्थाय चिराद्दृष्टं भरतं रघुनन्दनः।
भ्रातरं स्वाङ्कमारोप्य मुदा तं परिषस्वजे॥८४॥
ततो लक्ष्मणमासाद्य वैदेहीं नाम कीर्तयन्।
अभ्यवादयत प्रीतो भरतः प्रेमविह्वलः॥८५॥
सुग्रीवं जाम्बवन्तं च युवराजं तथाऽङ्गदम्।
मैन्दद्विविदनीलांश्च ऋषभं चैव सस्वजे॥८६॥
सुषेणं च नलं चैव गवाक्षं गन्धमादनम्।
शरभं पनसं चैव भरतः परिषस्वजे॥८७॥
सर्वे ते मानुषं रूपं कृत्वा भरतमादृताः।
पप्रच्छुः कुशलं सौम्याः प्रहृष्टाश्च प्लवङ्गमाः॥८८॥
ततः सुग्रीवमालिङ्ग्य भरतः प्राह भक्तितः।
त्वत्सहायेन रामस्य जयोऽभूद्रावणो हतः॥८९॥
त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः।
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्॥९०॥
सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः।
रामो मातरमासाद्य विवर्णां शोकविह्वलाम्॥९१॥
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन्।
कैकेयीं च सुमित्रां च ननामेतरमातरौ॥९२॥
भरतः पादुके ते तु राघवस्य सुपूजिते।
योजयामास रामस्य पादयोर्भक्तिसंयुतः॥९३॥
राज्यमेतन्न्यासभूतं मया निर्यातितं तव।
अद्य मे सफलं जन्म फलितो मे मनोरथः॥९४॥
यत्पश्यामि समायातमयोध्यां त्वामहं प्रभो।
कोष्ठागारं बलं कोशं कृतं दशगुणं मया॥९५॥
त्वत्तेजसा जगन्नाथ पालयस्व पुरं स्वकम्।
इति ब्रुवाणं भरतं दृष्ट्वा सर्वे कपीश्वराः॥९६॥
मुमुचुर्नेत्रजं तोयं प्रशशंसुर्मुदान्विताः।
ततो रामः प्रहृष्टात्मा भरतं स्वाङ्कगं मुदा॥९७॥
ययौ तेन विमानेन भरतस्याश्रमं तदा।
अवरुह्य तदा रामो विमानाग्र्यान्महीतलम्॥९८॥
अब्रवीत्पुष्पकं देवो गच्छ वैश्रवणं वह।
अनुगच्छानुजानामि कुबेरं धनपालकम्॥९९॥
रामो वसिष्ठस्य गुरोः पदाम्बुजं
नत्वा यथा देवगुरोः शतक्रतुः।
दत्त्वा महार्हासनमुत्तमं गुरो-
रुपाविवेशाथ गुरोः समीपतः॥१००॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्दशः सर्गः॥
❀