द्वादशः सर्गः
श्री-महादेव उवाच
रामो विभीषणं दृष्ट्वा हनूमन्तं तथाऽङ्गदम्।
लक्ष्मणं कपिराजं च जाम्बवन्तं तथा परान्॥१॥
परितुष्टेन मनसा सर्वानेवाब्रवीद् वचः।
भवतां बाहुवीर्येण निहतो रावणो मया॥२॥
कीर्तिः स्थास्यति वः पुण्या यावच्चन्द्रदिवाकरौ।
कीर्तयिष्यन्ति भवतां कथां त्रैलोक्यपावनीम्॥३॥
मयोपेतां कलिहरां यास्यन्ति परमां गतिम्।
एतस्मिन्नन्तरे दृष्ट्वा रावणं पतितं भुवि॥४॥
मन्दोदरीमुखाः सर्वाः स्त्रियो रावणपालिताः।
पतिता रावणस्याग्रे शोचन्त्यः पर्यदेवयन्॥५॥
विभीषणः शुशोचार्तः शोकेन महताऽऽवृतः।
पतितो रावणस्याग्रे बहुधा पर्यदेवयत्॥६॥
रामस्तु लक्ष्मणं प्राह बोधयस्व विभीषणम्।
करोतु भ्रातृसंस्कारं किं विलम्बेन मानद॥७॥
स्त्रियो मन्दोदरीमुख्याः पतिता विलपन्ति च।
निवारयतु ताः सर्वा राक्षसी रावणप्रियाः॥८॥
एवमुक्तोऽथ रामेण लक्ष्मणोऽगाद्विभीषणम्।
उवाच मृतकोपान्ते पतितं मृतकोपमम्॥९॥
शोकेन महताऽऽविष्टं सौमित्रिरिदमब्रवीत्।
यं शोचसि त्वं दुःखेन कोऽयं तव विभीषण॥१०॥
त्वं वास्य कतमः सृष्टेः पुरेदानीमतः परम्।
यद्वत्तोयौघपतिताः सिकता यान्ति तद्वशाः॥११॥
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः।
यथा धानासु वै धाना भवन्ति न भवन्ति च॥१२॥
एवं भूतेषु भूतानि प्रेरितानीशमायया।
त्वं चेमे वयमन्ये च तुल्याः कालवशोद्भवाः॥१३॥
जन्ममृत्यू यदा यस्मात्तदा तस्माद्भविष्यतः।
ईश्वरः सर्वभूतानि भूतैः सृजति हन्त्यजः॥१४॥
आत्मसृष्टैरस्वतन्त्रैर्निरपेक्षोऽपि बालवत्।
देहेन देहिनो जीवा देहाद्देहोऽभिजायते॥१५॥
बीजादेव यथा बीजं देहान्य इव शाश्वतः।
देहिदेहविभागोऽयमविवेककृतः पुरा॥१६॥
नानात्वं जन्म नाशश्च क्षयो वृद्धिः क्रियाफलम्।
द्रष्टुराभान्त्यतद्धर्मा यथाग्नेर्दारुविक्रियाः॥१७॥
त इमे देहसंयोगादात्मना भान्त्यसद्ग्रहात्।
यथा यथा तथा चान्यद्ध्यायतोऽसत्सदाग्रहात्॥१८॥
प्रसुप्तस्यानहम्भावात्तदा भाति न संसृतिः।
जीवतोऽपि तथा तद्वद्विमुक्तस्यानहङ्कृतेः॥१९॥
तस्मान्मायामनोधर्मं जह्यहम्ममताभ्रमम्।
रामभद्रे भगवति मनो धेह्यात्मनीश्वरे॥२०॥
सर्वभूतात्मनि परे मायामानुषरूपिणि।
बाह्येन्द्रियार्थसम्बन्धात्त्याजयित्वा मनः शनैः॥२१॥
तत्र दोषान् दर्शयित्वा रामानन्दे नियोजय।
देहबुद्ध्या भवेद् भ्राता पिता माता सुहृत्प्रियः॥२२॥
विलक्षणं यदा देहाज्जानात्यात्मानमात्मना।
तदा कः कस्य वा बन्धुर्भ्राता माता पिता सुहृत्॥२३॥
मिथ्याज्ञानवशाज्जाता दारागारादयः सदा।
शब्दादयश्च विषया विविधाश्चैव सम्पदः॥२४॥
बलं कोशो भृत्यवर्गो राज्यं भूमिः सुतादयः।
अज्ञानजत्वात्सर्वे ते क्षणसङ्गमभङ्गुराः॥२५॥
अथोत्तिष्ठ हृदा रामं भावयन् भक्तिभावितम्।
अनुवर्तस्व राज्यादि भुञ्जन् प्रारब्धमन्वहम्॥२६॥
भूतं भविष्यदभजन् वर्तमानमथाचरन्।
विहरस्व यथान्यायं भवदोषैर्न लिप्यसे॥२७॥
आज्ञापयति रामस्त्वां यद्भ्रातुः साम्परायिकम्।
तत्कुरुष्व यथाशास्त्रं रुदतीश्चापि योषितः॥२८॥
निवारय महाबुद्धे लङ्कां गच्छन्तु मा चिरम्।
श्रुत्वा यथावद्वचनं लक्ष्मणस्य विभीषणः॥२९॥
त्यक्त्वा शोकं च मोहं च रामपार्श्वमुपागमत्।
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः॥३०॥
रामस्यैवानुवृत्त्यर्थमुत्तरं पर्यभाषत।
नृशंसमनृतं क्रूरं त्यक्तधर्मव्रतं प्रभो॥३१॥
नार्होऽस्मि देव संस्कर्तुं परदाराभिमर्शिनम्।
श्रुत्वा तद्वचनं प्रीतो रामो वचनमब्रवीत्॥३२॥
मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम्।
क्रियतामस्य संस्कारो ममाप्येष यथा तव॥३३॥
रामाज्ञां शिरसा धृत्वा शीघ्रमेव विभीषणः।
सान्त्ववाक्यैर्महाबुद्धिं राज्ञीं मन्दोदरीं तदा॥३४॥
सान्त्वयामास धर्मात्मा धर्मबुद्धिर्विभीषणः।
त्वरयामास धर्मज्ञः संस्कारार्थं स्वबान्धवान्॥३५॥
चित्यां निवेश्य विधिवत्पितृमेधविधानतः।
आहिताग्नेर्यथा कार्यं रावणस्य विभीषणः॥३६॥
तथैव सर्वमकरोद्बन्धुभिः सह मन्त्रिभिः।
ददौ च पावकं तस्य विधियुक्तं विभीषणः॥३७॥
स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भाभिमिश्रितान्।
उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम्॥३८॥
प्रदाय चोदकं तस्मै मूर्ध्ना चैनं प्रणम्य च।
ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः॥३९॥
गम्यतामिति ताः सर्वा विविशुर्नगरं तदा।
प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः॥४०॥
रामपार्श्वमुपागत्य तदाऽतिष्ठद्विनीतवत्।
रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः॥४१॥
हर्षं लेभे रिपून् हत्वा यथा वृत्रं शतक्रतुः।
मातलिश्च तदा रामं परिक्रम्याभिवन्द्य च॥४२॥
अनुज्ञातश्च रामेण ययौ स्वर्गं विहायसा।
ततो हृष्टमना रामो लक्ष्मणं चेदमब्रवीत्॥४३॥
विभीषणाय मे लङ्काराज्यं दत्तं पुरैव हि।
इदानीमपि गत्वा त्वं लङ्कामध्ये विभीषणम्॥४४॥
अभिषेचय विप्रैश्च मन्त्रवद्विधिपूर्वकम्।
इत्युक्तो लक्ष्मणस्तूर्णं जगाम सह वानरैः॥४५॥
लङ्कां सुवर्णकलशैः समुद्रजलसंयुतैः।
अभिषेकं शुभं चक्रे राक्षसेन्द्रस्य धीमतः॥४६॥
ततः पौरजनैः सार्धं नानोपायनपाणिभिः।
विभीषणः ससौमित्रिरुपायनपुरस्कृतः॥४७॥
दण्डप्रणाममकरोद्रामस्याक्लिष्टकर्मणः।
रामो विभीषणं दृष्ट्वा प्राप्तराज्यं मुदान्वितः॥४८॥
कृतकृत्यमिवात्मानममन्यत सहानुजः।
सुग्रीवं च समालिङ्ग्य रामो वाक्यमथाब्रवीत्॥४९॥
सहायेन त्वया वीर जितो मे रावणो महान्।
विभीषणोऽपि लङ्कायामभिषिक्तो मयाऽनघ॥५०॥
ततः प्राह हनूमन्तं पार्श्वस्थं विनयान्वितम्।
विभीषणस्यानुमतेर्गच्छ त्वं रावणालयम्॥५१॥
जानक्यै सर्वमाख्याहि रावणस्य वधादिकम्।
जानक्याः प्रतिवाक्यं मे शीघ्रमेव निवेदय॥५२॥
एवमाज्ञापितो धीमान् रामेण पवनात्मजः।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः॥५३॥
प्रविश्य रावणगृहं शिंशपामूलमाश्रिताम्।
ददर्श जानकीं तत्र कृशां दीनामनिन्दिताम्॥५४॥
राक्षसीभिः परिवृतां ध्यायन्तीं राममेव हि।
विनयावनतो भूत्वा प्रणम्य पवनात्मजः॥५५॥
कृताञ्जलिपुटो भूत्वा प्रह्वो भक्त्याऽग्रतः स्थितः।
तं दृष्ट्वा जानकी तूष्णीं स्थित्वा पूर्वस्मृतिं ययौ॥५६॥
ज्ञात्वा तं रामदूतं सा हर्षात्सौम्यमुखी बभौ।
स तां सौम्यमुखीं दृष्ट्वा तस्यै पवननन्दनः।
रामस्य भाषितं सर्वमाख्यातुमुपचक्रमे॥५७॥
देवि रामः ससुग्रीवो विभीषणसहायवान्।
कुशली वानराणां च सैन्यैश्च सहलक्ष्मणः॥५८॥
रावणं ससुतं हत्वा सबलं सह मन्त्रिभिः।
त्वामाह कुशलं रामो राज्ये कृत्वा विभीषणम्॥५९॥
श्रुत्वा भर्तुः प्रियं वाक्यं हर्षगद्गदया गिरा।
किं ते प्रियं करोम्यद्य न पश्यामि जगत्त्रये॥६०॥
समं ते प्रियवाक्यस्य रत्नान्याभरणानि च।
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः॥६१॥
रत्नौघाद्विविधाद् वाऽपि देवराज्याद्विशिष्यते।
हतशत्रुं विजयिनं रामं पश्यामि सुस्थिरम्॥६२॥
तस्य तद्वचनं श्रुत्वा मैथिली प्राह मारुतिम्।
सर्वे सौम्या गुणा सौम्य त्वय्येव परिनिष्ठिताः॥६३॥
रामं द्रक्ष्यामि शीघ्रं मामाज्ञापयतु राघवः।
तथेति तां नमस्कृत्य ययौ द्रष्टुं रघूत्तमम्॥६४॥
जानक्या भाषितं सर्वं रामस्याग्रे न्यवेदयत्।
यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः॥६५॥
तां देवीं शोकसन्तप्तां द्रष्टुमर्हसि मैथिलीम्।
एवमुक्तो हनुमता रामो ज्ञानवतां वरः॥६६॥
मायासीतां परित्यक्तुं जानकीमनले स्थिताम्।
आदातुं मनसा ध्यात्वा रामः प्राह विभीषणम्॥६७॥
गच्छ राजन् जनकजामानयाऽऽशु ममान्तिकम्।
स्नातां विरजवस्त्राढ्यां सर्वाभरणभूषिताम्॥६८॥
विभीषणोऽपि तच्छ्रुत्वा जगाम सहमारुतिः।
राक्षसीभिः सुवृद्धाभिः स्नापयित्वा तु मैथिलीम्॥६९॥
सर्वाभरणसम्पन्नामारोप्य शिबिकोत्तमे।
याष्टीकैर्बहुभिर्गुप्तां कञ्चुकोष्णीषिभिः शुभाम्॥७०॥
तां द्रष्टुमागताः सर्वे वानरा जनकात्मजाम्।
तान् वारयन्तो बहवः सर्वतो वेत्रपाणयः॥७१॥
कोलाहलं प्रकुर्वन्तो रामपार्श्वमुपाययुः।
दृष्ट्वा तां शिबिकारूढां दूरादथ रघूत्तमः॥७२॥
विभीषण किमर्थं ते वानरान् वारयन्ति हि।
पश्यन्तु वानराः सर्वे मैथिलीं मातरं यथा॥७३॥
पादचारेण साऽऽयातु जानकी मम सन्निधिम्।
श्रुत्वा तद्रामवचनं शिबिकादवरुह्य सा॥७४॥
पादचारेण शनकैरागता रामसन्निधिम्।
रामोऽपि दृष्ट्वा तां मायासीतां कार्यार्थनिर्मिताम्॥७५॥
अवाच्यवादान् बहुशः प्राह तां रघुनन्दनः।
अमृष्यमाणा सा सीता वचनं राघवोदितम्॥७६॥
लक्ष्मणं प्राह मे शीघ्रं प्रज्वालय हुताशनम्।
विश्वासार्थं हि रामस्य लोकानां प्रत्ययाय च॥७७॥
राघवस्य मतं ज्ञात्वा लक्ष्मणोऽपि तदैव हि।
महाकाष्ठचयं कृत्वा ज्वालयित्वा हुताशनम्॥७८॥
रामपार्श्वमुपागम्य तस्थौ तूष्णीमरिन्दमः
ततः सीता परिक्रम्य राघवं भक्तिसंयुता।
पश्यतां सर्वलोकानां देवराक्षसयोषिताम्॥७९॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली।
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपगा॥८०॥
यथा मे हृदयं नित्यं नापसर्पति राघवात्।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥८१॥
एवमुक्त्वा तदा सीता परिक्रम्य हुताशनम्।
विवेश ज्वलनं दीप्तं निर्भयेन हृदा सती॥८२॥
दृष्ट्वा ततो भूतगणाः ससिद्धाः
सीतां महावह्निगतां भृशार्ताः।
परस्परं प्राहुरहो स सीतां
रामः श्रियं स्वां कथमत्यजज्ज्ञः॥८३॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वादशः सर्गः॥
❀