एकादशः सर्गः
श्री-महादेव उवाच
इत्युक्त्वा वचनं प्रेम्णा राज्ञीं मन्दोदरीं तदा।
रावणः प्रययौ योद्धुं रामेण सह संयुगे॥१॥
दृढं स्यन्दनमास्थाय वृतो घोरैर्निशाचरैः।
चक्रैः षोडशभिर्युक्तं सवरूथं सकूबरम्॥२॥
पिशाचवदनैर्घोरैः खरैर्युक्तं भयावहम्।
सर्वास्त्रशस्त्रसहितं सर्वोपस्करसंयुतम्॥३॥
निश्चक्रामाथ सहसा रावणो भीषणाकृतिः।
आयान्तं रावणं दृष्ट्वा भीषणं रणकर्कशम्॥४॥
सन्त्रस्ताऽभूत्तदा सेना वानरी रामपालिता
हनूमानथ चोत्प्लुत्य रावणं योद्धुमाययौ।
आगत्य हनुमान् रक्षोवक्षस्यतुलविक्रमः॥५॥
मुष्टिबन्धं दृढं बद्ध्वा ताडयामास वेगतः।
तेन मुष्टिप्रहारेण जानुभ्यामपतद्रथे॥६॥
मूर्च्छितोऽथ मुहूर्तेन रावणः पुनरुत्थितः।
उवाच च हनूमन्तं शूरोऽसि मम सम्मतः॥७॥
हनूमानाह तं धिङ्मां यस्त्वं जीवसि रावण।
त्वं तावन्मुष्टिना वक्षो मम ताडय रावण॥८॥
पश्चान्मया हतः प्राणान्मोक्ष्यसे नात्र संशयः।
तथेति मुष्टिना वक्षो रावणेनापि ताडितः॥९॥
विघूर्णमाननयनः किञ्चित्कश्मलमाययौ।
संज्ञामवाप्य कपिराड् रावणं हन्तुमुद्यतः॥१०॥
ततोऽन्यत्र गतो भीत्या रावणो राक्षसाधिपः।
हनूमानङ्गदश्चैव नलो नीलस्तथैव च॥११॥
चत्वारः समवेत्याग्रे दृष्ट्वा राक्षसपुङ्गवान्।
अग्निवर्णं तथा सर्परोमाणं खड्गरोमकम्॥१२॥
तथा वृश्चिकरोमाणं निर्जघ्नुः क्रमशोऽसुरान्।
चत्वारश्चतुरो हत्वा राक्षसान् भीमविक्रमान्।
सिंहनादं पृथक् कृत्वा रामपार्श्वमुपागताः॥१३॥
ततः क्रुद्धो दशग्रीवः सन्दश्य दशनच्छदम्॥१४॥
विवृत्य नयने क्रूरो राममेवान्वधावत।
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः॥१५॥
आजघान महाघोरैर्धाराभिरिव तोयदः।
रामस्य पुरतः सर्वान् वानरानपि विव्यधे॥१६॥
ततः पावकसङ्काशैः शरैः काञ्चनभूषणैः।
अभ्यवर्षद्रणे रामो दशग्रीवं समाहितः॥१७॥
रथस्थं रावणं दृष्ट्वा भूमिष्ठं रघुनन्दनम्।
आहूय मातलिं शक्रो वचनं चेदमब्रवीत्॥१८॥
रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम्।
त्वरितं भूतलं गत्वा कुरु कार्यं ममानघ॥१९॥
एवमुक्तोऽथ तं नत्वा मातलिर्देवसारथिः।
ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम्॥२०॥
स्वर्गाज्जयार्थं रामस्य ह्युपचक्राम मातलिः।
प्राञ्जलिर्देवराजेन प्रेषितोऽस्मि रघूत्तम॥२१॥
रथोऽयं देवराजस्य विजयाय तव प्रभो।
प्रेषितश्च महाराज धनुरैन्द्रं च भूषितम्॥२२॥
अभेद्यं कवचं खड्गं दिव्यतूणीयुगं तथा।
आरुह्य च रथं राम रावणं जहि राक्षसम्॥२३॥
मया सारथिना देव वृत्रं देवपतिर्यथा।
इत्युक्तस्तं परिक्रम्य नमस्कृत्य रथोत्तमम्॥२४॥
आरुरोह रथं रामो लोकाँल्लक्ष्म्या नियोजयन्।
ततोऽभवन्महायुद्धं भैरवं रोमहर्षणम्॥२५॥
महात्मनो राघवस्य रावणस्य च धीमतः।
आग्नेयेन च आग्नेयं दैवं दैवेन राघवः॥२६॥
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्।
ततस्तु ससृजे घोरं राक्षसं चास्त्रमस्त्रवित्।
क्रोधेन महताऽऽविष्टो रामस्योपरि रावणः॥२७॥
रावणस्य धनुर्मुक्ताः सर्पा भूत्वा महाविषाः।
शराः काञ्चनपुङ्खाभा राघवं परितोऽपतन्॥२८॥
तैः शरैः सर्पवदनैर्वमद्भिरनलं मुखैः।
दिशश्च विदिशश्चैव व्याप्तास्तत्र तदाऽभवन्॥२९॥
रामः सर्पांस्ततो दृष्ट्वा समन्तात्परिपूरितान्।
सौपर्णमस्त्रं तद्घोरं पुरः प्रावर्तयद्रणे॥३०॥
रामेण मुक्तास्ते बाणा भूत्वा गरुडरूपिणः।
चिच्छिदुः सर्पबाणांस्तान् समन्तात् सर्पशत्रवः॥३१॥
अस्त्रे प्रतिहते युद्धे रामेण दशकन्धरः।
अभ्यवर्षत्ततो रामं घोराभिः शरवृष्टिभिः॥३२॥
ततः पुनः शरानीकै राममक्लिष्टकारिणम्।
अर्दयित्वा तु घोरेण मातलिं प्रत्यविध्यत॥३३॥
पातयित्वा रथोपस्थे रथकेतुं च काञ्चनम्।
ऐन्द्रानश्वानभ्यहनद्रावणः क्रोधमूर्च्छितः॥३४॥
विषेदुर्देवगन्धर्वाश्चारणाः पितरस्तथा।
आर्त्ताकारं हरिं दृष्ट्वा व्यथिताश्च महर्षयः॥३५॥
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः।
दशास्यो विंशतिभुजः प्रगृहीतशरासनः॥३६॥
ददृशे रावणस्तत्र मैनाक इव पर्वतः।
रामस्तु भ्रुकुटिं बद्ध्वा क्रोधसंरक्तलोचनः॥३७॥
कोपं चकार सदृशं निर्दहन्निव राक्षसम्।
धनुरादाय देवेन्द्रधनुराकारमद्भुतम्॥३८॥
गृहीत्वा पाणिना बाणं कालानलसमप्रभम्।
निर्दहन्निव चक्षुर्भ्यां ददृशे रिपुमन्तिके॥३९॥
पराक्रमं दर्शयितुं तेजसा प्रज्वलन्निव।
प्रचक्रमे कालरूपी सर्वलोकस्य पश्यतः॥४०॥
विकृष्य चापं रामस्तु रावणं प्रतिविध्य च।
हर्षयन् वानरानीकं कालान्तक इवाबभौ॥४१॥
क्रुद्धं रामस्य वदनं दृष्ट्वा शत्रुं प्रधावतः।
तत्रसुः सर्वभूतानि चचाल च वसुन्धरा॥४२॥
रामं दृष्ट्वा महारौद्रमुत्पातांश्च सुदारुणान्।
त्रस्तानि सर्वभूतानि रावणं चाविशद्भयम्॥४३॥
विमानस्था सुरगणाः सिद्धगन्धर्वकिन्नराः।
ददृशुः सुमहायुद्धं लोकसंवर्तकोपमम्।
ऐन्द्रमस्त्रं समादाय रावणस्य शिरोऽच्छिनत्॥४४॥
मूर्धानो रावणस्याथ बहवो रुधिरोक्षिताः।
गगनात्प्रपतन्ति स्म तालादिव फलानि हि॥४५॥
न दिनं न च वै रात्रिर्न सन्ध्यां न दिशोऽपि वा।
प्रकाशन्ते न तद्रूपं दृश्यते तत्र सङ्गरे॥४६॥
ततो रामो बभूवाथ विस्मयाविष्टमानसः।
शतमेकोत्तरं छिन्नं शिरसां चैकवर्चसाम्॥४७॥
न चैव रावणः शान्तो दृश्यते जीवितक्षयात्।
ततः सर्वास्त्रविद्धीरः कौसल्यानन्दवर्धनः॥४८॥
अस्त्रैश्च बहुभिर्युक्तश्चिन्तयामास राघवः।
यैर्यैर्बाणैर्हता दैत्या महासत्त्वपराक्रमाः॥४९॥
त एते निष्फलं याता रावणस्य निपातने।
इति चिन्ताकुले रामे समीपस्थो विभीषणः॥५०॥
उवाच राघवं वाक्यं ब्रह्मदत्तवरो ह्यसौ।
विच्छिन्ना बाहवोऽप्यस्य विच्छिन्नानि शिरांसि च॥५१॥
उत्पत्स्यन्ति पुनः शीघ्रमित्याह भगवानजः।
नाभिदेशेऽमृतं तस्य कुण्डलाकारसंस्थितम्॥५२॥
तच्छोषयानलास्त्रेण तस्य मृत्युस्ततो भवेत्।
विभीषणवचः श्रुत्वा रामः शीघ्रपराक्रमः॥५३॥
पावकास्त्रेण संयोज्य नाभिं विव्याध रक्षसः।
अनन्तरं च चिच्छेद शिरांसि च महाबलः॥५४॥
बाहूनपि च संरब्धो रावणस्य रघूत्तमः।
ततो घोरां महाशक्तिमादाय दशकन्धरः॥५५॥
विभीषणवधार्थाय चिक्षेप क्रोधविह्वलः।
चिच्छेद राघवो बाणैस्तां शितैर्हेमभूषितैः॥५६॥
दशग्रीवशिरश्छेदात्तदा तेजो विनिर्गतम्।
म्लानरूपो बभूवाथ छिन्नैः शीर्षैर्भयङ्करैः॥५७॥
एकेन मुख्यशिरसा बाहुभ्यां रावणो बभौ।
रावणस्तु पुनः क्रुद्धो नानाशस्त्रास्त्रवृष्टिभिः॥५८॥
ववर्ष रामं तं रामस्तथा बाणैर्ववर्ष च।
ततो युद्धमभूद्घोरं तुमुलं लोमहर्षणम्॥५९॥
अथ संस्मारयामास मातली राघवं तदा।
विसृजास्त्रं वधायास्य ब्राह्मं शीघ्रं रघूत्तम॥६०॥
विनाशकालः प्रथितो यः सुरैः सोऽद्य वर्तते।
उत्तमाङ्गं न चैतस्य छेत्तव्यं राघव त्वया॥६१॥
नैव शीर्ष्णि प्रभो वध्यो वध्य एव हि मर्मणि।
ततः संस्मारितो रामस्तेन वाक्येन मातलेः॥६२॥
जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्।
यस्य पार्श्वे तु पवनः फले भास्करपावकौ॥६३॥
शरीरमाकाशमयं गौरवे मेरुमन्दरौ।
पर्वस्वपि च विन्यस्ता लोकपाला महौजसः॥६४॥
जाज्वल्यमानं वपुषा भातं भास्करवर्चसा।
तमुग्रमस्त्रं लोकानां भयनाशनमद्भुतम्॥६५॥
अभिमन्त्र्य ततो रामस्तं महेषुं महाभुजः।
वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली॥६६॥
तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे।
सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा॥६७॥
स रावणाय सङ्क्रुद्धो भृशमानम्य कार्मुकम्।
चिक्षेप परमायत्तस्तमस्त्रं मर्मघातिनम्॥६८॥
स वज्र इव दुर्धर्षो वज्रपाणिविसर्जितः।
कृतान्त इव घोरास्यो न्यपतद्रावणोरसि॥६९॥
स निमग्नो महाघोरः शरीरान्तकरः परः।
बिभेद हृदयं तूर्णं रावणस्य महात्मनः॥७०॥
रावणस्याहरत्प्राणान् विवेश धरणीतले।
स शरो रावणं हत्वा रामतूणीरमाविशत्॥७१॥
तस्य हस्तात्पपाताशु सशरं कार्मुकं महत्।
गतासुर्भ्रमिवेगेन राक्षसेन्द्रोऽपतद् भुवि॥७२॥
तं दृष्ट्वा पतितं भूमौ हतशेषाश्च राक्षसाः।
हतनाथा भयत्रस्ता दुद्रुवुः सर्वतोदिशम्॥७३॥
दशग्रीवस्य निधनं विजयं राघवस्य च।
ततो विनेदुः संहृष्टा वानरा जितकाशिनः॥७४॥
वदन्तो रामविजयं रावणस्य च तद्वधम्।
अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः॥७५॥
पपात पुष्पवृष्टिश्च समन्ताद्राघवोपरि।
तुष्टुवुर्मुनयः सिद्धाश्चारणाश्च दिवौकसः॥७६॥
अथान्तरिक्षे ननृतुः सर्वतोऽप्सरसो मुदा।
रावणस्य च देहोत्थं ज्योतिरादित्यवत्स्फुरत्॥७७॥
प्रविवेश रघुश्रेष्ठं देवानां पश्यतां सताम्।
देवा ऊचुरहो भाग्यं रावणस्य महात्मनः॥७८॥
वयं तु सात्त्विका देवा विष्णोः कारुण्यभाजनाः।
भयदुःखादिभिर्व्याप्ताः संसारे परिवर्तिनः॥७९॥
अयं तु राक्षसः क्रूरो ब्रह्महाऽतीव तामसः।
परदाररतो विष्णुद्वेषी तापसहिंसकः॥८०॥
पश्यत्सु सर्वभूतेषु राममेव प्रविष्टवान्।
एवं ब्रुवत्सु देवेषु नारदः प्राह सुस्मितः॥८१॥
शृणुतात्र सुरा यूयं धर्मतत्त्वविचक्षणाः।
रावणो राघवद्वेषादनिशं हृदि भावयन्॥८२॥
भृत्यैः सह सदा रामचरितं द्वेषसंयुतः।
श्रुत्वा रामात्स्वनिधनं भयात्सर्वत्र राघवम्॥८३॥
पश्यन्ननुदिनं स्वप्ने राममेवानुपश्यति।
क्रोधोऽपि रावणस्याऽऽशु गुरुबोधाधिकोऽभवत्॥८४॥
रामेण निहतश्चान्ते निर्धूताशेषकल्मषः।
रामसायुज्यमेवाऽऽप रावणो मुक्तबन्धनः॥८५॥
पापिष्ठो वा दुरात्मा परधनपरदारेषु सक्तो यदि स्यान्-
नित्यं स्नेहाद्भयाद् वा रघुकुलतिलकं भावयन् सम्परेतः।
भूत्वा शुद्धान्तरङ्गो भवशतजनितानेकदोषैर्विमुक्तः
सद्यो रामस्य विष्णोः सुरवरविनुतं याति वैकुण्ठमाद्यम्॥८६॥
हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं
भुमौ विष्टभ्य तिष्ठन्नितरकरधृतं भ्रामयन् बाणमेकम्।
आरक्तोपान्तनेत्रः शरदलितवपुः सूर्यकोटिप्रकाशो
वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः॥८७॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे एकादशः सर्गः॥
❀