दशमः सर्गः
श्री-महादेव उवाच
स विचार्य सभामध्ये राक्षसैः सह मन्त्रिभिः।
निर्ययौ येऽवशिष्टास्तै राक्षसैः सह राघवम्॥१॥
शलभः शलभैर्युक्तः प्रज्वलन्तमिवानलम्।
ततो रामेण निहताः सर्वे ते राक्षसा युधि॥२॥
स्वयं रामेण निहतस्तीक्ष्णबाणेन वक्षसि।
व्यथितस्त्वरितं लङ्कां प्रविवेश दशाननः॥३॥
दृष्ट्वा रामस्य बहुशः पौरुषं चाप्यमानुषम्।
रावणो मारुतेश्चैव शीघ्रं शुक्रान्तिकं ययौ॥४॥
नमस्कृत्य दशग्रीवः शुक्रं प्राञ्जलिरब्रवीत्।
भगवन् राघवेणैवं लङ्का राक्षसयूथपैः॥५॥
विनाशिता महादैत्या निहताः पुत्रबान्धवाः।
कथं मे दुःखसन्दोहस्त्वयि तिष्ठति सद्गुरौ॥६॥
इति विज्ञापितो दैत्यगुरुः प्राह दशाननम्।
होमं कुरु प्रयत्नेन रहसि त्वं दशानन॥७॥
यदि विघ्नो न चेद्धोमे तर्हि होमानलोत्थितः
महान् रथश्च वाहाश्च चापतूणीरसायकाः।
सम्भविष्यन्ति तैर्युक्तस्त्वमजेयो भविष्यसि॥८॥
गृहाण मन्त्रान् मद्दत्तान् गच्छ होमं कुरु द्रुतम्।
इत्युक्तस्त्वरितं गत्वा रावणो राक्षसाधिपः॥९॥
गुहां पातालसदृशीं मन्दिरे स्वे चकार ह।
लङ्काद्वारकपाटादि बद्ध्वा सर्वत्र यत्नतः॥१०॥
होमद्रव्याणि सम्पाद्य यान्युक्तान्याभिचारिके।
गुहां प्रविश्य चैकान्ते मौनी होमं प्रचक्रमे॥११॥
उत्थितं धूममालोक्य महान्तं रावणानुजः।
रामाय दर्शयामास होमधूमं भयाकुलः॥१२॥
पश्य राम दशग्रीवो होमं कर्तुं समारभत्।
यदि होमः समाप्तः स्यात्तदाऽजेयो भविष्यति॥१३॥
अतो विघ्नाय होमस्य प्रेषयाऽऽशु हरीश्वरान्।
तथेति रामः सुग्रीवसम्मतेनाङ्गदं कपिम्॥१४॥
हनूमत्प्रमुखान् वीरानादिदेश महाबलान्।
प्राकारं लङ्घयित्वा ते गत्वा रावणमन्दिरम्॥१५॥
दशकोट्यः प्लवङ्गानां गत्वा मन्दिररक्षकान्।
चूर्णयामासुरश्वांश्च गजांश्च न्यहनन् क्षणात्॥१६॥
ततश्च सरमा नाम प्रभाते हस्तसंज्ञया।
विभीषणस्य भार्या सा होमस्थानमसूचयत्॥१७॥
गुहापिधानपाषाणमङ्गदः पादघट्टनैः।
चूर्णयित्वा महासत्त्वः प्रविवेश महागुहाम्॥१८॥
दृष्ट्वा दशाननं तत्र मीलिताक्षं दृढासनम्।
ततोऽङ्गदाज्ञया सर्वे वानरा विविशुर्द्रुतम्॥१९॥
तत्र कोलाहलं चक्रुस्ताडयन्तश्च सेवकान्।
सम्भारांश्चिक्षिपुस्तस्य होमकुण्डे समन्ततः॥२०॥
स्रुवमाच्छिद्य हस्ताच्च रावणस्य बलाद्रुषा।
तेनैव सञ्जघानाशु हनूमान् प्लवगाग्रणीः॥२१॥
घ्नन्ति दन्तैश्च काष्ठैश्च वानरास्तमितस्ततः।
न जहौ रावणो ध्यानं हतोऽपि विजिगीषया॥२२॥
प्रविश्यान्तःपुरे वेश्मन्यङ्गदो वेगवत्तरः।
समानयत्केशबन्धे धृत्वा मन्दोदरीं शुभाम्॥२३॥
रावणस्यैव पुरतो विलपन्तीमनाथवत्।
विददाराङ्गदस्तस्याः कञ्जुकं रत्नभूषितम्॥२४॥
मुक्ता विमुक्ताः पतिताः समन्ताद्रत्नसञ्चयैः।
श्रोणिसूत्रं निपतितं त्रुटितं रत्नचित्रितम्॥२५॥
कटिप्रदेशाद्विस्रस्ता नीवी तस्यैव पश्यतः।
भूषणानि च सर्वाणि पतितानि समन्ततः॥२६॥
देवगन्धर्वकन्याश्च नीता हृष्टैः प्लवङ्गमैः।
मन्दोदरी रुरोदाथ रावणस्याग्रतो भृशम्॥२७॥
क्रोशन्ती करुणं दीना जगाद दशकन्धरम्।
निर्लज्जोऽसि परैरेवं केशपाशे विकृष्यते॥२८॥
भार्या तवैव पुरतः किं जुहोषि न लज्जसे।
हन्यते पश्यतो यस्य भार्या पापैश्च शत्रुभिः॥२९॥
मर्तव्यं तेन तत्रैव जीवितान्मरणं वरम्।
हा मेघनाद ते माता क्लिश्यते बत वानरैः॥३०॥
त्वयि जीवति मे दुःखमीदृशं च कथं भवेत्।
भार्या लज्जा च सन्त्यक्ता भर्त्रा मे जीविताशया॥३१॥
श्रुत्वा तद् देवितं राजा मन्दोदर्या दशाननः।
उत्तस्थौ खड्गमादाय त्यज देवीमिति ब्रुवन्॥३२॥
जघानाङ्गदमव्यग्रः कटिदेशे दशाननः।
तदोत्सृज्य ययुः सर्वे विध्वंस्य हवनं महत्॥३३॥
रामपार्श्वमुपागम्य तस्थुः सर्वे प्रहर्षिताः
रावणस्तु ततो भार्यामुवाच परिसान्त्वयन्।
दैवाधीनमिदं भद्रे जीवता किं न दृश्यते।
त्यज शोकं विशालाक्षि ज्ञानमालम्ब्य निश्चितम्॥३४॥
अज्ञानप्रभवः शोकः शोको ज्ञानविनाशकृत्।
अज्ञानप्रभवाहन्धीः शरीरादिष्वनात्मसु॥३५॥
तन्मूलः पुत्रदारादिसम्बन्धः संसृतिस्ततः।
हर्षशोकभयक्रोधलोभमोहस्पृहादयः॥३६॥
अज्ञानप्रभवा ह्येते जन्ममृत्युजरादयः।
आत्मा तु केवलं शुद्धो व्यतिरिक्तो ह्यलेपकः॥३७॥
आनन्दरूपो ज्ञानात्मा सर्वभावविवर्जितः।
न संयोगो वियोगो वा विद्यते केनचित्सतः॥३८॥
एवं ज्ञात्वा स्वमात्मानं त्यज शोकमनिन्दिते।
इदानीमेव गच्छामि हत्वा रामं सलक्ष्मणम्॥३९॥
आगमिष्यामि नो चेन्मां दारयिष्यति सायकैः।
श्रीरामो वज्रकल्पैश्च ततो गच्छामि तत्पदम्॥४०॥
तदा त्वया मे कर्तव्या क्रिया मच्छासनात्प्रिये।
सीतां हत्वा मया सार्धं त्वं प्रवेक्ष्यसि पावकम्॥४१॥
एवं श्रुत्वा वचस्तस्य रावणस्यातिदुःखिता।
उवाच नाथ मे वाक्यं शृणु सत्यं तथा कुरु॥४२॥
शक्यो न राघवो जेतुं त्वया चान्यैः कदाचन।
रामो देववरः साक्षात्प्रधानपुरुषेश्वरः॥४३॥
मत्स्यो भूत्वा पुरा कल्पे मनुं वैवस्वतं प्रभुः।
ररक्ष सकलापद्भ्यो राघवो भक्तवत्सलः॥४४॥
रामः कूर्मोऽभवत्पूर्वं लक्षयोजनविस्तृतः।
समुद्रमथने पृष्ठे दधार कनकाचलम्॥४५॥
हिरण्याक्षोऽतिदुर्वृत्तो हतोऽनेन महात्मना।
क्रोडरूपेण वपुषा क्षोणीमुद्धरता क्वचित्॥४६॥
त्रिलोककण्टकं दैत्यं हिरण्यकशिपुं पुरा।
हतवान्नारसिंहेन वपुषा रघुनन्दनः॥४७॥
विक्रमैस्त्रिभिरेवासौ बलिं बद्ध्वा जगत्त्रयम्।
आक्रम्यादात्सुरेन्द्राय भृत्याय रघुसत्तमः॥४८॥
राक्षसाः क्षत्रियाकारा जाता भूमेर्भरावहाः।
तान् हत्वा बहुशो रामो भुवं जित्वा ह्यदान्मुनेः॥४९॥
स एव साम्प्रतं जातो रघुवंशे परात्परः।
भवदर्थे रघुश्रेष्ठो मानुषत्वमुपागतः॥५०॥
तस्य भार्या किमर्थं वा हृता सीता वनाद्बलात्।
मम पुत्रविनाशार्थं स्वस्यापि निधनाय च॥५१॥
इतः परं वा वैदेहीं प्रेषयस्व रघूत्तमे।
विभीषणाय राज्यं तु दत्त्वा गच्छामहे वनम्॥५२॥
मन्दोदरीवचः श्रुत्वा रावणो वाक्यमब्रवीत्।
कथं भद्रे रणे पुत्रान् भ्रातॄन् राक्षसमण्डलम्॥५३॥
घातयित्वा राघवेण जीवामि वनगोचरः।
रामेण सह योत्स्यामि रामबाणैः सुशीघ्रगैः॥५४॥
विदार्यमाणो यास्यामि तद्विष्णोः परमं पदम्।
जानामि राघवं विष्णुं लक्ष्मीं जानामि जानकीम्।
ज्ञात्वैव जानकी सीता मयाऽऽनीता वनाद्बलात्॥५५॥
रामेण निधनं प्राप्य यास्यामीति परं पदम्।
विमुच्य त्वां तु संसाराद्गमिष्यामि सह प्रिये॥५६॥
परानन्दमयी शुद्धा सेव्यते या मुमुक्षुभिः।
तां गतिं तु गमिष्यामि हतो रामेण संयुगे॥५७॥
प्रक्षाल्य कल्मषाणीह मुक्तिं यास्यामि दुर्लभाम्॥५८॥
क्लेशादिपञ्चकतरङ्गयुतं भ्रमाढ्यं
दारात्मजाप्तधनबन्धुझषाभियुक्तम्।
और्वानलाभनिजरोषमनङ्गजालं
संसारसागरमतीत्य हरिं व्रजामि॥५९॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे दशमः सर्गः॥
❀