नवमः सर्गः
श्री-महादेव उवाच
विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत्।
जानामि तस्य रौद्रस्य मायां कृत्स्नां विभीषण॥१॥
स हि ब्रह्मास्त्रविच्छूरो मायावी च महाबलः।
जानामि लक्ष्मणस्यापि स्वरूपं मम सेवनम्॥२॥
ज्ञात्वैवासमहं तूष्णीं भविष्यत्कार्यगौरवात्।
इत्युक्त्वा लक्ष्मणं प्राह रामो ज्ञानवतां वरः॥३॥
गच्छ लक्ष्मण सैन्येन महता जहि रावणिम्।
हनूमत्प्रमुखैः सर्वैर्यूथपैः सह लक्ष्मण॥४॥
जाम्बवानृक्षराजोऽयं सह सैन्येन संवृतः।
विभीषणश्च सचिवैः सह त्वामभियास्यति॥५॥
अभिज्ञस्तस्य देशस्य जानाति विवराणि सः।
रामस्य वचनं श्रुत्वा लक्ष्मणः सविभीषणः॥६॥
जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः।
रामपादाम्बुजं स्पृष्ट्वा हृष्टः सौमित्रिरब्रवीत्॥७॥
अद्य मत्कार्मुकान्मुक्ताः शरा निर्भिद्य रावणिम्।
गमिष्यन्ति हि पातालं स्नातुं भोगवतीजले॥८॥
एवमुक्त्वा स सौमित्रिः परिक्रम्य प्रणम्य तम्।
इन्द्रजिन्निधनाकाङ्क्षी ययौ त्वरितविक्रमः॥९॥
वानरैर्बहुसाहस्रैर्हनूमान् पृष्ठतोऽन्वगात्।
विभीषणश्च सहितो मन्त्रिभिस्त्वरितं ययौ॥१०॥
जाम्बवत्प्रमुखा ऋक्षाः सौमित्रिं त्वरयान्वयुः।
गत्वा निकुम्भिलादेशं लक्ष्मणो वानरैः सह॥११॥
अपश्यद्बलसङ्घातं दूराद्राक्षससङ्कुलम्।
धनुरायम्य सौमित्रिर्यत्तोऽभूद्भूरिविक्रमः॥१२॥
अङ्गदेन च वीरेण जाम्बवान् राक्षसाधिपः।
तदा विभीषणः प्राह सौमित्रिं पश्य राक्षसान्॥१३॥
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते।
अस्यानीकस्य महतो भेदने यत्नवान् भव॥१४॥
राक्षसेन्द्रसुतोऽप्यस्मिन् भिन्ने दृश्यो भविष्यति।
अभिद्रवाऽऽशु यावद्वै नैतत्कर्म समाप्यते॥१५॥
जहि वीर दुरात्मानं हिंसापरमधार्मिकम्।
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्ष्मणः॥१६॥
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति।
पाषाणैः पर्वताग्रैश्च वृक्षैश्च हरियूथपाः॥१७॥
निर्जघ्नुः सर्वतो दैत्यांस्तेऽपि वानरयूथपान्।
परश्वधैः शितैर्बाणैरसिभिर्यष्टितोमरैः॥१८॥
निर्जघ्नुर्वानरानीकं तदा शब्दो महानभूत्।
स सम्प्रहारस्तुमुलः सञ्जज्ञे हरिरक्षसाम्॥१९॥
इन्द्रजित्स्वबलं सर्वमर्द्यमानं विलोक्य सः।
निकुम्भिलां च होमं च त्यक्त्वा शीघ्रं विनिर्गतः॥२०॥
रथमारुह्य सधनुः क्रोधेन महताऽऽगमत्।
समाह्वयन् स सौमित्रिं युद्धाय रणमूर्धनि॥२१॥
सौमित्रे मेघनादोऽहं मया जीवन्न मोक्ष्यसे।
तत्र दृष्ट्वा पितृव्यं स प्राह निष्ठुरभाषणम्॥२२॥
इहैव जातः संवृद्धः साक्षाद्भ्राता पितुर्मम।
यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः॥२३॥
कथं द्रुह्यसि पुत्राय पापीयानसि दुर्मतिः।
इत्युक्त्वा लक्ष्मणं दृष्ट्वा हनूमत्पृष्ठतः स्थितम्॥२४॥
उद्यदायुधनिस्त्रिंशे रथे महति संस्थितः।
महाप्रमाणमुद्यम्य घोरं विस्फारयन् धनुः॥२५॥
अद्य वो मामका बाणाः प्राणान् पास्यन्ति वानराः।
ततः शरं दाशरथिः सन्धायामित्रकर्षणः॥२६॥
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्।
इन्द्रजिद्रक्तनयनो लक्ष्मणं समुदैक्षत॥२७॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः।
मुहूर्तमभवन्मूढः पुनः प्रत्याहृतेन्द्रियः॥२८॥
ददर्शावस्थितं वीरं वीरो दशरथात्मजम्।
सोऽभिचक्राम सौमित्रिं क्रोधसंरक्तलोचनः॥२९॥
शरान् धनुषि सन्धाय लक्ष्मणं चेदमब्रवीत्।
यदि ते प्रथमे युद्धे न दृष्टो मे पराक्रमः॥३०॥
अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः।
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्॥३१॥
दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः।
ततः शरशतेनैव सम्प्रयुक्तेन वीर्यवान्॥३२॥
क्रोधद्विगुणसंरब्धो निर्बिभेद विभीषणम्।
लक्ष्मणोऽपि तथा शत्रुं शरवर्षैरवाकिरत्॥३३॥
तस्य बाणैः सुसंविद्धं कवचं काञ्चनप्रभम्।
व्यशीर्यत रथोपस्थे तिलशः पतितं भुवि॥३४॥
ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः।
बिभेद समरे वीरं लक्ष्मणं भीमविक्रमम्॥३५॥
व्यशीर्यतापतद्दिव्यं कवचं लक्ष्मणस्य च।
कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ॥३६॥
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं पुनः।
शरसंवृतसर्वाङ्गौ सर्वतो रुधिरोक्षितौ॥३७॥
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः।
अयुध्येतां महासत्त्वौ जयाजयविवर्जितौ॥३८॥
एतस्मिन्नन्तरे वीरो लक्ष्मणः पञ्चभिः शरैः।
रावणेः सारथिं साश्वं रथं च समचूर्णयत्॥३९॥
चिच्छेद कार्मुकं तस्य दर्शयन् हस्तलाघवम्।
सोऽन्यत्तु कार्मुकं भद्रं सज्यं चक्रे त्वरान्वितः॥४०॥
तच्चापमपि चिच्छेद लक्ष्मणस्त्रिभिराशुगैः।
तमेव छिन्नधन्वानं विव्याधानेकसायकैः॥४१॥
पुनरन्यत्समादाय कार्मुकं भीमविक्रमः।
इन्द्रजिल्लक्ष्मणं बाणैः शितैरादित्यसन्निभैः॥४२॥
बिभेद वानरान् सर्वान् बाणैरापूरयन् दिशः।
तत ऐन्द्रं समादाय लक्ष्मणो रावणिं प्रति॥४३॥
सन्धायाकृष्य कर्णान्तं कार्मुकं दृढनिष्ठुरम्।
उवाच लक्ष्मणो वीरः स्मरन् रामपदाम्बुजम्॥४४॥
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि।
त्रिलोक्यामप्रतिद्वन्द्वस्तदेनं जहि रावणिम्॥४५॥
इत्युक्त्वा बाणमाकर्णाद्विकृष्य तमजिह्मगम्।
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति॥४६॥
स शरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्।
प्रमथ्येन्द्रजितः कायात्पातयामास भूतले॥४७॥
ततः प्रमुदिता देवाः कीर्तयन्तो रघूत्तमम्।
ववर्षुः पुष्पवर्षाणि स्तुवन्तश्च मुहुर्मुहुः॥४८॥
जहर्ष शक्रो भगवान् सह देवैर्महर्षिभिः।
आकाशेऽपि च देवानां शुश्रुवे दुन्दुभिस्वनः॥४९॥
विमलं गगनं चाऽऽसीत्स्थिराऽभूद्विश्वधारिणी।
निहतं रावणिं दृष्ट्वा जयजल्पसमन्वितः॥५०॥
गतश्रमः स सौमित्रिः शङ्खमापूरयद्रणे।
सिंहनादं ततः कृत्वा ज्याशब्दमकरोद्विभुः॥५१॥
तेन नादेन संहृष्टा वानराश्च गतश्रमाः।
वानरेन्द्रैश्च सहितः स्तुवद्भिर्हृष्टमानसैः॥५२॥
लक्ष्मणः परितुष्टात्मा ददर्शाभ्येत्य राघवम्।
हनूमद्राक्षसाभ्यां च सहितो विनयान्वितः॥५३॥
ववन्दे भ्रातरं रामं ज्येष्ठं नारायणं विभुम्।
त्वत्प्रसादाद् रघुश्रेष्ठ हतो रावणिराहवे॥५४॥
श्रुत्वा तल्लक्ष्मणाद्भक्त्या तमालिङ्ग्य रघूत्तमः।
मूर्ध्न्यवघ्राय मुदितः सस्नेहमिदमब्रवीत्॥५५॥
साधु लक्ष्मण तुष्टोऽस्मि कर्म ते दुष्करं कृतम्।
मेघनादस्य निधने जितं सर्वमरिन्दम॥५६॥
अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः।
निःसपत्नः कृतोऽस्म्यद्य निर्यास्यति हि रावणः॥५७॥
पुत्रशोकान्मया योद्धुं तं हनिष्यामि रावणम्
मेघनादं हतं श्रुत्वा लक्ष्मणेन महाबलम्।
रावणः पतितो भुमौ मूर्च्छितः पुनरुत्थितः।
विललापातिदीनात्मा पुत्रशोकेन रावणः॥५८॥
पुत्रस्य गुणकर्माणि संस्मरन् पर्यदेवयत्।
अद्य देवगणाः सर्वे लोकपाला महर्षयः॥५९॥
हतमिन्द्रजितं ज्ञात्वा सुखं स्वप्स्यन्ति निर्भयाः।
इत्यादि बहुशः पुत्रलालसो विललाप ह॥६०॥
ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः।
उवाच राक्षसान् सर्वान्निनाशयिषुराहवे॥६१॥
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।
संवीक्ष्य रावणो बुद्ध्या हन्तुं सीतां प्रदुद्रुवे॥६२॥
खड्गपाणिमथायान्तं क्रुद्धं दृष्ट्वा दशाननम्।
राक्षसीमध्यगा सीता भयशोकाकुलाभवत्॥६३॥
एतस्मिन्नन्तरे तस्य सचिवो बुद्धिमान् शुचिः।
सुपार्श्वो नाम मेधावी रावणं वाक्यमब्रवीत्॥६४॥
ननु नाम दशग्रीव साक्षाद्वैश्रवणानुजः।
वेदविद्याव्रतस्नातः स्वकर्मपरिनिष्ठितः॥६५॥
अनेकगुणसम्पन्नः कथं स्त्रीवधमिच्छसि।
अस्माभिः सहितो युद्धे हत्वा रामं च लक्ष्मणम्।
प्राप्स्यसे जानकीं शीघ्रमित्युक्तः स न्यवर्तत॥६६॥
ततो दुरात्मा सुहृदा निवेदितं
वचः सुधर्म्यं प्रतिगृह्य रावणः।
गृहं जगामाऽऽशु शुचा विमूढधीः
पुनः सभां च प्रययौ सुहृद्वृतः॥६७॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे नवमः सर्गः॥
❀