अष्टमः सर्गः
श्री-महादेव उवाच
कुम्भकर्णवचः श्रुत्वा भ्रुकुटीविकटाननः।
दशग्रीवो जगादेदमासनादुत्पतन्निव॥१॥
त्वमानीतो न मे ज्ञानबोधनाय सुबुद्धिमान्।
मया कृतं समीकृत्य युध्यस्व यदि रोचते॥२॥
नो चेद्गच्छ सुषुप्त्यर्थं निद्रा त्वां बाधतेऽधुना।
रावणस्य वचः श्रुत्वा कुम्भकर्णो महाबलः॥३॥
रुष्टोऽयमिति विज्ञाय तूर्णं युद्धाय निर्ययौ।
स लङ्घयित्वा प्राकारं महापर्वतसन्निभः॥४॥
निर्ययौ नगरात्तूर्णं भीषयन् हरिसैनिकान्।
स ननाद महानादं समुद्रमभिनादयन्॥५॥
वानरान् कालयामास बाहुभ्यां भक्षयन् रुषा।
कुम्भकर्णं तदा दृष्ट्वा सपक्षमिव पर्वतम्॥६॥
दुद्रुवुर्वानराः सर्वे कालान्तकमिवाखिलाः।
भ्रमन्तं हरिवाहिन्यां मुद्गरेण महाबलम्॥७॥
कालयन्तं हरीन् वेगाद्भक्षयन्तं समन्ततः।
चूर्णयन्तं मुद्गरेण पाणिपादैरनेकधा॥८॥
कुम्भकर्णं तदा दृष्ट्वा गदापाणिर्विभीषणः।
ननाम चरणं तस्य भ्रातुर्ज्येष्ठस्य बुद्धिमान्॥९॥
विभीषणोऽहं भ्रातुर्मे दयां कुरु महामते।
रावणस्तु मया भ्रातर्बहुधा परिबोधितः॥१०॥
सीतां देहीति रामाय रामः साक्षाज्जनार्दनः।
न शृणोति च मां हन्तुं खड्गमुद्यम्य चोक्तवान्॥११॥
धिक् त्वां गच्छेति मां हत्वा पदा पापिभिरावृतः।
चतुर्भिर्मन्त्रिभिः सार्धं रामं शरणमागतः॥१२॥
तच्छ्रुत्वा कुम्भकर्णोऽपि ज्ञात्वा भ्रातरमागतम्।
समालिङ्ग्य च वत्स त्वं जीव रामपदाश्रयात्॥१३॥
कुलसंरक्षणार्थाय राक्षसानां हिताय च।
महाभागवतोऽसि त्वं पुरा मे नारदाच्छ्रुतम्॥१४॥
गच्छ तात ममेदानीं दृश्यते न च किञ्चन।
मदीयो वा परो वाऽपि मदमत्तविलोचनः॥१५॥
इत्युक्तोऽश्रुमुखो भ्रातुश्चरणावभिवन्द्य सः।
रामपार्श्वमुपागत्य चिन्तापर उपस्थितः॥१६॥
कुम्भकर्णोऽपि हस्ताभ्यां पादाभ्यां पेषयन् हरीन्।
चचार वानरीं सेनां कालयन् गन्धहस्तिवत्॥१७॥
दृष्ट्वा तं राघवः क्रुद्धो वायव्यं शस्त्रमादरात्।
चिक्षेप कुम्भकर्णाय तेन चिच्छेद रक्षसः॥१८॥
समुद्गरं दक्षहस्तं तेन घोरं ननाद सः।
स हस्तः पतितो भूमावनेकानर्दयन् कपीन्॥१९॥
पर्यन्तमाश्रिताः सर्वे वानरा भयवेपिताः।
रामराक्षसयोर्युद्धं पश्यन्तः पर्यवस्थिताः॥२०॥
कुम्भकर्णश्छिन्नहस्तः शालमुद्यम्य वेगतः।
समरे राघवं हन्तुं दुद्राव तमथोऽच्छिनत्॥२१॥
शालेन सहितं वामहस्तमैन्द्रेण राघवः।
छिन्नबाहुमथायान्तं नर्दन्तं वीक्ष्य राघवः॥२२॥
द्वावर्धचन्द्रौ निशितावादायास्य पदद्वयम्।
चिच्छेद पतितौ पादौ लङ्काद्वारि महास्वनौ॥२३॥
निकृत्तपाणिपादोऽपि कुम्भकर्णोऽतिभीषणः।
वडवामुखवद्वक्त्रं व्यादाय रघुनन्दनम्॥२४॥
अभिदुद्राव निनदन् राहुश्चन्द्रमसं यथा।
अपूरयच्छिताग्रैश्च सायकैस्तद् रघूत्तमः॥२५॥
शरपूरितवक्त्रोऽसौ चुक्रोशातिभयङ्करः।
अथ सूर्यप्रतीकाशमैन्द्रं शरमनुत्तमम्॥२६॥
वज्राशनिसमं रामश्चिक्षेपासुरमृत्यवे।
स तत्पर्वतसङ्काशं स्फुरत्कुण्डलदंष्ट्रकम्॥२७॥
चकर्त रक्षोऽधिपतेः शिरो वृत्रमिवाशनिः।
तच्छिरः पतितं लङ्काद्वारि कायो महोदधौ॥२८॥
शिरोऽस्य रोधयद्द्वारं कायो नक्राद्यचूर्णयत्।
ततो देवाः सऋषयो गन्धर्वाः पन्नगाः खगाः॥२९॥
सिद्धा यक्षा गुह्यकाश्च अप्सरोभिश्च राघवम्।
ईडिरे कुसुमासारैर्वर्षन्तश्चाभिनन्दिताः॥३०॥
आजगाम तदा रामं द्रष्टुं देवमुनीश्वरः।
नारदो गगनात्तुर्णं स्वभासा भासयन् दिशः॥३१॥
राममिन्दीवरश्याममुदाराङ्गं धनुर्धरम्।
ईषत्ताम्रविशालाक्षमैन्द्रास्त्राञ्चितबाहुकम्॥३२॥
दयार्द्रदृष्ट्या पश्यन्तं वानराञ्छरपीडितान्।
दृष्ट्वा गद्गदया वाचा भक्त्या स्तोतुं प्रचक्रमे॥३३॥
नारद उवाच
देवदेव जगन्नाथ परमात्मन् सनातन।
नारायणाखिलाधार विश्वसाक्षिन्नमोऽस्तु ते॥३४॥
विशुद्धज्ञानरूपोऽपि त्वं लोकानतिवञ्चयन्।
मायया मनुजाकारः सुखदुःखादिमानिव॥३५॥
त्वं मायया गुह्यमानः सर्वेषां हृदि संस्थितः।
स्वयञ्ज्योतिः स्वभावस्त्वं व्यक्त एवामलात्मनाम्॥३६॥
उन्मीलयन् सृजस्येतन्नेत्रे राम जगत्त्रयम्।
उपसंह्रियते सर्वं त्वया चक्षुर्निमीलनात्॥३७॥
यस्मिन् सर्वमिदं भाति यतश्चैतच्चराचरम्।
यस्मान्न किञ्चिल्लोकेऽस्मिंस्तस्मै ते ब्रह्मणे नमः॥३८॥
प्रकृतिं पुरुषं कालं व्यक्ताव्यक्तस्वरूपिणम्।
यं जानन्ति मुनिश्रेष्ठास्तस्मै रामाय ते नमः॥३९॥
विकाररहितं शुद्धं ज्ञानरूपं श्रुतिर्जगौ।
त्वां सर्वजगदाकारमूर्तिं चाप्याह सा श्रुतिः॥४०॥
विरोधो दृश्यते देव वैदिको वेदवादिनाम्।
निश्चयं नाधिगच्छन्ति त्वत्प्रसादं विना बुधाः॥४१॥
मायया क्रीडतो देव न विरोधो मनागपि।
रश्मिजालं रवेर्यद्वद्दृश्यते जलवद्भ्रमात्॥४२॥
भ्रान्तिज्ञानात्तथा राम त्वयि सर्वं प्रकल्प्यते।
मनसोऽविषयो देव रूपं ते निर्गुणं परम्॥४३॥
कथं दृश्यं भवेद् देव दृश्याभावे भजेत्कथम्।
अतस्तवावतारेषु रूपाणि निपुणा भुवि॥४४॥
भजन्ति बुद्धिसम्पन्नास्तरन्त्येव भवार्णवम्।
कामक्रोधादयस्तत्र बहवः परिपन्थिनः॥४५॥
भीषयन्ति सदा चेतो मार्जारा मूषकं यथा।
त्वन्नाम स्मरतां नित्यं त्वद्रूपमपि मानसे॥४६॥
त्वत्पूजानिरतानां ते कथामृतपरात्मनाम्।
त्वद्भक्तसङ्गिनां राम संसारो गोष्पदायते॥४७॥
अतस्ते सगुणं रूपं ध्यात्वाऽहं सर्वदा हृदि।
मुक्तश्चरामि लोकेषु पूज्योऽहं सर्वदैवतैः॥४८॥
राम त्वया महत्कार्यं कृतं देवहितेच्छया।
कुम्भकर्णवधेनाद्य भूभारोऽयं गतः प्रभो॥४९॥
श्वो हनिष्यति सौमित्रिरिन्द्रजेतारमाहवे।
हनिष्यसेऽथ राम त्वं परश्वो दशकन्धरम्॥५०॥
पश्यामि सर्वं देवेश सिद्धैः सह नभोगतः।
अनुगृह्णीष्व मां देव गमिष्यामि सुरालयम्॥५१॥
इत्युक्त्वा राममामन्त्र्य नारदो भगवानृषिः।
ययौ देवैः पूज्यमानो ब्रह्मलोकमकल्मषम्॥५२॥
भ्रातरं निहतं श्रुत्वा कुम्भकर्णं महाबलम्।
रावणः शोकसन्तप्तो रामेणाक्लिष्टकर्मणा॥५३॥
मूर्च्छितः पतितो भूमावुत्थाय विललाप ह।
पितृव्यं निहतं श्रुत्वा पितरं चातिविह्वलम्॥५४॥
इन्द्रजित्प्राह शोकार्तं त्यज शोकं महामते।
व्येतु ते दुःखमखिलं स्वस्थो भव महीपते॥५५॥
सर्वं समीकरिष्यामि हनिष्यामि च वै रिपून्।
गत्वा निकुम्भिलां सद्यस्तर्पयित्वा हुताशनम्॥५६॥
लब्ध्वा रथादिकं तस्मादजेयोऽहं भवाम्यरेः।
इत्युक्त्वा त्वरितं गत्वा निर्दिष्टं हवनस्थलम्॥५७॥
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः।
निकुम्भिलास्थले मौनी हवनायोपचक्रमे॥५८॥
विभीषणोऽथ तच्छ्रुत्वा मेघनादस्य चेष्टितम्।
प्राह रामाय सकलं होमारम्भं दुरात्मनः॥५९॥
समाप्यते चेद्धोमोऽयं मेघनादस्य दुर्मतेः।
तदाऽजेयो भवेद्राम मेघनादः सुरासुरैः॥६०॥
अतः शीघ्रं लक्ष्मणेन घातयिष्यामि रावणिम्।
आज्ञापय मया सार्धं लक्ष्मणं बलिनां वरम्।
हनिष्यति न सन्देहो मेघनादं तवानुजः॥६१॥
श्रीरामचन्द्र उवाच
अहमेवागमिष्यामि हन्तुमिन्द्रजितं रिपुम्।
आग्नेयेन महास्त्रेण सर्वराक्षसघातिना॥६२॥
विभीषणोऽपि तं प्राह नासावन्यैर्निहन्यते।
यस्तु द्वादश वर्षाणि निद्राहारविवर्जितः॥६३॥
तेनैव मृत्युर्निर्दिष्टो ब्रह्मणाऽस्य दुरात्मनः।
लक्ष्मणस्तु अयोध्याया निर्गम्यायात् त्वया सह॥६४॥
तदादि निद्राहारादीन्न जानाति रघूत्तम।
सेवार्थं तव राजेन्द्र ज्ञातं सर्वमिदं मया॥६५॥
तदाज्ञापय देवेश लक्ष्मणं त्वरया मया।
हनिष्यति न सन्देहः शेषः साक्षाद्धराधरः॥६६॥
त्वमेव साक्षाज्जगतामधीशो
नारायणो लक्ष्मण एव शेषः।
युवां धराभारनिवारणार्थं
जातौ जगन्नाटकसूत्रधारौ॥६७॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे अष्टमः सर्गः॥
❀