सप्तमः सर्गः
श्री-महादेव उवाच
कालनेमिवचः श्रुत्वा रावणोऽमृतसन्निभम्।
जज्वाल क्रोधताम्राक्षः सर्पिरद्भिरिवाग्निमत्॥१॥
निहन्मि त्वां दुरात्मानं मच्छासनपराङ्मुखम्।
परैः किञ्चिद् गृहीत्वा त्वं भाषसे रामकिङ्करः॥२॥
कालनेमिरुवाचेदं रावणं देव किं क्रुधा।
न रोचते मे वचनं यदि गत्वा करोमि तत्॥३॥
इत्युक्त्वा प्रययौ शीघ्रं कालनेमिर्महासुरः।
नोदितो रावणेनैव हनूमद्विघ्नकारणात्॥४॥
स गत्वा हिमवत्पार्श्वं तपोवनमकल्पयत्।
तत्र शिष्यैः परिवृतो मुनिवेषधरः खलः॥५॥
गच्छतो मार्गमासाद्य वायुसूनोर्महात्मनः।
ततो गत्वा ददर्शाथ हनूमानाश्रमं शुभम्॥६॥
चिन्तयामास मनसा श्रीमान् पवननन्दनः।
पुरा न दृष्टमेतन्मे मुनिमण्डलमुत्तमम्॥७॥
मार्गो विभ्रंशितो वा मे भ्रमो वा चित्तसम्भवः।
यद् वाऽऽविश्याऽऽश्रमपदं दृष्ट्वा मुनिमशेषतः॥८॥
पीत्वा जलं ततो यामि द्रोणाचलमनुत्तमम्।
इत्युक्त्वा प्रविवेशाथ सर्वतो योजनायतम्॥९॥
आश्रमं कदलीशालखर्जूरपनसादिभिः।
समावृतं पक्वफलैर्नम्रशाखैश्च पादपैः॥१०॥
वैरभावविनिर्मुक्तं शुद्धं निर्मललक्षणम्।
तस्मिन्महाश्रमे रम्ये कालनेमिः स राक्षसः॥११॥
इन्द्रयोगं समास्थाय चकार शिवपूजनम्।
हनूमानभिवाद्याऽऽह गौरवेण महासुरम्॥१२॥
भगवन् रामदूतोऽहं हनूमान्नाम नामतः।
रामकार्येण महता क्षीराब्धिं गन्तुमुद्यतः॥१३॥
तृषा मां बाधते ब्रह्मन्नुदकं कुत्र विद्यते।
यथेच्छं पातुमिच्छामि कथ्यतां मे मुनीश्वर॥१४॥
तच्छ्रुत्वा मारुतेर्वाक्यं कालनेमिस्तमब्रवीत्।
कमण्डलुगतं तोयं मम त्वं पातुमर्हसि॥१५॥
भुङ्क्ष्व चेमानि पक्वानि फलानि तदनन्तरम्।
निवसस्व सुखेनात्र निद्रामेहि त्वरास्तु मा॥१६॥
भूतं भव्यं भविष्यं च जानामि तपसा स्वयम्।
उत्थितो लक्ष्मणः सर्वे वानरा रामवीक्षिताः॥१७॥
तच्छ्रुत्वा हनुमानाह कमण्डलुजलेन मे।
न शाम्यत्यधिका तृष्णा ततो दर्शय मे जलम्॥१८॥
तथेत्याज्ञापयामास वटुं मायाविकल्पितम्।
वटो दर्शय विस्तीर्णं वायुसूनोर्जलाशयम्॥१९॥
निमील्य चाक्षिणी तोयं पीत्वाऽऽगच्छ ममान्तिकम्।
उपदेक्ष्यामि ते मन्त्रं येन द्रक्ष्यसि चौषधीः॥२०॥
तथेति दर्शितं शीघ्रं वटुना सलिलाशयम्।
प्रविश्य हनुमांस्तोयमपिबन्मीलितेक्षणः॥२१॥
ततश्चाऽऽगत्य मकरी महामाया महाकपिम्।
अग्रसत्तं महावेगान्मारुतिं घोररूपिणी॥२२॥
ततो ददर्श हनुमान् ग्रसन्तीं मकरीं रुषा।
दारयामास हस्ताभ्यां वदनं सा ममार ह॥२३॥
ततोऽन्तरिक्षे ददृशे दिव्यरूपधराङ्गना।
धान्यमालीति विख्याता हनूमन्तमथाब्रवीत्॥२४॥
त्वत्प्रसादादहं शापाद्विमुक्ताऽस्मि कपीश्वर।
शप्ताऽहं मुनिना पूर्वमप्सरा कारणान्तरे॥२५॥
आश्रमे यस्तु ते दृष्टः कालनेमिर्महासुरः।
रावणप्रहितो मार्गे विघ्नं कर्तुं तवानघ॥२६॥
मुनिवेषधरो नासौ मुनिर्विप्रविहिंसकः।
जहि दुष्टं गच्छ शीघ्रं द्रोणाचलमनुत्तमम्॥२७॥
गच्छाम्यहं ब्रह्मलोकं त्वत्स्पर्शाद्धतकल्मषा।
इत्युक्त्वा सा ययौ स्वर्गं हनूमानप्यथाऽऽश्रमम्॥२८॥
आगतं तं समालोक्य कालनेमिरभाषत।
किं विलम्बेन महता तव वानरसत्तम॥२९॥
गृहाण मत्तो मन्त्रांस्त्वं देहि मे गुरुदक्षिणाम्।
इत्युक्तो हनुमान्मुष्टिं दृढं बद्ध्वाऽऽह राक्षसम्॥३०॥
गृहाण दक्षिणामेतामित्युक्त्वा निजघान तम्।
विसृज्य मुनिवेषं स कालनेमिर्महासुरः॥३१॥
युयुधे वायुपुत्रेण नानामायाविधानतः।
महामायिकदूतोऽसौ हनूमान्मायिनां रिपुः॥३२॥
जघान मुष्टिना शीर्ष्णि भग्नमूर्धा ममार सः।
ततः क्षीरनिधिं गत्वा दृष्ट्वा द्रोणं महागिरिम्॥३३॥
अदृष्ट्वा चौषधीस्तत्र गिरिमुत्पाट्य सत्वरः।
गृहीत्वा वायुवेगेन गत्वा रामस्य सन्निधिम्॥३४॥
उवाच हनुमान् राममानीतोऽयं महागिरिः।
यद्युक्तं कुरु देवेश विलम्बो नात्र युज्यते॥३५॥
श्रुत्वा हनूमतो वाक्यं रामः सन्तुष्टमानसः।
गृहीत्वा चौषधीः शीघ्रं सुषेणेन महामतिः॥३६॥
चिकित्सां कारयामास लक्ष्मणाय महात्मने।
ततः सुप्तोत्थित इव बुद्ध्वा प्रोवाच लक्ष्मणः॥३७॥
तिष्ठ तिष्ठ क्व गन्तासि हन्मीदानीं दशानन।
इति ब्रुवन्तमालोक्य मूर्ध्न्यवघ्राय राघवः॥३८॥
मारुतिं प्राह वत्साद्य त्वत्प्रसादान्महाकपे।
निरामयं प्रपश्यामि लक्ष्मणं भ्रातरं मम॥३९॥
इत्युक्त्वा वानरैः सार्धं सुग्रीवेण समन्वितः।
विभीषणमतेनैव युद्धाय समवस्थितः॥४०॥
पाषाणैः पादपैश्चैव पर्वताग्रैश्च वानराः।
युद्धायाभिमुखा भूत्वा ययुः सर्वे युयुत्सवः॥४१॥
रावणो विव्यथे रामबाणैर्विद्धो महासुरः।
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः॥४२॥
अभिभूतोऽगमद्राजा राघवेण महात्मना।
सिंहासने समाविश्य राक्षसानिदमब्रवीत्॥४३॥
मानुषेणैव मे मृत्युमाह पूर्वं पितामहः।
मानुषो हि न मां हन्तुं शक्तोऽस्ति भुवि कश्चन॥४४॥
ततो नारायणः साक्षान्मानुषोऽभून्न संशयः।
रामो दाशरथिर्भूत्वा मां हन्तुं समुपस्थितः॥४५॥
अनरण्येन यत्पूर्वं शप्तोऽहं राक्षसेश्वर।
उत्पत्स्यते च मद्वंशे परमात्मा सनातनः॥४६॥
तेन त्वं पुत्रपौत्रैश्च बान्धवैश्च समन्वितः।
हनिष्यसे न सन्देह इत्युक्त्वा मां दिवं गतः॥४७॥
स एव रामः सञ्जातो मदर्थे मां हनिष्यति।
कुम्भकर्णस्तु मूढात्मा सदा निद्रावशं गतः॥४८॥
तं विबोध्य महासत्त्वमानयन्तु ममान्तिकम्।
इत्युक्तास्ते महाकायास्तूर्णं गत्वा तु यत्नतः॥४९॥
विबोध्य कुम्भश्रवणं निन्यू रावणसन्निधिम्।
नमस्कृत्य स राजानमासनोपरि संस्थितः॥५०॥
तमाह रावणो राजा भ्रातरं दीनया गिरा।
कुम्भकर्ण निबोध त्वं महत्कष्टमुपस्थितम्॥५१॥
रामेण निहताः शूराः पुत्राः पौत्राश्च बान्धवाः।
किं कर्तव्यमिदानीं मे मृत्युकाल उपस्थिते॥५२॥
एष दाशरथी रामः सुग्रीवसहितो बली।
समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति॥५३॥
ये राक्षसा मुख्यतमास्ते हता वानरैर्युधि।
वानराणां क्षयं युद्धे न पश्यामि कदाचन॥५४॥
नाशयस्व महाबाहो यदर्थं परिबोधितः।
भ्रातुरर्थे महासत्त्व कुरु कर्म सुदुष्करम्॥५५॥
श्रुत्वा तद्रावणेन्द्रस्य वचनं परिदेवितम्।
कुम्भकर्णो जहासोच्चैर्वचनं चेदमब्रवीत्॥५६॥
पुरा मन्त्रविचारे ते गदितं यन्मया नृप।
तदद्य त्वामुपगतं फलं पापस्य कर्मणः॥५७॥
पूर्वमेव मया प्रोक्तो रामो नारायणः परः।
सीता च योगमायेति बोधितोऽपि न बुध्यसे॥५८॥
एकदाऽहं वने सानौ विशालायां स्थितो निशि।
दृष्टो मया मुनिः साक्षान्नारदो दिव्यदर्शनः॥५९॥
तमब्रवं महाभाग कुतो गन्तासि मे वद।
इत्युक्तो नारदः प्राह देवानां मन्त्रणे स्थितः॥६०॥
तत्रोत्पन्नमुदन्तं ते वक्ष्यामि शृणु तत्त्वतः।
युवाभ्यां पीडिता देवाः सर्वे विष्णुमुपागताः॥६१॥
ऊचुस्ते देवदेवेशं स्तुत्वा भक्त्या समाहिताः।
जहि रावणमक्षोभ्यं देव त्रैलोक्यकण्टकम्॥६२॥
मानुषेण मृतिस्तस्य कल्पिता ब्रह्मणा पुरा।
अतस्त्वं मानुषो भूत्वा जहि रावणकण्टकम्॥६३॥
तथेत्याह महाविष्णुः सत्यसङ्कल्प ईश्वरः।
जातो रघुकुले देवो राम इत्यभिविश्रुतः॥६४॥
स हनिष्यति वः सर्वानित्युक्त्वा प्रययौ मुनिः।
अतो जानीहि रामं त्वं परं ब्रह्म सनातनम्॥६५॥
त्यज वैरं भजस्वाद्य मायामानुषविग्रहम्।
भजतो भक्तिभावेन प्रसीदति रघूत्तमः॥६६॥
भक्तिर्जनित्री ज्ञानस्य भक्तिर्मोक्षप्रदायिनी।
भक्तिहीनेन यत्किञ्चित्कृतं सर्वमसत्समम्॥६७॥
अवताराः सुबहवो विष्णोर्लीलानुकारिणः।
तेषां सहस्रसदृशो रामो ज्ञानमयः शिवः॥६८॥
रामं भजन्ति निपुणा मनसा वचसाऽनिशम्।
अनायासेन संसारं तीर्त्वा यान्ति हरेः पदम्॥६९॥
ये राममेव सततं भुवि शुद्धसत्त्वा
ध्यायन्ति तस्य चरितानि पठन्ति सन्तः।
मुक्तास्त एव भवभोगमहाहिपाशैः
सीतापतेः पदमनन्तसुखं प्रयान्ति॥७०॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे सप्तमः सर्गः॥
❀