षष्ठः सर्गः

श्री-महादेव उवाच

श्रुत्वा युद्धे बलं नष्टमतिकायमुखं महत्।
रावणो दुःखसन्तप्तः क्रोधेन महताऽऽवृतः॥१॥
निधायेन्द्रजितं लङ्कारक्षणार्थं महाद्युतिः।
स्वयं जगाम युद्धाय रामेण सह राक्षसः॥२॥
दिव्यं स्यन्दनमारुह्य सर्वशस्त्रास्त्रसंयुतम्।
राममेवाभिदुद्राव राक्षसेन्द्रो महाबलः॥३॥
वानरान् बहुशो हत्वा बाणैराशीविषोपमैः।
पातयामास सुग्रीवप्रमुखान् यूथनायकान्॥४॥
गदापाणिं महासत्त्वं तत्र दृष्ट्वा विभीषणम्।
उत्ससर्ज महाशक्तिं मयदत्तां विभीषणे॥५॥
तामापतन्तीमालोक्य विभीषणविघातिनीम्।
दत्ताभयोऽयं रामेण वधार्हो नायमासुरः॥६॥
इत्युक्त्वा लक्ष्मणो भीमं चापमादाय वीर्यवान्।
विभीषणस्य पुरतः स्थितोऽकम्प इवाचलः॥७॥
सा शक्तिर्लक्ष्मणतनुं विवेशामोघशक्तितः।
यावन्त्यः शक्तयो लोके मायायाः सम्भवन्ति हि॥८॥
तासामाधारभूतस्य लक्ष्मणस्य महात्मनः।
मायाशक्त्या भवेत्किं वा शेषांशस्य हरेस्तनोः॥९॥
तथाऽपि मानुषं भावमापन्नस्तदनुव्रतः।
मूर्च्छितः पतितो भूमौ तमादातुं दशाननः॥१०॥
हस्तैस्तोलयितुं शक्तो न बभूवातिविस्मितः।
सर्वस्य जगतः सारं विराजं परमेश्वरम्॥११॥
कथं लोकाश्रयं विष्णुं तोलयेल्लघुराक्षसः।
ग्रहीतुकामं सौमित्रिं रावणं वीक्ष्य मारुतिः॥१२॥
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना।
तेन मुष्टिप्रहारेण जानुभ्यामपतद् भुवि॥१३॥
आस्यैश्च नेत्रश्रवणैरुद्वमन् रुधिरं बहु।
विघूर्णमाननयनो रथोपस्थ उपाविशत्॥१४॥
अथ लक्ष्मणमादाय हनूमान् रावणार्दितम्।
आनयद्रामसामीप्यं बाहुभ्यां परिगृह्य तम्॥१५॥
हनूमतः सुहृत्त्वेन भक्त्या च परमेश्वरः।
लघुत्वमगमद् देवो गुरूणां गुरुरप्यजः॥१६॥
सा शक्तिरपि तं त्यक्त्वा ज्ञात्वा नारायणांशजम्।
रावणस्य रथं प्रागाद्रावणोऽपि शनैस्ततः॥१७॥
संज्ञामवाप्य जग्राह बाणासनमथो रुषा।
राममेवाभिदुद्राव दृष्ट्वा रामोऽपि तं क्रुधा॥१८॥
आरुह्य जगतां नाथो हनूमन्तं महाबलम्।
रथस्थं रावणं दृष्ट्वा अभिदुद्राव राघवः॥१९॥
ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिष्ठुरम्।
रामो गम्भीरया वाचा राक्षसेन्द्रमुवाच ह॥२०॥
राक्षसाधम तिष्ठाद्य क्व गमिष्यसि मे पुरः।
कृत्वाऽपराधमेवं मे सर्वत्र समदर्शिनः॥२१॥
येन बाणेन निहता राक्षसास्ते जनालये।
तेनैव त्वां हनिष्यामि तिष्ठाद्य मम गोचरे॥२२॥
श्रीरामस्य वचः श्रुत्वा रावणो मारुतात्मजम्।
वहन्तं राघवं सङ्ख्ये शरैस्तीक्ष्णैरताडयत्॥२३॥
हतस्यापि शरैस्तीक्ष्णैर्वायुसूनोः स्वतेजसा।
व्यवर्धत पुनस्तेजो ननर्द च महाकपिः॥२४॥
ततो दृष्ट्वा हनूमन्तं सव्रणं रघुसत्तमः।
क्रोधमाहारयामास कालरुद्र इवापरः॥२५॥
साश्वं रथं ध्वजं सूतं शस्त्रौघं धनुरञ्जसा।
छत्रं पताकां तरसा चिच्छेद शितसायकैः॥२६॥
ततो महाशरेणाशु रावणं रघुसत्तमः।
विव्याध वज्रकल्पेन पाकारिरिव पर्वतम्॥२७॥
रामबाणहतो वीरश्चचाल च मुमोह च।
हस्तान्निपतितश्चापस्तं समीक्ष्य रघूत्तमः॥२८॥
अर्धचन्द्रेण चिच्छेद तत्किरीटं रविप्रभम्।
अनुजानामि गच्छ त्वमिदानीं बाणपीडितः॥२९॥
प्रविश्य लङ्कामाश्वास्य श्वः पश्यसि बलं मम।
रामबाणेन संविद्धो हतदर्पोऽथ रावणः॥३०॥
महत्या लज्जया युक्तो लङ्कां प्राविशदातुरः।
रामोऽपि लक्ष्मणं दृष्ट्वा मूर्च्छितं पतितं भुवि॥३१॥
मानुषत्वमुपाश्रित्य लीलयाऽनुशुशोच ह।
ततः प्राह हनूमन्तं वत्स जीवय लक्ष्मणम्॥३२॥
महौषधीः समानीय पूर्ववद् वानरानपि।
तथेति रघवेणोक्तो जगामाऽऽशु महाकपिः॥३३॥
हनूमान् वायुवेगेन क्षणात्तीर्त्वा महोदधिम्।
एतस्मिन्नन्तरे चारा रावणाय न्यवेदयन्॥३४॥
रामेण प्रेषितो देव हनूमान् क्षीरसागरम्।
गतो नेतुं लक्ष्मणस्य जीवनार्थं महौषधीः॥३५॥
श्रुत्वा तच्चारवचनं राजा चिन्तापरोऽभवत्।
जगाम रात्रावेकाकी कालनेमिगृहं क्षणात्॥३६॥
गृहागतं समालोक्य रावणं विस्मयान्वितः।
कालनेमिरुवाचेदं प्राञ्जलिर्भयविह्वलः।
अर्घ्यादिकं ततः कृत्वा रावणस्याग्रतः स्थितः॥३७॥
किं ते करोमि राजेन्द्र किमागमनकारणम्।
कालनेमिमुवाचेदं रावणो दुःखपीडितः॥३८॥
ममापि कालवशतः कष्टमेतदुपस्थितम्।
मया शक्त्या हतो वीरो लक्ष्मणः पतितो भुवि॥३९॥
तं जीवयितुमानेतुमोषधीर्हनुमान् गतः।
यथा तस्य भवेद्विघ्नस्तथा कुरु महामते॥४०॥
मायया मुनिवेषेण मोहयस्व महाकपिम्।
कालात्ययो यथा भूयात्तथा कृत्वैहि मन्दिरे॥४१॥
रावणस्य वचः श्रुत्वा कालनेमिरुवाच तम्।
रावणेश वचो मेऽद्य शृणु धारय तत्त्वतः॥४२॥
प्रियं ते करवाण्येव न प्राणान् धारयाम्यहम्।
मारीचस्य यथाऽरण्ये पुराऽभून्मृगरूपिणः॥४३॥
तथैव मे न सन्देहो भविष्यति दशानन।
हताः पुत्राश्च पौत्राश्च बान्धवा राक्षसाश्च ते॥४४॥
घातयित्वाऽसुरकुलं जीवितेनापि किं तव।
राज्येन वा सीतया वा किं देहेन जडात्मना॥४५॥
सीतां प्रयच्छ रामाय राज्यं देहि विभीषणे।
वनं याहि महाबाहो रम्यं मुनिगणाश्रयम्॥४६॥
स्नात्वा प्रातः शुभजले कृत्वा सन्ध्यादिकाः क्रियाः।
तत एकान्तमाश्रित्य सुखासनपरिग्रहः॥४७॥
विसृज्य सर्वतः सङ्गमितरान् विषयान् बहिः।
बहिःप्रवृत्ताक्षगणं शनैः प्रत्यक् प्रवाहय॥४८॥
प्रकृतेर्भिन्नमात्मानं विचारय सदाऽनघ।
चराचरं जगत्कृत्स्नं देहबुद्धीन्द्रियादिकम्॥४९॥
आब्रह्मस्तम्बपर्यन्तं दृश्यते श्रूयते च यत्।
सैषा प्रकृतिरित्युक्ता सैव मायेति कीर्तिता॥५०॥
सर्गस्थितिविनाशानां जगद्वृक्षस्य कारणम्।
लोहितश्वेतकृष्णादि प्रजाः सृजति सर्वदा॥५१॥
कामक्रोधादिपुत्राद्यान् हिंसातृष्णादिकन्यकाः।
मोहयन्त्यनिशं देवमात्मानं स्वैर्गुणैर्विभुम्॥५२॥
कर्तृत्वभोक्तृत्वमुखान् स्वगुणानात्मनीश्वरे।
आरोप्य स्ववशं कृत्वा तेन क्रीडति सर्वदा॥५३॥
शुद्धोऽप्यात्मा यया युक्तः पश्यतीव सदा बहिः।
विस्मृत्य च स्वमात्मानं मायागुणविमोहितः॥५४॥
यदा सद्गुरुणा युक्तो बोध्यते बोधरूपिणा।
निवृत्तदृष्टिरात्मानं पश्यत्येव सदा स्फुटम्॥५५॥
जीवन्मुक्तः सदा देही मुच्यते प्राकृतैर्गुणैः।
त्वमप्येवं सदाऽऽत्मानं विचार्य नियतेन्द्रियः॥५६॥
प्रकृतेरन्यमात्मानं ज्ञात्वा मुक्तो भविष्यसि।
ध्यातुं यद्यसमर्थोऽसि सगुणं देवमाश्रय॥५७॥
हृत्पद्मकर्णिके स्वर्णपीठे मणिगणान्विते।
मृदुश्लक्ष्णतरे तत्र जानक्या सह संस्थितम्॥५८॥
वीरासनं विशालाक्षं विद्युत्पुञ्जनिभाम्बरम्।
किरीटहारकेयूरकौस्तुभादिभिरन्वितम्॥५९॥
नूपुरैः कटकैर्भान्तं तथैव वनमालया।
लक्ष्मणेन धनुर्द्वन्द्वकरेण परिसेवितम्॥६०॥
एवं ध्यात्वा सदाऽऽत्मानं रामं सर्वहृदि स्थितम्।
भक्त्या परमया युक्तो मुच्यते नात्र संशयः॥६१॥
शृणु वै चरितं तस्य भक्तैर्नित्यमनन्यधीः।
एवं चेत्कृतपूर्वाणि पापानि च महान्त्यपि।
क्षणादेव विनश्यन्ति यथाऽग्नेस्तूलराशयः॥६२॥
भजस्व रामं परिपूर्णमेकं
विहाय वैरं निजभक्तियुक्तः।
हृदा सदा भावितभावरूपम्
अनामरूपं पुरुषं पुराणम्॥६३॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे षष्ठः सर्गः॥