पञ्चमः सर्गः

श्री-महादेव उवाच

श्रुत्वा शुकमुखोद्गीतं वाक्यमज्ञाननाशनम्।
रावणः क्रोधताम्राक्षो दहन्निव तमब्रवीत्॥१॥
अनुजीव्य सुदुर्बुद्धे गुरुवद्भाषसे कथम्।
शासिताऽहं त्रिजगतां त्वं मां शिक्षन्न लज्जसे॥२॥
इदानीमेव हन्मि त्वां किन्तु पूर्वकृतं तव।
स्मरामि तेन रक्षामि त्वां यद्यपि वधोचितम्॥३॥
इतो गच्छ विमूढ त्वमेवं श्रोतुं न मे क्षमम्।
महाप्रसाद इत्युक्त्वा वेपमानो गृहं ययौ॥४॥
शुकोऽपि ब्राह्मणः पूर्वं ब्रह्मिष्ठो ब्रह्मवित्तमः।
वानप्रस्थविधानेन वने तिष्ठन् स्वकर्मकृत्॥५॥
देवानामभिवृद्ध्यर्थं विनाशाय सुरद्विषाम्।
चकार यज्ञविततिमविच्छिन्नां महामतिः॥६॥
राक्षसानां विरोधोऽभूच्छुको देवहितोद्यतः।
वज्रदंष्ट्र इति ख्यातस्तत्रैको राक्षसो महान्॥७॥
अन्तरं प्रेप्सुरातिष्ठच्छुकापकरणोद्यतः।
कदाचिदागतोऽगस्त्यस्तस्याऽऽश्रमपदं मुनेः॥८॥
तेन सम्पूजितोऽगस्त्यो भोजनार्थं निमन्त्रितः।
गते स्नातुं मुनौ कुम्भसम्भवे प्राप्य चान्तरम्॥९॥
अगस्त्यरूपधृक् सोऽपि राक्षसः शुकमब्रवीत्।
यदि दास्यसि मे ब्रह्मन् भोजनं देहि सामिषम्॥१०॥
बहुकालं न भुक्तं मे मांसं छागाङ्गसम्भवम्।
तथेति कारयामास मांसभोज्यं सविस्तरम्॥११॥
उपविष्टे मुनौ भोक्तुं राक्षसोऽतीव सुन्दरम्।
शुकभार्यावपुर्धृत्वा तां चान्तर्मोहयन् खलः॥१२॥
नरमांसं ददौ तस्मै सुपक्वं बहुविस्तरम्।
दत्त्वैवान्तर्दधे रक्षस्ततो दृष्ट्वा चुकोप सः॥१३॥
अमेध्यं मानुषं मांसमगस्त्यः शुकमब्रवीत्।
अभक्ष्यं मानुषं मांसं दत्तवानसि दुर्मते॥१४॥
मह्यं त्वं राक्षसो भूत्वा तिष्ठ त्वं मानुषाशनः।
इति शप्तः शुको भीत्या प्राहागस्त्यं मुने त्वया॥१५॥
इदानीं भाषितं मेऽद्य मांसं देहीति विस्तरम्।
तथैव दत्तं भो देव किं मे शापं प्रदास्यसि॥१६॥
श्रुत्वा शुकस्य वचनं मुहूर्तं ध्यानमास्थितः।
ज्ञात्वा रक्षःकृतं सर्वं ततः प्राह शुकं सुधीः॥१७॥
तवापकारिणा सर्वं राक्षसेन कृतं त्विदम्।
अविचार्यैव मे दत्तः शापस्ते मुनिसत्तम॥१८॥
तथाऽपि मे वचोऽमोघमेवमेव भविष्यति।
राक्षसं वपुरास्थाय रावणस्य सहायकृत्॥१९॥
तिष्ठ तावद्यदा रामो दशाननवधाय हि।
आगमिष्यति लङ्कायाः समीपं वानरैः सह॥२०॥
प्रेषितो रावणेन त्वं चारो भूत्वा रघूत्तमम्।
दृष्ट्वा शापाद्विनिर्मुक्तो बोधयित्वा च रावणम्॥२१॥
तत्त्वज्ञानं ततो मुक्तः परं पदमवाप्स्यसि।
इत्युक्तोऽगस्त्यमुनिना शुको ब्राह्मणसत्तमः॥२२॥
बभूव राक्षसः सद्यो रावणं प्राप्य संस्थितः।
इदानीं चाररूपेण दृष्ट्वा रामं सहानुजम्॥२३॥
रावणं तत्त्वविज्ञानं बोधयित्वा पुनर्द्रुतम्।
पूर्ववद्ब्राह्मणो भूत्वा स्थितो वैखानसैः सह॥२४॥
ततः समागमद्वृद्धो माल्यवान् राक्षसो महान्।
बुद्धिमान्नीतिनिपुणो राज्ञो मातुः प्रियः पिता॥२५॥
प्राह तं राक्षसं वीरं प्रशान्तेनान्तरात्मना।
शृणु राजन् वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम्॥२६॥
यदा प्रविष्टा नगरीं जानकी रामवल्लभा।
तदादि पुर्यां दृश्यन्ते निमित्तानि दशानन॥२७॥
घोराणि नाशहेतूनि तानि मे वदतः शृणु।
खरस्तनितनिर्घोषा मेघा अतिभयङ्कराः॥२८॥
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वदा।
रुदन्ति देवलिङ्गानि स्विद्यन्ति प्रचलन्ति च॥२९॥
कालिका पाण्डुरैर्दन्तैः प्रहसत्यग्रतः स्थिता।
खरा गोषु प्रजायन्ते मूषका नकुलैः सह॥३०॥
मार्जारेण तु युद्ध्यन्ति पन्नगा गरुडेन तु।
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः॥३१॥
कालो गृहाणि सर्वेषां काले काले त्ववेक्षते।
एतान्यन्यानि दृश्यन्ते निमित्तान्युद्भवन्ति च॥३२॥
अतः कुलस्य रक्षार्थं शान्तिं कुरु दशानन।
सीतां सत्कृत्य सधनां रामायाऽऽशु प्रयच्छ भोः॥३३॥
रामं नारायणं विद्धि विद्वेषं त्यज राघवे।
यत्पादपोतमाश्रित्य ज्ञानिनो भवसागरम्॥३४॥
तरन्ति भक्तिपूतान्तास्ततो रामो न मानुषः।
भजस्व भक्तिभावेन रामं सर्वहृदालयम्॥३५॥
यद्यपि त्वं दुराचारो भक्त्या पूतो भविष्यसि।
मद्वाक्यं कुरु राजेन्द्र कुलकौशलहेतवे॥३६॥
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः।
न मर्षयति दुष्टात्मा कालस्य वशमागतः॥३७॥
मानवं कृपणं राममेकं शाखामृगाश्रयम्।
समर्थं मन्यसे केन हीनं पित्रा मुनिप्रियम्॥३८॥
रामेण प्रेषितो नूनं भाषसे त्वमनर्गलम्।
गच्छ वृद्धोऽसि बन्धुस्त्वं सोढं सर्वं त्वयोदितम्॥३९॥
इतो मत्कर्णपदवीं दहत्येतद्वचस्तव।
इत्युक्त्वा सर्वसचिवैः सहितः प्रस्थितस्तदा॥४०॥
प्रासादाग्रे समासीनः पश्यन् वानरसैनिकान्।
युद्धायाऽऽयोजयत्सर्वराक्षसान् समुपस्थितान्॥४१॥
रामोऽपि धनुरादाय लक्ष्मणेन समाहृतम्।
दृष्ट्वा रावणमासीनं कोपेन कलुषीकृतः॥४२॥
किरीटिनं समासीनं मन्त्रिभिः परिवेष्टितम्।
शशाङ्कार्धनिभेनैव बाणेनैकेन राघवः॥४३॥
श्वेतच्छत्रसहस्राणि किरीटदशकं तथा।
चिच्छेद निमिषार्धेन तदद्भुतमिवाभवत्॥४४॥
लज्जितो रावणस्तूर्णं विवेश भवनं स्वकम्।
आहूय राक्षसान् सर्वान् प्रहस्तप्रमुखान् खलः॥४५॥
वानरैः सह युद्धाय नोदयामास सत्वरः।
ततो भेरीमृदङ्गाद्यैः पणवानकगोमुखैः॥४६॥
महिषोष्ट्रैः खरैः सिंहैर्द्वीपिभिः कृतवाहनाः।
खड्गशूलधनुःपाशयष्टितोमरशक्तिभिः॥४७॥
लक्षिताः सर्वतो लङ्कां प्रतिद्वारमुपाययुः।
तत्पूर्वमेव रामेण नोदिता वानरर्षभाः॥४८॥
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च।
तरूंश्चोत्पाट्य विविधान् युद्धाय हरियूथपाः॥४९॥
प्रेक्षमाणा रावणस्य तान्यनीकानि भागशः।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा॥५०॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः।
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः॥५१॥
कोटीशतयुताश्चान्ये रुरुधुर्नगरं भृशम्।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः॥५२॥
रामो जयत्यतिबलो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणानुपालितः॥५३॥
इत्येवं घोषयन्तश्च समं युयुधिरेऽरिभिः।
हनूमानङ्गदश्चैव कुमुदो नील एव च॥५४॥
नलश्च शरभश्चैव मैन्दो द्विविद एव च।
जाम्बवान् दधिवक्त्रश्च केसरी तार एव च॥५५॥
अन्ये च बलिनः सर्वे यूथपाश्च प्लवङ्गमाः।
द्वाराण्युत्प्लुत्य लङ्कायाः सर्वतो रुरुधुर्भृशम्।
तदा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः॥५६॥
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः।
राक्षसाश्च तदा भीमा द्वारेभ्यः सर्वतो रुषा॥५७॥
निर्गत्य भिन्दिपालैश्च खड्गैः शूलैः परश्वधैः।
निजघ्नुर्वानरानीकं महाकाया महाबलाः॥५८॥
राक्षसांश्च तथा जघ्नुर्वानरा जितकाशिनः।
तदा बभूव समरो मांसशोणितकर्दमः॥५९॥
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः।
ते हयैश्च गजैश्चैव रथैः काञ्चनसन्निभैः॥६०॥
रक्षोव्याघ्रा युयुधिरे नादयन्तो दिशो दश।
राक्षसाश्च कपीन्द्राश्च परस्परजयैषिणः॥६१॥
राक्षसान् वानरा जघ्नुर्वानरांश्चैव राक्षसाः।
रामेण विष्णुना दृष्टा हरयो दिविजांशजाः॥६२॥
बभूवुर्बलिनो हृष्टास्तदा पीतामृता इव।
सीताभिमर्शपापेन रावणेनाभिपालितान्॥६३॥
हतश्रीकान् हतबलान् राक्षसान् जघ्नुरोजसा।
चतुर्थांशावशेषेण निहतं राक्षसं बलम्॥६४॥
स्वसैन्यं निहतं दृष्ट्वा मेघनादोऽथ दुष्टधीः।
ब्रह्मदत्तवरः श्रीमानन्तर्धानं गतोऽसुरः॥६५॥
सर्वास्त्रकुशलो व्योम्नि ब्रह्मास्त्रेण समन्ततः।
नानाविधानि शस्त्राणि वानरानीकमर्दयन्॥६६॥
ववर्ष शरजालानि तदद्भुतमिवाभवत्।
रामोऽपि मानयन् ब्राह्ममस्त्रमस्त्रविदां वरः॥६७॥
क्षणं तूष्णीमुवासाथ ददर्श पतितं बलम्।
वानराणां रघुश्रेष्ठश्चुकोपानलसन्निभः॥६८॥
चापमानय सौमित्रे ब्रह्मास्त्रेणासुरं क्षणात्।
भस्मीकरोमि मे पश्य बलमद्य रघूत्तम॥६९॥
मेघनादोऽपि तच्छ्रुत्वा रामवाक्यमतन्द्रितः।
तूर्णं जगाम नगरं मायया मायिकोऽसुरः॥७०॥
पतितं वानरानीकं दृष्ट्वा रामोऽतिदुःखितः।
उवाच मारुतिं शीघ्रं गत्वा क्षीरमहोदधिम्॥७१॥
तत्र द्रोणगिरिर्नाम दिव्यौषधिसमुद्भवः।
तमानय द्रुतं गत्वा सञ्जीवय महामते॥७२॥
वानरौघान् महासत्त्वान् कीर्तिस्ते सुस्थिरा भवेत्।
आज्ञाप्रमाणमित्युक्त्वा जगामानिलनन्दनः॥७३॥
आनीय च गिरिं सर्वान् वानरान् वानरर्षभः।
जीवयित्वा पुनस्तत्र स्थापयित्वाऽऽययौ द्रुतम्॥७४॥
पूर्ववद्भैरवं नादं वानराणां बलौघतः।
श्रुत्वा विस्मयमापन्नो रावणो वाक्यमब्रवीत्॥७५॥
राघवो मे महान् शत्रुः प्राप्तो देवविनिर्मितः।
हन्तुं तं समरे शीघ्रं गच्छन्तु मम यूथपाः॥७६॥
मन्त्रिणो बान्धवाः शूरा ये च मत्प्रियकाङ्क्षिणः।
सर्वे गच्छन्तु युद्धाय त्वरितं मम शासनात्॥७७॥
ये न गच्छन्ति युद्धाय भीरवः प्राणविप्लवात्।
तान् हनिष्याम्यहं सर्वान् मच्छासनपराङ्मुखान्॥७८॥
तच्छ्रुत्वा भयसन्त्रस्ता निर्जग्मू रणकोविदाः।
अतिकायः प्रहस्तश्च महानादमहोदरौ॥७९॥
देवशत्रुर्निकुम्भश्च देवान्तकनरान्तकौ।
अपरे बलिनः सर्वे ययुर्युद्धाय वानरैः॥८०॥
एते चान्ये च बहवः शूराः शतसहस्रशः।
प्रविश्य वानरं सैन्यं ममन्थुर्बलदर्पिताः॥८१॥
भुशुण्डीभिन्दिपालैश्च बाणैः खड्गैः परश्वधैः।
अन्यैश्च विविधैरस्त्रैर्निजघ्नुर्हरियूथपान्॥८२॥
ते पादपैः पर्वताग्रैर्नखदंष्ट्रैश्च मुष्टिभिः।
प्राणैर्विमोचयामासुः सर्वराक्षसयूथपान्॥८३॥
रामेण निहताः केचित्सुग्रीवेण तथाऽपरे।
हनूमता चाङ्गदेन लक्ष्मणेन महात्मना।
यूथपैर्वानराणां ते निहताः सर्वराक्षसाः॥८४॥
रामतेजः समाविश्य वानरा बलिनोऽभवन्।
रामशक्तिविहीनानामेवं शक्तिः कुतो भवेत्॥८५॥
सर्वेश्वरः सर्वमयो विधाता
मायामनुष्यत्वविडम्बनेन।
सदा चिदानन्दमयोऽपि रामो
युद्धादिलीलां वितनोति मायाम्॥८६॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चमः सर्गः॥