चतुर्थः सर्गः

श्री-महादेव उवाच

सेतुमारभमाणस्तु तत्र रामेश्वरं शिवम्।
संस्थाप्य पूजयित्वाऽऽह रामो लोकहिताय च॥१॥
प्रणमेत्सेतुबन्धं यो दृष्ट्वा रामेश्वरं शिवम्।
ब्रह्महत्यादिपापेभ्यो मुच्यते मदनुग्रहात्॥२॥
सेतुबन्धे नरः स्नात्वा दृष्ट्वा रामेश्वरं हरम्।
सङ्कल्पनियतो भूत्वा गत्वा वाराणसीं नरः॥३॥
आनीय गङ्गासलिलं रामेशमभिषिच्य च।
समुद्रे क्षिप्ततद् भारो ब्रह्म प्राप्नोत्यसंशयम्॥४॥
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश।
द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः॥५॥
तृतीयेन तथा चाह्ना योजनान्येकविंशतिः।
चतुर्थेन तथा चाह्ना द्वाविंशतिरिति श्रुतम्॥६॥
पञ्चमेन त्रयोविंशद्योजनानि समन्ततः।
बबन्ध सागरे सेतुं नलो वानरसत्तमः॥७॥
तेनैव जग्मुः कपयो योजनानां शतं द्रुतम्।
असङ्ख्याताः सुवेलाद्रिं रुरुधुः प्लवगोत्तमाः॥८॥
आरुह्य मारुतिं रामो लक्ष्मणोऽप्यङ्गदं तथा।
दिदृक्षू राघवो लङ्कामारुरोहाचलं महत्॥९॥
दृष्ट्वा लङ्कां सुविस्तीर्णां नानाचित्रध्वजाकुलाम्।
चित्रप्रासादसम्बाधां स्वर्णप्राकारतोरणाम्॥१०॥
परिखाभिः शतघ्नीभिः सङ्क्रमैश्च विराजिताम्।
प्रासादोपरि विस्तीर्णप्रदेशे दशकन्धरः॥११॥
मन्त्रिभिः सहितो वीरैः किरीटदशकोज्ज्वलः।
नीलाद्रिशिखराकारः कालमेघसमप्रभः॥१२॥
रत्नदण्डैः सितच्छत्रैरनेकैः परिशोभितः।
एतस्मिन्नन्तरे बद्धो मुक्तो रामेण वै शुकः॥१३॥
वानरैस्ताडितः सम्यग् दशाननमुपागतः।
प्रहसन् रावणः प्राह पीडितः किं परैः शुक॥१४॥
रावणस्य वचः श्रुत्वा शुको वचनमब्रवीत्।
सागरस्योत्तरे तीरेऽब्रवं ते वचनं यथा।
तत उत्प्लुत्य कपयो गृहीत्वा मां क्षणात्ततः॥१५॥
मुष्टिभिर्नखदन्तैश्च हन्तुं लोप्तुं प्रचक्रमुः।
ततो मां राम रक्षेति क्रोशन्तं रघुपुङ्गवः॥१६॥
विसृज्यतामिति प्राह विसृष्टोऽहं कपीश्वरैः।
ततोऽहमागतो भीत्या दृष्ट्वा तद् वानरं बलम्॥१७॥
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च।
नैतयोर्विद्यते सन्धिर्देवदानवयोरिव॥१८॥
पुरप्राकारमायान्ति क्षिप्रमेकतरं कुरु।
सीतां वाऽस्मै प्रयच्छाऽऽशु युद्धं वा दीयतां प्रभो॥१९॥
मामाह रामस्त्वं ब्रूहि रावणं मद्वचः शुक।
यद्बलं च समाश्रित्य सीतां मे हृतवानसि॥२०॥
तद्दर्शय यथाकामं ससैन्यः सहबान्धवः।
श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम्॥२१॥
राक्षसं च बलं पश्य शरैर्विध्वंसितं मया।
घोररोषमहं मोक्ष्ये बलं धारय रावण॥२२॥
इत्युक्त्वोपररामाथ रामः कमललोचनः।
एकस्थानगता यत्र चत्वारः पुरुषर्षभाः॥२३॥
श्रीरामो लक्ष्मणश्चैव सुग्रीवश्च विभीषणः।
एत एव समर्थास्ते लङ्कां नाशयितुं प्रभो॥२४॥
उत्पाट्य भस्मीकरणे सर्वे तिष्ठन्तु वानराः।
तस्य यादृग्बलं दृष्टं रूपं प्रहरणानि च॥२५॥
वधिष्यति पुरं सर्वमेकस्तिष्ठन्तु ते त्रयः।
पश्य वानरसेनां तामसङ्ख्यातां प्रपूरिताम्॥२६॥
गर्जन्ति वानरास्तत्र पश्य पर्वतसन्निभाः।
न शक्यास्ते गणयितुं प्राधान्येन ब्रवीमि ते॥२७॥
एष योऽभिमुखो लङ्कां नदंस्तिष्ठति वानरः।
यूथपानां सहस्राणां शतेन परिवारितः॥२८॥
सुग्रीवसेनाधिपतिर्नीलो नामाग्निनन्दनः।
एष पर्वतशृङ्गाभः पद्मकिञ्जल्कसन्निभः॥२९॥
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः।
युवराजोऽङ्गदो नाम वालिपुत्रोऽतिवीर्यवान्॥३०॥
येन दृष्टा जनकजा रामस्यातीववल्लभा।
हनूमानेष विख्यातो हतो येन तवाऽऽत्मजः॥३१॥
श्वेतो रजतसङ्काशो महाबुद्धिपराक्रमः।
तूर्णं सुग्रीवमागत्य पुनर्गच्छति वानरः॥३२॥
यस्त्वेष सिंहसङ्काशः पश्यत्यतुलविक्रमः।
रम्भो नाम महासत्त्वो लङ्कां नाशयितुं क्षमः॥३३॥
एष पश्यति वै लङ्कां दिधक्षन्निव वानरः।
शरभो नाम राजेन्द्र कोटियूथपनायकः॥३४॥
पनसश्च महावीर्यो मैन्दश्च द्विविदस्तथा।
नलश्च सेतुकर्ताऽसौ विश्वकर्मसुतो बली॥३५॥
वानराणां वर्णने वा सङ्ख्याने वा क ईश्वरः।
शूराः सर्वे महाकायाः सर्वे युद्धाभिकाङ्क्षिणः॥३६॥
शक्ताः सर्वे चूर्णयितुं लङ्कां रक्षोगणैः सह।
एतेषां बलसङ्ख्यानं प्रत्येकं वच्मि ते शृणु॥३७॥
एषां कोटिसहस्राणि नव पञ्च च सप्त च।
तथा शङ्खसहस्राणि तथाऽर्बुदशतानि च॥३८॥
सुग्रीवसचिवानां ते बलमेतत्प्रकीर्तितम्।
अन्येषां तु बलं नाहं वक्तुं शक्तोऽस्मि रावण॥३९॥
रामो न मानुषः साक्षादादिनारायणः परः।
सीता साक्षाज्जगद्धेतुश्चिच्छक्तिर्जगदात्मिका॥४०॥
ताभ्यामेव समुत्पन्नं जगत्स्थावरजङ्गमम्।
तस्माद्रामश्च सीता च जगतस्तस्थुषश्च तौ॥४१॥
पितरौ पृथिवीपाल तयोर्वैरी कथं भवेत्।
अजानता त्वयाऽऽनीता जगन्मातैव जानकी॥४२॥
क्षणनाशिनि संसारे शरीरे क्षणभङ्गुरे।
पञ्चभूतात्मके राजंश्चतुर्विंशतितत्त्वके॥४३॥
मलमांसास्थिदुर्गन्धभूयिष्ठेऽहङ्कृतालये।
कैवास्था व्यतिरिक्तस्य काये तव जडात्मके॥४४॥
यत्कृते ब्रह्महत्यादिपातकानि कृतानि च।
भोगभोक्ता तु यो देहः स देहोऽत्र पतिष्यति॥४५॥
पुण्यपापे समायातो जीवेन सुखदुःखयोः।
कारणे देहयोगादिनाऽऽत्मनः कुरुतोऽनिशम्॥४६॥
यावद्देहोऽस्मि कर्ताऽस्मीत्यात्माऽहं कुरुतेऽवशः।
अध्यासात्तावदेव स्याज्जन्मनाशादिसम्भवः॥४७॥
तस्मात्त्वं त्यज देहादावभिमानं महामते।
आत्मातिऽनिर्मलः शुद्धो विज्ञानात्माऽचलोऽव्ययः॥४८॥
स्वाज्ञानवशतो बन्धं प्रतिपद्य विमुह्यति।
तस्मात्त्वं शुद्धभावेन ज्ञात्वाऽऽत्मानं सदा स्मर॥४९॥
विरतिं भज सर्वत्र पुत्रदारगृहादिषु।
निरयेष्वपि भोगः स्याच्छ्वशूकरतनावपि॥५०॥
देहं लब्ध्वा विवेकाढ्यं द्विजत्वं च विशेषतः।
तत्रापि भारते वर्षे कर्मभूमौ सुदुर्लभम्॥५१॥
को विद्वानात्मसात्कृत्वा देहं भोगानुगो भवेत्।
अतस्त्वं ब्राह्मणो भूत्वा पौलस्त्यतनयश्च सन्॥५२॥
अज्ञानीव सदा भोगाननुधावसि किं मुधा।
इतः परं वा त्यक्त्वा त्वं सर्वसङ्गं समाश्रय॥५३॥
राममेव परात्मनं भक्तिभावेन सर्वदा।
सीतां समर्प्य रामाय तत्पादानुचरो भव॥५४॥
विमुक्तः सर्वपापेभ्यो विष्णुलोकं प्रयास्यसि।
नो चेद्गमिष्यसेऽधोऽधः पुनरावृत्तिवर्जितः।
अङ्गीकुरुष्व मद्वाक्यं हितमेव वदामि ते॥५५॥
सत्सङ्गतिं कुरु भजस्व हरिं शरण्यं
श्रीराघवं मरकतोपलकान्तिकान्तम्।
सीतासमेतमनिशं धृतचापबाणं
सुग्रीवलक्ष्मणविभीषणसेविताङ्घ्रिम्॥५६॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्थः सर्गः॥