द्वितीयः सर्गः
श्री-महादेव उवाच
लङ्कायां रावणो दृष्ट्वा कृतं कर्म हनूमता।
दुष्करं दैवतैर्वाऽपि ह्रिया किञ्चिदवाङ्मुखः॥१॥
आहूय मन्त्रिणः सर्वानिदं वचनमब्रवीत्।
हनूमता कृतं कर्म भवद्भिर्दृष्टमेव तत्॥२॥
प्रविश्य लङ्कां दुर्धर्षां दृष्ट्वा सीतां दुरासदाम्।
हत्वा च राक्षसान् वीरानक्षं मन्दोदरीसुतम्॥३॥
दग्ध्वा लङ्कामशेषेण लङ्घयित्वा च सागरम्।
युष्मान् सर्वानतिक्रम्य स्वस्थोऽगात्पुनरेव सः॥४॥
किं कर्तव्यमितोऽस्माभिर्यूयं मन्त्रविशारदाः।
मन्त्रयध्वं प्रयत्नेन यत्कृतं मे हितं भवेत्॥५॥
रावणस्य वचः श्रुत्वा राक्षसास्तमथाब्रुवन्।
देव शङ्का कुतो रामात् तव लोकजितो रणे॥६॥
इन्द्रस्तु बद्ध्वा निक्षिप्तः पुत्रेण तव पत्तने।
जित्वा कुबेरमानीय पुष्पकं भुज्यते त्वया॥७॥
यमो जितः कालदण्डाद्भयं नाभूत् तव प्रभो।
वरुणो हुङ्कृतेनैव जितः सर्वेऽपि राक्षसाः॥८॥
मयो महासुरो भीत्या कन्यां दत्त्वा स्वयं तव।
त्वद्वशे वर्ततेऽद्यापि किमुतान्ये महासुराः॥९॥
हनूमद्धर्षणं यत्तु तदवज्ञाकृतं च नः।
वानरोऽयं किमस्माकमस्मिन् पौरुषदर्शने॥१०॥
इत्युपेक्षितमस्माभिर्धर्षणं तेन किं भवेत्।
वयं प्रमत्ताः किं तेन वञ्चिताः स्मो हनूमता॥११॥
जानीमो यदि तं सर्वे कथं जीवन् गमिष्यति।
आज्ञापय जगत्कृत्स्नमवानरममानुषम्॥१२॥
कृत्वाऽऽयास्यामहे सर्वे प्रत्येकं वा नियोजय।
कुम्भकर्णस्तदा प्राह रावणं राक्षसेश्वरम्॥१३॥
आरब्धं यत् त्वया कर्म स्वात्मनाशाय केवलम्।
न दृष्टोऽसि तदा भाग्यात्त्वं रामेण महात्मना॥१४॥
यदि पश्यति रामस्त्वां जीवन्नायासि रावण।
रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः॥१५॥
सीता भगवती लक्ष्मी रामपत्नी यशस्विनी।
राक्षसानां विनाशाय त्वयाऽऽनीता सुमध्यमा॥१६॥
विषपिण्डमिवागीर्य महामीनो यथा तथा।
आनीता जानकी पश्चात् त्वया किं वा भविष्यति॥१७॥
यद्यप्यनुचितं कर्म त्वया कृतमजानता।
सर्वं समं करिष्यामि स्वस्थचित्तो भव प्रभो॥१८॥
कुम्भकर्णवचः श्रुत्वा वाक्यमिन्द्रजिदब्रवीत्।
देहि देव ममानुज्ञां हत्वा रामं सलक्ष्मणम्।
सुग्रीवं वानरांश्चैव पुनर्यास्यामि तेऽन्तिकम्॥१९॥
तत्राऽऽगतो भागवतप्रधानो
विभीषणो बुद्धिमतां वरिष्ठः।
श्रीरामपादद्वय एकतानः
प्रणम्य देवारिमुपोपविष्टः॥२०॥
विलोक्य कुम्भश्रवणादिदैत्यान्
मत्तप्रमत्तानतिविस्मयेन।
विलोक्य कामातुरमप्रमत्तो
दशाननं प्राह विशुद्धबुद्धिः॥२१॥
न कुम्भकर्णेन्द्रजितौ च राजन्
तथा महापार्श्वमहोदरौ तौ।
निकुम्भकुम्भौ च तथाऽतिकायः
स्थातुं न शक्ता युधि राघवस्य॥२२॥
सीताभिधानेन महाग्रहेण
ग्रस्तोऽसि राजन् न च ते विमोक्षः।
तामेव सत्कृत्य महाधनेन
दत्त्वाऽभिरामाय सुखी भव त्वम्॥२३॥
यावन्न रामस्य शिताः शिलीमुखा
लङ्कामभिव्याप्य शिरांसि रक्षसाम्।
छिन्दन्ति तावद् रघुनायकस्य भो-
स्तां जानकीं त्वं प्रतिदातुमर्हसि॥२४॥
यावन्नगाभाः कपयो महाबला
हरीन्द्रतुल्या नखदंष्ट्रयोधिनः।
लङ्कां समाक्रम्य विनाशयन्ति ते
तावद्द्रुतं देहि रघूत्तमाय ताम्॥२५॥
जीवन्न रामेण विमोक्ष्यसे त्वं
गुप्तः सुरेन्द्रैरपि शङ्करेण।
न देवराजाङ्कगतो न मृत्योः
पाताललोकानपि सम्प्रविष्टः॥२६॥
शुभं हितं पवित्रं च विभीषणवचः खलः।
प्रतिजग्राह नैवासौ म्रियमाण इवौषधम्॥२७॥
कालेन नोदितो दैत्यो विभीषणमथाब्रवीत्।
मद्दत्तभोगैः पुष्टाङ्गो मत्समीपे वसन्नपि॥२८॥
प्रतीपमाचरत्येष ममैव हितकारिणः।
मित्रभावेन शत्रुर्मे जातो नास्त्यत्र संशयः॥२९॥
अनार्येण कृतघ्नेन सङ्गतिर्मे न युज्यते।
विनाशमभिकाङ्क्षन्ति ज्ञातीनां ज्ञातयः सदा॥३०॥
योऽन्यस्त्वेवंविधं ब्रूयाद् वाक्यमेकं निशाचरः।
हन्मि तस्मिन् क्षणे एव धिक् त्वां रक्षःकुलाधमम्॥३१॥
रावणेनैवमुक्तः सन् परुषं स विभीषणः।
उत्पपात सभामध्याद्गदापाणिर्महाबलः॥३२॥
चतुर्भिर्मन्त्रिभिः सार्धं गगनस्थोऽब्रवीद् वचः।
क्रोधेन महताऽऽविष्टो रावणं दशकन्धरम्।
मा विनाशमुपैहि त्वं प्रियवादिनमेव माम्॥३३॥
धिक्करोषि तथाऽपि त्वं ज्येष्ठो भ्राता पितुः समः।
कालो राघवरूपेण जातो दशरथालये॥३४॥
काली सीताभिधानेन जाता जनकनन्दिनी।
तावुभावागतावत्र भूर्मेभारापनुत्तये॥३५॥
तेनैव प्रेरितस्त्वं तु न शृणोषि हितं मम।
श्रीरामः प्रकृतेः साक्षात्परस्तात्सर्वदा स्थितः॥३६॥
बहिरन्तश्च भूतानां समः सर्वत्र संस्थितः।
नामरूपादिभेदेन तत्तन्मय इवामलः॥३७॥
यथा नानाप्रकारेषु वृक्षेष्वेको महानलः।
तत्तदाकृतिभेदेन भिद्यतेऽज्ञानचक्षुषाम्॥३८॥
पञ्चकोशादिभेदेन तत्तन्मय इवाबभौ।
नीलपीतादियोगेन निर्मलः स्फटिको यथा॥३९॥
स एव नित्यमुक्तोऽपि स्वमायागुणबिम्बितः।
कालः प्रधानं पुरुषोऽव्यक्तं चेति चतुर्विधः॥४०॥
प्रधानपुरुषाभ्यां स जगत्कृत्स्नं सृजत्यजः।
कालरूपेण कलनां जगतः कुरुतेऽव्ययः॥४१॥
कालरूपी स भगवान् रामरूपेण मायया
ब्रह्मणा प्रार्थितो देवस्त्वद्वधार्थमिहागतः।
तदन्यथा कथं कुर्यात्सत्यसङ्कल्प ईश्वरः॥४२॥
हनिष्यति त्वां रामस्तु सपुत्रबलवाहनम्।
हन्यमानं न शक्नोमि द्रष्टुं रामेण रावण॥४३॥
त्वां राक्षसकुलं कृत्स्नं ततो गच्छामि राघवम्।
मयि याते सुखीभूत्वा रमस्व भवने चिरम्॥४४॥
विभीषणो रावणवाक्यतः क्षणा-
द्विसृज्य सर्वं सपरिच्छदं गृहम्।
जगाम रामस्य पदारविन्दयोः
सेवाभिकाङ्क्षी परिपूर्णमानसः॥४५॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वितीयः सर्गः॥
❀