प्रथमः सर्गः

श्री-महादेव उवाच

यथावद्भाषितं वाक्यं श्रुत्वा रामो हनूमतः।
उवाचानन्तरं वाक्यं हर्षेण महताऽऽवृतः॥१॥
कार्यं कृतं हनुमता देवैरपि सुदुष्करम्।
मनसाऽपि यदन्येन स्मर्तुं शक्यं न भूतले॥२॥
शतयोजनविस्तीर्णं लङ्घयेत्कः पयोनिधिम्।
लङ्कां च राक्षसैर्गुप्तां को वा धर्षयितुं क्षमः॥३॥
भृत्यकार्यं हनुमता कृतं सर्वमशेषतः।
सुग्रीवस्येदृशो लोके न भूतो न भविष्यति॥४॥
अहं च रघुवंशश्च लक्ष्मणश्च कपीश्वरः।
जानक्या दर्शनेनाद्य रक्षिताः स्मो हनूमता॥५॥
सर्वथा सुकृतं कार्यं जानक्याः परिमार्गणम्।
समुद्रं मनसा स्मृत्वा सीदतीव मनो मम॥६॥
कथं नक्रझषाकीर्णं समुद्रं शतयोजनम्।
लङ्घयित्वा रिपुं हन्यां कथं द्रक्ष्यामि जानकीम्॥७॥
श्रुत्वा तु रामवचनं सुग्रीवः प्राह राघवम्।
समुद्रं लङ्घयिष्यामो महानक्रझषाकुलम्॥८॥
लङ्कां च विधमिष्यामो हनिष्यामोऽद्य रावणम्।
चिन्तां त्यज रघुश्रेष्ठ चिन्ता कार्यविनाशिनी॥९॥
एतान् पश्य महासत्त्वान् शूरान् वानरपुङ्गवान्।
त्वत्प्रियार्थं समुद्युक्तान् प्रवेष्टुमपि पावकम्॥१०॥
समुद्रतरणे बुद्धिं कुरुष्व प्रथमं ततः।
दृष्ट्वा लङ्कां दशग्रीवो हत इत्येव मन्महे॥११॥
नहि पश्याम्यहं कञ्चित् त्रिषु लोकेषु राघव।
गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे॥१२॥
सर्वथा नो जयो राम भविष्यति न संशयः।
निमित्तानि च पश्यामि तथा भूतानि सर्वशः॥१३॥
सुग्रीववचनं श्रुत्वा भक्तिवीर्यसमन्वितम्।
अङ्गीकृत्याब्रवीद् रामो हनूमन्तं पुरःस्थितम्॥१४॥
येन केन प्रकारेण लङ्घयामो महार्णवम्।
लङ्कास्वरूपं मे ब्रूहि दुःसाध्यं देवदानवैः॥१५॥
ज्ञात्वा तस्य प्रतीकारं करिष्यामि कपीश्वर।
श्रुत्वा रामस्य वचनं हनूमान् विनयान्वितः॥१६॥
उवाच प्राञ्जलिर्देव यथा दृष्टं ब्रवीमि ते।
लङ्का दिव्या पुरी देव त्रिकूटशिखरे स्थिता॥१७॥
स्वर्णप्राकारसहिता स्वर्णाट्टालकसंयुता।
परिखाभिः परिवृता पूर्णाभिर्निर्मलोदकैः॥१८॥
नानोपवनशोभाढ्या दिव्यवापीभिरावृता।
गृहैर्विचित्रशोभाढ्यैर्मणिस्तम्भमयैः शुभैः॥१९॥
पश्चिमद्वारमासाद्य गजवाहाः सहस्रशः।
उत्तरे द्वारि तिष्ठन्ति साश्ववाहाः सपत्तयः॥२०॥
तिष्ठन्त्यर्बुदसङ्ख्याकाः प्राच्यामपि तथैव च।
रक्षिणो राक्षसा वीरा द्वारं दक्षिणमाश्रिताः॥२१॥
मध्यकक्षेऽप्यसङ्ख्याता गजाश्वरथपत्तयः।
रक्षयन्ति सदा लङ्कां नानास्त्रकुशलाः प्रभो॥२२॥
सङ्क्रमैर्विविधैर्लङ्का शतघ्नीभिश्च संयुता।
एवं स्थितेऽपि देवेश शृणु मे तत्र चेष्टितम्॥२३॥
दशाननबलौघस्य चतुर्थांशो मया हतः।
दग्ध्वा लङ्कां पुरीं स्वर्णप्रासादो धर्षितो मया॥२४॥
शतघ्न्यः सङ्क्रमाश्चैव नाशिता मे रघूत्तम।
देव त्वद्दर्शनादेव लङ्का भस्मीकृता भवेत्॥२५॥
प्रस्थानं कुरु देवेश गच्छामो लवणाम्बुधेः।
तीरं सह महावीरैर्वानरौघैः समन्ततः॥२६॥
श्रुत्वा हनूमतो वाक्यमुवाच रघुनन्दनः।
सुग्रीव सैनिकान् सर्वान् प्रस्थानायाभिनोदय॥२७॥
इदानीमेव विजयो मुहूर्तः परिवर्तते।
अस्मिन्मुहूर्ते गत्वाऽहं लङ्कां राक्षससङ्कुलाम्॥२८॥
सप्राकारां सुदुर्धर्षां नाशयामि सरावणाम्।
आनेष्यामि च सीतां मे दक्षिणाक्षि स्फुरत्यधः॥२९॥
प्रयातु वाहिनी सर्वा वानराणां तरस्विनाम्।
रक्षन्तु यूथपाः सेनामग्रे पृष्ठे च पार्श्वयोः॥३०॥
हनूमन्तमथारुह्य गच्छाम्यग्रेऽङ्गदं ततः।
आरुह्य लक्ष्मणो यातु सुग्रीव त्वं मया सह॥३१॥
गजो गवाक्षो गवयो मैन्दो द्विविद एव च।
नलो नीलः सुषेणश्च जाम्बवांश्च तथाऽपरे॥३२॥
सर्वे गच्छन्तु सर्वत्र सेनायाः शत्रुघातिनः।
इत्याज्ञाप्य हरीन् रामः प्रतस्थे सहलक्ष्मणः॥३३॥
सुग्रीवसहितो हर्षात्सेनामध्यगतो विभुः।
वारणेन्द्रनिभाः सर्वे वानराः कामरूपिणः॥३४॥
क्ष्वेलन्तः परिगर्जन्तो जग्मुस्ते दक्षिणां दिशम्।
भक्षयन्तो ययुः सर्वे फलानि च मधूनि च॥३५॥
ब्रुवन्तो राघवस्याग्रे हनिष्यामोऽद्य रावणम्।
एवं ते वानरश्रेष्ठा गच्छन्त्यतुलविक्रमाः॥३६॥
हरिभ्यामुह्यमानौ तौ शुशुभाते रघूत्तमौ।
नक्षत्रैः सेवितौ यद्वच्चन्द्रसूर्याविवाम्बरे॥३७॥
आवृत्य पृथिवीं कृत्स्नां जगाम महती चमूः।
प्रस्फोटयन्तः पुच्छाग्रानुद्वहन्तश्च पादपान्॥३८॥
शैलानारोहयन्तश्च जग्मुर्मारुतवेगतः।
असङ्ख्याताश्च सर्वत्र वानराः परिपूरिताः॥३९॥
हृष्टास्ते जग्मुरत्यर्थं रामेण परिपालिताः।
गता चमूर्दिवारात्रं क्वचिन्नासज्जत क्षणम्॥४०॥
काननानि विचित्राणि पश्यन्मलयसह्ययोः।
ते सह्यं समतिक्रम्य मलयं च तथा गिरिम्॥४१॥
आययुश्चानुपूर्व्येण समुद्रं भीमनिःस्वनम्।
अवतीर्य हनूमन्तं रामः सुग्रीवसंयुतः॥४२॥
सलिलाभ्याशमासाद्य रामो वचनमब्रवीत्।
आगताः स्मो वयं सर्वे समुद्रं मकरालयम्॥४३॥
इतो गन्तुमशक्यं नो निरुपायेन वानराः।
अत्र सेनानिवेशोऽस्तु मन्त्रयामोऽस्य तारणे॥४४॥
श्रुत्वा रामस्य वचनं सुग्रीवः सागरान्तिके।
सेनां न्यवेशयत् क्षिप्रं रक्षितां कपिकुञ्जरैः॥४५॥
ते पश्यन्तो विषेदुस्तं सागरं भीमदर्शनम्।
महोन्नततरङ्गाढ्यं भीमनक्रभयङ्करम्॥४६॥
अगाधं गगनाकारं सागरं वीक्ष्य दुःखिताः।
तरिष्यामः कथं घोरं सागरं वरुणालयम्॥४७॥
हन्तव्योऽस्माभिरद्यैव रावणो राक्षसाधमः।
इति चिन्ताकुलाः सर्वे रामपार्श्वे व्यवस्थिताः॥४८॥
रामः सीतामनुस्मृत्य दुःखेन महताऽऽवृतः।
विलप्य जानकीं सीतां बहुधा कार्यमानुषः॥४९॥
अद्वितीयश्चिदात्मैकः परमात्मा सनातनः।
यस्तु जानाति रामस्य स्वरूपं तत्त्वतो जनः॥५०॥
तं न स्पृशति दुःखादि किमुतानन्दमव्ययम्।
दुःखहर्षभयक्रोधलोभमोहमदादयः॥५१॥
अज्ञानलिङ्गान्येतानि कुतः सन्ति चिदात्मनि।
देहाभिमानिनो दुःखं न देहस्य चिदात्मनः॥५२॥
सम्प्रसादे द्वयाभावात्सुखमात्रं हि दृश्यते।
बुद्ध्याद्यभावात्संशुद्धे दुःखं तत्र न दृश्यते।
अतो दुःखादिकं सर्वं बुद्धेरेव न संशयः॥५३॥
रामः परात्मा पुरुषः पुराणो
नित्योदितो नित्यसुखो निरीहः।
तथाऽपि मायागुणसङ्गतोऽसौ
सुखीव दुःखीव विभाव्यतेऽबुधैः॥५४॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे प्रथमः सर्गः॥