नवमः सर्गः
श्री-महादेव उवाच
लक्ष्मणं तु परित्यज्य रामो दुःखसमन्वितः।
मन्त्रिणो नैगमांश्चैव वसिष्ठं चेदमब्रवीत्॥१॥
अभिषेक्ष्यामि भरतमधिराज्ये महामतिम्।
अद्य चाहं गमिष्यामि लक्ष्मणस्य पदानुगः॥२॥
एवमुक्ते रघुश्रेष्ठे पौरजानपदास्तदा।
द्रुमा इवच्छिन्नमूला दुःखार्ताः पतिता भुवि॥३॥
मूर्च्छितो भरतो वाऽपि श्रुत्वा रामाभिभाषितम्।
गर्हयामास राज्यं स प्राहेदं रामसन्निधौ॥४॥
सत्येन च शपे नाहं त्वां विना दिवि वा भुवि।
काङ्क्षे राज्यं रघुश्रेष्ठ शपे त्वत्पादयोः प्रभो॥५॥
इमौ कुशलवौ राजन्नभिषिञ्चस्व राघव।
कोसलेषु कुशं वीरमुत्तरेषु लवं तथा॥६॥
गच्छन्तु दूतास्त्वरितं शत्रुघ्नानयनाय हि।
अस्माकमेतद्गमनं स्वर्वासाय शृणोतु सः॥७॥
भरतेनोदितं श्रुत्वा पतितास्ताः समीक्ष्य तम्।
प्रजाश्च भयसंविग्ना रामविश्लेषकातराः॥८॥
वसिष्ठो भगवान् राममुवाच सदयं वचः।
पश्य ताताऽऽदरात्सर्वाः पतिता भूतले प्रजाः॥९॥
तासां भावानुगं राम प्रसादं कर्तुमर्हसि।
श्रुत्वा वसिष्ठवचनं ताः समुत्थाप्य पूज्य च॥१०॥
सस्नेहो रघुनाथस्ताः किं करोमीति चाब्रवीत्।
ततः प्राञ्जलयः प्रोचुः प्रजा भक्त्या रघूद्वहम्॥११॥
गन्तुमिच्छसि यत्र त्वमनुगच्छामहे वयम्।
अस्माकमेषा परमा प्रीतिर्धर्मोऽयमक्षयः॥१२॥
तवानुगमने राम हृद्गता नो दृढा मतिः।
पुत्रदारादिभिः सार्धमनुयामोऽद्य सर्वथा॥१३॥
तपोवनं वा स्वर्गं वा पुरं वा रघुनन्दन।
ज्ञात्वा तेषां मनोदार्ढ्यं कालस्य वचनं तथा॥१४॥
भक्तं पौरजनं चैव बाढमित्याह राघवः।
कृत्वैव निश्चयं रामस्तस्मिन्नेवाहनि प्रभुः॥१५॥
प्रस्थापयामास च तौ रामभद्रः कुशीलवौ।
अष्टौ रथसहस्राणि सहस्रं चैव दन्तिनाम्॥१६॥
षष्टिं चाश्वसहस्राणामेकैकस्मै ददौ बलम्।
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ॥१७॥
अभिवाद्य गतौ रामं कृच्छ्रेण तु कुशीलवौ।
शत्रुघ्नानयने दूतान् प्रेषयामास राघवः॥१८॥
ते दूतास्त्वरितं गत्वा शत्रुघ्नाय न्यवेदयन्।
कालस्याऽऽगमनं पश्चादत्रिपुत्रस्य चेष्टितम्॥१९॥
लक्ष्मणस्य च निर्याणं प्रतिज्ञां राघवस्य च।
पुत्राभिषेचनं चैव सर्वं रामचिकीर्षितम्॥२०॥
श्रुत्वा तद्दूतवचनं शत्रुघ्नः कुलनाशनम्।
व्यथितोऽपि धृतिं लब्ध्वा पुत्रावाहूय सत्वरः।
अभिषिच्य सुबाहुं वै मथुरायां महाबलः॥२१॥
यूपकेतुं च विदिशानगरे शत्रुसूदनः।
अयोध्यां त्वरितं प्रागात्स्वयं रामदिदृक्षया॥२२॥
ददर्श च महात्मानं तेजसा ज्वलनप्रभम्।
दुकूलयुगसंवीतं ऋषिभिश्चाक्षयैर्वृतम्॥२३॥
अभिवाद्य रमानाथं शत्रुघ्नो रघुपुङ्गवम्।
प्राञ्जलिर्धर्मसहितं वाक्यं प्राह महामतिः॥२४॥
अभिषिच्य सुतौ तत्र राज्ये राजीवलोचन।
तवानुगमने राजन् विद्धि मां कृतनिश्चयम्॥२५॥
त्यक्तुं नार्हसि मां वीर भक्तं तव विशेषतः।
शत्रुघ्नस्य दृढां बुद्धिं विज्ञाय रघुनन्दनः॥२६॥
सज्जीभवतु मध्याह्ने भवानित्यब्रवीद् वचः।
अथ क्षणात्समुत्पेतुर्वानराः कामरूपिणः॥२७॥
ऋक्षाश्च राक्षसाश्चैव गोपुच्छाश्च सहस्रशः।
ऋषीणां देवतानां च पुत्रा रामस्य निर्गमम्॥२८॥
श्रुत्वा प्रोचू रघुश्रेष्ठं सर्वे वानरराक्षसाः।
तवानुगमने विद्धि निश्चितार्थान् हि नः प्रभो॥२९॥
एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः।
यथावदभिवाद्याह राघवं भक्तवत्सलम्॥३०॥
अभिषिच्याङ्गदं राज्ये आगतोऽस्मि महाबलम्।
तवानुगमने राम विद्धि मां कृतनिश्चयम्॥३१॥
श्रुत्वा तेषां दृढं वाक्यं ऋक्षवानररक्षसाम्।
विभीषणमुवाचेदं वचनं मृदु सादरम्॥३२॥
धरिष्यति धरा यावत्प्रजास्तावत्प्रशाधि मे।
वचनाद्राक्षसं राज्यं शापितोऽसि ममोपरि॥३३॥
न किञ्चिदुत्तरं वाच्यं त्वया मत्कृतकारणात्।
एवं विभीषणं तूक्त्वा हनूमन्तमथाब्रवीत्॥३४॥
मारुते त्वं चिरञ्जीव ममाज्ञां मा मृषा कृथाः।
जाम्बवन्तमथ प्राह तिष्ठ त्वं द्वापरान्तरे॥३५॥
मया सार्धं भवेद्युद्धं यत्किञ्चित्कारणान्तरे।
ततस्तान् राघवः प्राह ऋक्षराक्षसवानरान्।
सर्वानेव मया सार्धं प्रयातेति दयान्वितः॥३६॥
ततः प्रभाते रघुवंशनाथो
विशालवक्षाः सितकञ्जनेत्रः।
पुरोधसं प्राह वसिष्ठमार्यं
यान्त्वग्निहोत्राणि पुरो गुरो मे॥३७॥
ततो वसिष्ठोऽपि चकार सर्वं
प्रास्थानिकं कर्म महद्विधानात्।
क्षौमाम्बरो दर्भपवित्रपाणिः
महाप्रयाणाय गृहीतबुद्धिः॥३८॥
निष्क्रम्य रामो नगरात्सिताभ्रा-
च्छशीव यातः शशिकोटिकान्तिः।
रामस्य सव्ये सितपद्महस्ता
पद्मा गता पद्मविशालनेत्रा॥३९॥
पार्श्वेऽथ दक्षेऽरुणकञ्जहस्ता
श्यामा ययौ भूरपि दीप्यमाना।
शास्त्राणि शस्त्राणि धनुश्च बाणा
जग्मुः पुरस्ताद्धृतविग्रहास्ते॥४०॥
वेदाश्च सर्वे धृतविग्रहाश्च
ययुश्च सर्वे मुनयश्च दिव्याः।
माता श्रुतीनां प्रणवेन साध्वी
ययौ हरिं व्याहृतिभिः समेता॥४१॥
गच्छन्तमेवानुगता जनास्ते
सपुत्रदाराः सह बन्धुवर्गैः।
अनावृतद्वारमिवापवर्गं
रामं व्रजन्तं ययुराप्तकामाः॥४२॥
सान्तःपुरः सानुचरः सभार्यः
शत्रुघ्नयुक्तोभरतोऽनुयातः।
गच्छन्तमालोक्य रमासमेतं
श्रीराघवं पौरजनाः समस्ताः।
सबालवृद्धाश्च ययुर्द्विजाग्र्याः
सामात्यवर्गाश्च समन्त्रिणो ययुः॥४३॥
सर्वे गताः क्षत्रमुखाः प्रहृष्टा
वैश्याश्च शूद्राश्च तथा परे च।
सुग्रीवमुख्या हरिपुङ्गवाश्च
स्नाता विशुद्धाः शुभशब्दयुक्ताः॥४४॥
न कश्चिदासीद्भवदुःखयुक्तो
दीनोऽथवा बाह्यसुखेषु सक्तः।
आनन्दरूपानुगता विरक्ता
ययुश्च रामं पशुभृत्यवर्गैः॥४५॥
भूतान्यदृश्यानि च यानि तत्र
ये प्राणिनः स्थावरजङ्गमाश्च।
साक्षात्परात्मानमनन्तशक्तिं
जग्मुर्विमुक्ताः परमेकमीशम्॥४६॥
नासीदयोध्यानगरे तु जन्तुः
कश्चित्तदा राममना न यातः।
शून्यं बभूवाखिलमेव तत्र
पुरं गते राजनि रामचन्द्रे॥४७॥
ततोऽतिदूरं नगरात्स गत्वा
दृष्ट्वा नदीं तां हरिनेत्रजाताम्।
ननन्द रामः स्मृतपावनोऽतो
ददर्श चाशेषमिदं हृदिस्थम्॥४८॥
अथाऽऽगतस्तत्र पितामहो महान्
देवाश्च सर्वे ऋषयश्च सिद्धाः।
विमानकोटीभिरपारपारं
समावृतं खं सुरसेविताभिः॥४९॥
रविप्रकाशाभिरभिस्फुरत्स्वं
ज्योतिर्मयं तत्र नभो बभूव।
स्वयम्प्रकाशैर्महतां महद्भिः
समावृतं पुण्यकृतां वरिष्ठैः॥५०॥
ववुश्च वाताश्च सुगन्धवन्तो
ववर्ष वृष्टिः कुसुमावलीनाम्।
उपस्थिते देवमृदङ्गनादे
गायत्सु विद्याधरकिन्नरेषु॥५१॥
रामस्तु पद्भ्यां सरयूजलं सकृत्
स्पृष्ट्वा परिक्रामदनन्तशक्तिः।
ब्रह्मा तदा प्राह कृताञ्जलिस्तं
रामं परात्मन् परमेश्वरस्त्वम्॥५२॥
विष्णुः सदानन्दमयोऽसि पूर्णो
जानासि तत्त्वं निजमैशमेकम्।
तथाऽपि दासस्य ममाखिलेश
कृतं वचो भक्तपरोऽसि विद्वन्॥५३॥
त्वं भ्रातृभिर्वैष्णवमेवमाद्यं
प्रविश्य देहं परिपाहि देवान्।
यद् वा परो वा यदि रोचते तं
प्रविश्य देहं परिपाहि नस्त्वम्॥५४॥
त्वमेव देवाधिपतिश्च विष्णुः
जानन्ति न त्वां पुरुषा विना माम्।
सहस्रकृत्वस्तु नमो नमस्ते
प्रसीद देवेश पुनर्नमस्ते॥५५॥
पितामहप्रार्थनया स रामः
पश्यत्सु देवेषु महाप्रकाशः।
मुष्णंश्च चक्षूंषि दिवौकसां तदा
बभूव चक्रादियुतश्चतुर्भुजः॥५६॥
शेषो बभूवेश्वरतल्पभूतः
सौमित्रिरत्यद्भुतभोगधारी।
बभूवतुश्चक्रदरौ च दिव्यौ
कैकेयिसूनुर्लवणान्तकश्च॥५७॥
सीता च लक्ष्मीरभवत्पुरेव
रामो हि विष्णुः पुरुषः पुराणः।
सहानुजः पूर्वशरीरकेण
बभूव तेजोमयदिव्यमूर्तिः॥५८॥
विष्णुं समासाद्य सुरेन्द्रमुख्या
देवाश्च सिद्धा मुनयश्च दक्षाः।
पितामहाद्याः परितः परेशं
स्तवैर्गृणन्तः परिपूजयन्तः॥५९॥
आनन्दसम्प्लावितपूर्णचित्ता
बभूविरे प्राप्तमनोरथास्ते।
तदाऽऽह विष्णुर्द्रुहिणं महात्मा
एते हि भक्ता मयि चानुरक्ताः॥६०॥
यान्तं दिवं मामनुयान्ति सर्वे
तिर्यक्षरीरा अपि पुण्ययुक्ताः।
वैकुण्ठसाम्यं परमं प्रयान्तु
समाविशस्वाऽऽशु ममाऽऽज्ञया त्वम्॥६१॥
श्रुत्वा हरेर्वाक्यमथाब्रवीत्कः
सान्तानिकान् यान्तु विचित्रभोगान्।
लोकान्मदीयोपरि दीप्यमानान्
त्वद्भावयुक्ताः कृतपुण्यपुञ्जाः॥६२॥
ये चापि ते राम पवित्रनाम
गृणन्ति मर्त्या लयकाल एव।
अज्ञानतो वाऽपि भजन्तु लोकान्
तानेव योगैरपि चाधिगम्यान्॥६३॥
ततोऽतिहृष्टा हरिराक्षसाद्याः
स्पृष्ट्वा जलं त्यक्तकलेवरास्ते।
प्रपेदिरे प्राक्तनमेव रूपं
यदंशजा ऋक्षहरीश्वरास्ते॥६४॥
प्रभाकरं प्राप हरिप्रवीरः
सुग्रीव आदित्यजवीर्यवत्त्वात्।
ततो विमग्नाः सरयूजलेषु
नराः परित्यज्य मनुष्यदेहम्॥६५॥
आरुह्य दिव्याभरणा विमानं
प्रापुश्च ते सान्तनिकाख्यलोकान्।
तिर्यक्प्रजाता अपि रामदृष्टा
जलं प्रविष्टा दिवमेव याताः॥६६॥
दिदृक्षवो जानपदाश्च लोका
रामं समालोक्य विमुक्तसङ्गाः।
स्मृत्वा हरिं लोकगुरुं परेशं
स्पृष्ट्वा जलं स्वर्गमवापुरञ्जः॥६७॥
एतावदेवोत्तरमाह शम्भुः
श्रीरामचन्द्रस्य कथावशेषम्।
यः पादमप्यत्र पठेत्स पापाद्-
विमुच्यते जन्मसहस्रजातात्॥६८॥
दिने दिने पापचयं प्रकुर्वन्
पठेन्नरः श्लोकमपीह भक्त्या।
विमुक्तसर्वाघचयः प्रयाति
रामस्य सालोक्यमनन्यलभ्यम्॥६९॥
आख्यानमेतद् रघुनायकस्य
कृतं पुरा राघवचोदितेन।
महेश्वरेणाप्तभविष्यदर्थं
श्रुत्वा तु रामः परितोषमेति॥७०॥
रामायणं काव्यमनन्तपुण्यं
श्रीशङ्करेणाभिहितं भवान्यै।
भक्त्या पठेद्यः शृणुयात् स पापैर्-
विमुच्यते जन्मशतोद्भवैश्च॥७१॥
अध्यात्मरामं पठतश्च नित्यं
श्रोतुश्च भक्त्या लिखितुश्च रामः।
अतिप्रसन्नश्च सदा समीपे
सीतासमेतः श्रियमातनोति॥७२॥
रामायणं जनमनोहरमादिकाव्यं
ब्रह्मादिभिः सुरवरैरपि संस्तुतं च।
श्रद्धान्वितः पठति यः शृणुयात्तु नित्यं
विष्णोः प्रयाति सदनं स विशुद्धदेहः॥७३॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे नवमः सर्गः॥
❀
॥इति श्रीमदध्यात्मरामायणे उत्तरकाण्डः समाप्तः॥
❀ ❀ ❀
॥इति श्रीमदध्यात्मरामायणं सम्पूर्णम्॥