अष्टमः सर्गः
श्री-महादेव उवाच
अथ काले गते कस्मिन् भरतो भीमविक्रमः।
युधाजिता मातुलेन ह्याहूतोऽगात्ससैनिकः॥१॥
रामाज्ञया गतस्तत्र हत्वा गन्धर्वनायकान्।
तिस्रः कोटीः पुरे द्वे तु निवेश्य रघुनन्दनः॥२॥
पुष्करं पुष्करावत्यां तक्षं तक्षशिलाह्वये।
अभिषिच्य सुतौ तत्र धनधान्यसुहृद्वृतौ॥३॥
पुनरागत्य भरतो रामसेवापरोऽभवत्।
ततः प्रीतो रघुश्रेष्ठो लक्ष्मणं प्राह सादरम्॥४॥
उभौ कुमारौ सौमित्रे गृहीत्वा पश्चिमां दिशम्।
तत्र भिल्लान् विनिर्जित्य दुष्टान् सर्वापकारिणः॥५॥
अङ्गदश्चित्रकेतुश्च महासत्त्वपराक्रमौ।
द्वयोर्द्वे नगरे कृत्वा गजाश्वधनरत्नकैः॥६॥
अभिषिच्य सुतौ तत्र शीघ्रमागच्छ मां पुनः।
रामस्याज्ञां पुरस्कृत्य गजाश्वबलवाहनः॥७॥
गत्वा हत्वा रिपून् सर्वान् स्थापयित्वा कुमारकौ।
सौमित्रिः पुनरागत्य रामसेवापरोऽभवत्॥८॥
ततस्तु काले महति प्रयाते
रामं सदा धर्मपथे स्थितं हरिम्।
द्रष्टुं समागादृषिवेषधारी
कालस्ततो लक्ष्मणमित्युवाच॥९॥
निवेदयस्वातिबलस्य दूतं
मां द्रष्टुकामं पुरुषोत्तमाय।
रामाय विज्ञापनमस्ति तस्य
महर्षिमुख्यस्य चिराय धीमन्॥१०॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः।
आचचक्षेऽथ रामाय स सम्प्राप्तं तपोधनम्॥११॥
एवं ब्रुवन्तं प्रोवाच लक्ष्मणं राघवो वचः।
शीघ्रं प्रवेश्यतां तात मुनिः सत्कारपूर्वकम्॥१२॥
लक्ष्मणस्तु तथेत्युक्त्वा प्रावेशयत तापसम्।
स्वतेजसा ज्वलन्तं तं घृतसिक्तं यथाऽनलम्॥१३॥
सोऽभिगम्य रघुश्रेष्ठं दीप्यमानः स्वतेजसा।
मुनिर्मधुरवाक्येन वर्धस्वेत्याह राघवम्॥१४॥
तस्मै स मुनये रामः पूजां कृत्वा यथाविधि।
पृष्ट्वाऽनामयमव्यग्रो रामः पृष्टोऽथ तेन सः॥१५॥
दिव्यासने समासीनो रामः प्रोवाच तापसम्।
यदर्थमागतोऽसि त्वमिह तत्प्रापयस्व मे॥१६॥
वाक्येन चोदितस्तेन रामेणाह मुनिर्वचः।
द्वन्द्वमेव प्रयोक्तव्यमनालक्ष्यं तु तद्वचः॥१७॥
नान्येन चैतच्छ्रोतव्यं नाख्यातव्यं च कस्यचित्।
शृणुयाद् वा निरीक्षेद् वा यः स वध्यस्त्वया प्रभो॥१८॥
तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत्।
तिष्ठ त्वं द्वारि सौमित्रे नायात्वत्र जनो रहः॥१९॥
यद्यागच्छति को वाऽपि स वध्यो मे न संशयः।
ततः प्राह मुनिं रामो येन वा त्वं विसर्जितः॥२०॥
यत्ते मनीषितं वाक्यं तद्वदस्व ममाग्रतः।
ततः प्राह मुनिर्वाक्यं शृणु राम यथातथम्॥२१॥
ब्रह्मणा प्रेषितोऽस्मीश कार्यार्थे तेऽन्तिकं प्रभो।
अहं हि पूर्वजो देव तव पुत्रः परन्तप॥२२॥
मायासङ्गमजो वीर कालः सर्वहरः स्मृतः।
ब्रह्मा त्वामाह भगवान् सर्वदेवर्षिपूजितः॥२३॥
रक्षितुं स्वर्गलोकस्य समयस्ते महामते।
पुरा त्वमेक एवासीर्लोकान् संहृत्य मायया॥२४॥
भार्यया सहितस्त्वं मामादौ पुत्रमजीजनः।
तथा भोगवतं नागमनन्तमुदकेशयम्॥२५॥
मायया जनयित्वा त्वं द्वौ ससत्त्वौ महाबलौ।
मधुकैटभकौ दैत्यौ हत्वा मेदोऽस्थिसञ्चयम्॥२६॥
इमां पर्वतसम्बद्धां मेदिनीं पुरुषर्षभ।
पद्मे दिव्यार्कसङ्काशे नाभ्यामुत्पाद्य मामपि॥२७॥
मां विधाय प्रजाध्यक्षं मयि सर्वं न्यवेदयत्।
सोऽहं संयुक्तसम्भारस्त्वामवोचं जगत्पते॥२८॥
रक्षां विधत्स्व भूतेभ्यो ये मे वीर्यापहारिणः।
ततस्त्वं कश्यपाज्जातो विष्णुर्वामनरूपधृक्॥२९॥
हृतवानसि भूभारं वधाद्रक्षोगणस्य च।
सर्वासूत्सार्यमाणासु प्रजासु धरणीधर॥३०॥
रावणस्य वधाकाङ्क्षी मर्त्यलोकमुपागतः।
दशवर्षसहस्राणि दशवर्षशतानि च॥३१॥
कृत्वा वासस्य समयं त्रिदशेष्वात्मनः पुरा।
स ते मनोरथः पूर्णः पूर्णे चायुषि ते नृषु॥३२॥
कालस्तापसरूपेण त्वत्समीपमुपागमत्।
ततो भूयश्च ते बुद्धिर्यदि राज्यमुपासितुम्॥३३॥
तत्तथा भव भद्रं ते एवमाह पितामहः।
यदि ते गमने बुद्धिर्देवलोकं जितेन्द्रिय॥३४॥
सनाथा विष्णुना देवा भजन्तु विगतज्वराः।
चतुर्मुखस्य तद् वाक्यं श्रुत्वा कालेन भाषितम्॥३५॥
हसन् रामस्तदा वाक्यं कृत्स्नस्यान्तकमब्रवीत्।
श्रुतं तव वचो मेऽद्य ममापीष्टतरं तु तत्॥३६॥
सन्तोषः परमो ज्ञेयस्त्वदागमनकारणात्।
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः॥३७॥
भद्रं तेऽस्त्वागमिष्यामि यत एवाहमागतः।
मनोरथस्तु सम्प्राप्तो न मेऽत्रास्ति विचारणा॥३८॥
मत्सेवकानां देवानां सर्वकार्येषु वै मया।
स्थातव्यं मायया पुत्र यथा चाह प्रजापतिः॥३९॥
एवं तयोः कथयतोर्दुर्वासा मुनिरभ्यगात्।
राजद्वारं राघवस्य दर्शनापेक्षया द्रुतम्॥४०॥
मुनिर्लक्ष्मणमासाद्य दुर्वासा वाक्यमब्रवीत्।
शीघ्रं दर्शय रामं मे कार्यं मेऽत्यन्तमाहितम्॥४१॥
तच्छ्रुत्वा प्राह सौमित्रिर्मुनिं ज्वलनतेजसम्।
रामेण कार्यं किं तेऽद्य किं तेऽभीष्टं करोम्यहम्॥४२॥
राजा कार्यान्तरे व्यग्रो मुहूर्तं सम्प्रतीक्ष्यताम्।
तच्छ्रुत्वा क्रोधसन्तप्तो मुनिः सौमित्रिमब्रवीत्॥४३॥
अस्मिन् क्षणे तु सौमित्रे न दर्शयसि चेद्विभुम्।
रामं सविषयं वंशं भस्मीकुर्यां न संशयः॥४४॥
श्रुत्वा तद्वचनं घोरमृषेर्दुर्वाससो भृशम्।
स्वरूपं तस्य वाक्यस्य चिन्तयित्वा स लक्ष्मणः॥४५॥
सर्वनाशाद्वरं मेऽद्य नाशो ह्येकस्य कारणात्।
निश्चित्यैवं ततो गत्वा रामाय प्राह लक्ष्मणः॥४६॥
सौमित्रेर्वचनं श्रुत्वा रामः कालं व्यसर्जयत्।
शीघ्रं निर्गम्य रामोऽपि ददर्शात्रेः सुतं मुनिम्॥४७॥
रामोऽभिवाद्य सम्प्रीतो मुनिं पप्रच्छ सादरम्।
किं कार्यं ते करोमीति मुनिमाह रघूत्तमः॥४८॥
तच्छ्रुत्वा रामवचनं दुर्वासा राममब्रवीत्।
अद्य वर्षसहस्राणामुपवाससमापनम्॥४९॥
अतो भोजनमिच्छामि सिद्धं यत्ते रघूत्तम।
रामो मुनिवचः श्रुत्वा सन्तोषेण समन्वितः॥५०॥
स सिद्धमन्नं मुनये यथावत्समुपाहरत्।
मुनिर्भुक्त्वाऽन्नममृतं सन्तुष्टः पुनरभ्यगात्॥५१॥
स्वमाश्रमं गते तस्मिन् रामः सस्मार भाषितम्।
कालेन शोकदुःखार्तो विमनाश्चातिविह्वलः॥५२॥
अवाङ्मुखो दीनमना न शशाकाभिभाषितुम्।
मनसा लक्ष्मणं ज्ञात्वा हतप्रायं रघूद्वहः॥५३॥
अवाङ्मुखो बभूवाथ तूष्णीमेवाखिलेश्वरः।
ततो रामं विलोक्याऽऽह सौमित्रिर्दुःखसम्प्लुतम्॥५४॥
तूष्णीम्भूतं चिन्तयन्तं गर्हन्तं स्नेहबन्धनम्।
मत्कृते त्यज सन्तापं जहि मां रघुनन्दन॥५५॥
गतिः कालस्य कलिता पूर्वमेवेदृशी प्रभो।
त्वयि हीनप्रतिज्ञे तु नरको मे ध्रुवं भवेत्॥५६॥
मयि प्रीतिर्यदि भवेद्यद्यनुग्राह्यता तव।
त्यक्त्वा शङ्कां जहि प्राज्ञ मा मा धर्मं त्यज प्रभो॥५७॥
सौमित्रिणोक्तं तच्छ्रुत्वा रामश्चलितमानसः।
आहूय मन्त्रिणः सर्वान् वसिष्ठं चेदमब्रवीत्॥५८॥
मुनेरागमनं यत्तु कालस्यापि हि भाषितम्।
प्रतिज्ञामात्मनश्चैव सर्वमावेदयत्प्रभुः॥५९॥
श्रुत्वा रामस्य वचनं मन्त्रिणः सपुरोहिताः।
ऊचुः प्राञ्जलयः सर्वे राममक्लिष्टकारिणम्॥६०॥
पूर्वमेव हि निर्दिष्टं तव भूभारहारिणः।
लक्ष्मणेन वियोगस्ते ज्ञातो विज्ञानचक्षुषा॥६१॥
त्यजाऽऽशु लक्ष्मणं राम मा प्रतिज्ञां त्यज प्रभो।
प्रतिज्ञाते परित्यक्ते धर्मो भवति निष्फलः॥६२॥
धर्मे नष्टेऽखिले राम त्रैलोक्यं नश्यति ध्रुवम्।
त्वं तु सर्वस्य लोकस्य पालकोऽसि रघूत्तम॥६३॥
त्यक्त्वा लक्ष्मणमेवैकं त्रैलोक्यं त्रातुमर्हसि।
रामो धर्मार्थसहितं वाक्यं तेषामनिन्दितम्॥६४॥
सभामध्ये समाश्रुत्य प्राह सौमित्रिमञ्जसा।
यथेष्टं गच्छ सौमित्रे मा भूद्धर्मस्य संशयः॥६५॥
परित्यागो वधो वाऽपि सतामेवोभयं समम्।
एवमुक्ते रघुश्रेष्ठे दुःखव्याकुलितेक्षणः॥६६॥
रामं प्रणम्य सौमित्रिः शीघ्रं गृहमगात्स्वकम्।
ततोऽगात्सरयूतीरमाचम्य स कृताञ्जलिः॥६७॥
नव द्वाराणि संयम्य मूर्ध्नि प्राणमधारयत्।
यदक्षरं परं ब्रह्म वासुदेवाख्यमव्ययम्॥६८॥
पदं तत्परमं धाम चेतसा सोऽभ्यचिन्तयत्।
वायुरोधेन संयुक्तं सर्वे देवाः सहर्षयः॥६९॥
साग्नयो लक्ष्मणं पुष्पैस्तुष्टुवुश्च समाकिरन्।
अदृश्यं विबुधैः कैश्चित्सशरीरं च वासवः॥७०॥
गृहीत्वा लक्ष्मणं शक्रः स्वर्गलोकमथागमत्।
ततो विष्णोश्चतुर्भागं तं देवं सुरसत्तमाः।
सर्वे देवर्षयो दृष्ट्वा लक्ष्मणं समपूजयन्॥७१॥
लक्ष्मणे हि दिवमागते हरौ
सिद्धलोकगतयोगिनस्तदा।
ब्रह्मणा सह समागमन्मुदा
द्रष्टुमाहितमहाहिरूपकम्॥७२॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे अष्टमः सर्गः॥
❀